सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्ग: २६ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १०९ ततः कुशपरिस्तीर्ण समिद्धं जातवेदसम् || मन्त्रपूतेन हविषा हुत्वा मन्त्रविदो जनाः ॥ २९ ॥ ततो हेमप्रतिष्ठाने वरास्तरणसंवृते || प्रासादशिखरे रम्ये चित्रमाल्योपशोभिते ॥ ३० ॥ प्राङ्मुखं विविधैर्मन्त्रैः स्थापयित्वा वरासने || नदीनदेभ्यः संहृत्य तीर्थेभ्यश्च समन्ततः ॥ ३१ ॥ आहृत्य च समुद्रेभ्यः सर्वेभ्यो वानरर्षभाः ॥ अपः कनककुम्भेषु निधाय विमलाः शुभाः ॥ ३२ ॥ शुभैर्वृषभङ्गैश्व कलशैश्चापि काश्चनैः || शास्त्रदृष्टेन विधिना महर्षिविहितेन च ॥ ३३ ॥ गजो गवाक्षो गवयः शरभो गन्धमादनः || मैन्दव द्विविदश्चैव हनुमाञ्जाम्बवान्नलः ॥ ३४ ॥ अभ्यषिञ्चन्त सुग्रीवं प्रसन्नेन सुगन्धिना || सलिलेन सहस्राक्षं वसवो वासवं यथा ॥ ३५ ॥ अभिषिक्ते तु सुग्रीवे सर्वे वानरपुङ्गवाः || प्रचुक्रुशुर्महात्मानो हँष्टास्तत्र सहस्रशः || ३६ ॥ रामस्य तु वचः कुर्वन्सुग्रीवो हेरिपुङ्गवः ॥ अङ्गदं संपरिष्वज्य यौवराज्येऽभ्यपेचयत् ॥ ३७ ॥ अङ्गदे चाभिषिक्ते तु सानुक्रोशा : प्लवङ्गमाः || साधु साध्विति सुग्रीवं महात्मानोऽभ्यपूजयन् ॥ ३८ ॥ रोमं चैव महात्मानं लक्ष्मणं च पुनः पुनः ॥ प्रीताच तुष्टुवुः सर्वे तादृशे तत्र वैर्तति ॥ ३९ ॥ हृष्टपुष्टजैनाकीर्णा पताकाध्वजशोभिता || बभूव नगरी रम्या किष्किन्धा गिरिगहरे ॥ ४० ॥ निवेद्य रामाय तदा महात्मने महाभिषेकं कपिवाहिनीपतिः ॥ रुमां च भार्या प्रतिलभ्य वीर्यवानवाप राज्यं त्रिदशाधिपो यथा ॥ ४१ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे पशिः सर्गः ॥ २६ ॥ । ताः । हैमप्रतिष्ठाने हेममयपादयुक्ते | वरासनविशेष - | ङ्गदाभिषेकरूपोत्सषे | वर्तति वर्तमाने सति ॥ ३९ ॥ णमेतत् । नदीनदेभ्यस्तीर्थेभ्य: समुद्रेभ्यश्च अप: पताकाध्वजयोर्भेद उक्तः ॥ ४० ॥ निवेद्य रामसमी- आहृत्य आनीय । संहृत्य संमिश्रीकृत्य । तद्विमलं जलं | पमागत्य निवेद्येत्यर्थः ॥ ४१ ॥ इति श्रीगोविन्दराज- कनककुम्भेषु निधाय तेभ्यो वृषभशृङ्गादिभिरुद्धृत्य । विरचिते श्रीमद्रामायणभूषणे मुक्ताहाराख्याने शास्त्रदृष्टेन विधिना क्रमेण । महर्षिविहितेन कल्पसू- किष्किन्धाकाण्डव्याख्याने षड्डूिंशः सर्गः ॥ २६ ॥ त्रविहितेन च विधिना । अभ्यषिञ्चन्त ॥२८–३७॥ सानुक्रोशाः अङ्गदे सदयाः || ३८ | तादृशे सुप्रीवा- ति० ततः कुशेति । अनेनाग्निसाध्य कर्माधिकारतेषांदर्शयति । मनुष्यसदृशसर्वव्यवहाराद्वेदज्ञत्वाच ॥ २९ ॥ ति० मन्त्रै- स्स्थापयित्वा “ वसवस्त्वागायत्रेणच्छन्दसा " इत्यादिमन्त्रैरासनेस्थापयित्वेत्यर्थः ॥ स० नदीनदेभ्यः अविवक्षितत्वानैकशेषः ॥ ३१ ॥ स० अपः नविद्यते पःपालकोयस्यसोपः । अस्यगजोगवाक्षइत्यादिनापृथगन्वयः । तेननजलशब्देनपौनरुत्त्यं ॥ ति० अपआहृत्य मिलिताः कृत्वा विमलंजलंकुंभेषुनिधायेतिसंबन्धः ॥ ३२ ॥ ति० तादृशेतत्रवर्तिनि अभिषिक्तेसुप्रीवेऽङ्गदेच | तत्र किष्किन्धायां । वर्तिनि वर्तमानेसतीत्यर्थः ॥ ३९ ॥ ती० फलश्रुतिः । “ अभिषेकंच तारायारुमायाः प्राप्तिमुत्तमाम् । सुग्रीवस्यसदाश्रुत्वाराज्यलाभंसगच्छति ” इति ॥ ४१ ॥ इतिषड्विंशः सर्गः ॥ २६ ॥ [ पा० ] १ ग. माल्यानुशोभिते. २ क. ग. झ. ट. विमलंजलं. ङ. च. ज. विधिवज्जलं. ३ क. शुभैर्हिरण्यशङ्गैश्च ४ छ. झ. ट. कलशैश्चैव. ख. सुकुशैश्चापि ५ ङ. छ. झ. ट. जांबवांस्तथा. ६ क. प्रतुष्टुवुः ७ ङ. छ. -ट. हृष्टाः शतसहस्रशः. ८ ग. रामस्यवचनं. ९ छ. झ. ड. वानरेश्वरः १० ङ. छ. ट. ह्यपूजयन्. ११ ग. रामंचलक्ष्मणंचैवप्रशशंसुः पुनः पुनः १९ छ. झ. वर्तिनि. १३ घ. समाकीर्णा १४ घ. -ट. भार्यामुपलभ्य