पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/११२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०८ [ किष्किन्धाकाण्डम् ४ अभिषिक्तः स्वराज्ये च सुहृदः संप्रेहर्षय ॥ १७ ॥ इति रामाभ्यनुज्ञातः सुग्रीवो वानराधिपः ॥ प्रविवेश पुरीं रम्यां किष्किन्धां वालिपालिताम् ॥ १८ ॥ तं वानरसहस्राणि प्रविष्टं वानरेश्वरम् || अभिवाद्य प्रविष्टानि सर्वतः पेर्यवारयन् ॥ १९ ॥ ततः प्रकृतयः सर्वा दृष्ट्वा हरिगणेश्वरम् || प्रणम्य मूर्ध्ना पतिता वसुधायां समाहिताः ॥ २० ॥ सुग्रीवः प्रकृतीः सर्वाः संभाष्योत्थाप्य वीर्यवान् ॥ भ्रातुरन्तःपुरं सौम्यं प्रविवेश महाबलः ॥ २१ ॥ प्रविश्य त्वभिनिष्क्रान्तं सुग्रीवं प्लवगेश्वरम् || अभ्यषिञ्चन्त सुहृदः सहस्राक्षमिवामराः ॥ २२ ॥ तस्य पाण्डुरमाजहुञ्छत्रं हेमपरिष्कृतम् ॥ शुक्ले च वालव्यजने हेमदण्डे यशस्करे || २३ ॥ तथा सर्वाणि रत्नानि सर्वबीजौषधैरपि ॥ सक्षीराणां च वृक्षाणां प्ररोहान्कुसुमानि च ॥ २४ ॥ शुक्लानि चैव वस्त्राणि श्वेतं चैवानुलेपनम् || सुगन्धीनि च माल्यानि स्थलजान्यम्बुजानि च ॥ २५ ॥ चन्दनानि च दिव्यानि गन्धांच विविधान्बहून् | अक्षतं जातरूपं च प्रियङ्गुमधुसर्पिषी || दधि चर्म च वैयाघ्रं वाराही चाप्युपानहौ ॥ २६ ॥ श्रीमद्वाल्मीकिरामायणम् । समालम्भनमादाय रोचैनां समनःशिलाम् || आजग्मुस्तत्र मुदिता वराः कैन्यास्तु षोडश ॥ २७ ॥ तैंतस्ते वानरश्रेष्ठं यथाकालं यथाविधि ॥ रत्नैर्वस्त्रैश्च मक्षैश्च तोषयित्वा द्विजर्षभान् ॥ २८ ॥ रावणेन i अथ पञ्चवट्यां वर्षत्रयानन्तरं चैत्रे प्राप्ते शूर्पणखा | मनस्काः ॥ २० ॥ भ्रातुरन्तःपुरं प्रविवेशेति । तारां नासिकाच्छेदनखरवधादिकं कृतमित्यवगम्यते । संमान्य स्ववशीकरणार्थमितिभावः ॥ २१ – २२ ।। च मारीचवचनादिना किंचिद्विलम्ब्य प्ररोहान् पल्लवान् । अनुलेपनं कर्पूरादि । गन्धाः तस्मिन्नेव चैत्रे सीता हृता । सीताविरहेण दूयमानस्य अगरुप्रभृतयः | अक्षतं जातरूपं अक्षततण्डुलं हरि- रामस्य वसन्तवर्णने चैत्रवनानिल इत्युक्तेः । लङ्कायां द्रामिश्रं । प्रियङ्गु: सूक्ष्मधान्यविशेषः । वाराही सीतायाः संवत्सरवासोक्तेश्च । पुनः फाल्गुने हि वराहचर्मविकृती । “ सुपां सुलुक् " इत्यादिना रावणवधः । आषाढे वालिवधः । शरदि सेनासनहनं । पूर्वसवर्णदीर्घः ॥ २३ – २६ ॥ समालम्भनं अनुले- मार्गशीर्षे वानरप्रस्थापनं । स्वयंप्रभाबिले बहु- पनविशेषः । “ समालम्भो विलेपन " इत्यमरः । कालयापनं । 66 कालञ्च नो महान्यातः” इत्युक्तेः । रोचनां गोरोचनां । समनःशिलां | शैलधातुवि बहिर्निर्गमनानन्तरं फाल्गुनशुद्धत्रयोदश्यां हनुमतः शेषसंहितं तिलकसाधनं मनःशिला ॥ २७ ॥ ततस्ते समुद्रतरणं । चतुर्दश्यां पुनरागमनं ( ? ) । वानरश्रेष्ठमित्यारभ्य वसवो वासवं यथेत्यन्तमेकं वा- पौर्णमास्यां दण्डयात्रेत्यादि । अन्ययुद्धकाण्डे क्यं ॥ यथाकालं विहितकालमनतिक्रम्य | यथाविधि वक्ष्यते । समय: संकेतः ॥ १६–१९ ॥ यथाक्रमं । द्विजर्षभान् याजनार्थमाहूतान् । समिद्धं मूर्ध्ना प्रणम्य वसुधायांपतिताः । समाहिताः अनन्य- | ज्वलितं । जातवेदसं अग्निं । मन्त्रविदः वानरपुरोहि ति० प्रविश्यत्वभिनिष्क्रान्त मितिपाठे प्रविश्य अन्तःपुरगतशोकादिकंदृष्ट्वा अभिषेकायतुपुनः निष्क्रान्तं प्रतिनिवृत्तं सभामागतमित्यर्थः ॥ २२॥ स० यशस्करे सुग्रीवे । पाण्डुरंछत्रं आजहुः । तस्यसुहृदइतितस्येत्यस्यपूर्वेणान्वयः | यशस्करे इतिवालव्यजन विशेषणंच ॥ २३ ॥ टीका० श्वेतमनुलेपनं कर्पूरद्रवः ॥ २५ ॥ टीका० प्रियङ्गुः फलिनीपुष्पं । " प्रियडः फलिनीफली" इत्यमरः । यद्वा “प्रियङ्गःसिद्धार्थःसमौ” इति विश्वप्रकाशः ॥ स० गन्धान् गन्धद्रव्याणि । जातरूपं रौप्यं । प्रियङ्गुसहितंमधु प्रियङ्गुमधु | अनन्तरंद्वन्द्वः । अतोनद्विवचनानुपपत्तिः ॥ २६ ॥ ती० द्विजर्षभान् वानरजातीय द्विजर्षभान् ॥ २८ ॥ [पा० ] १ क. ग. छ. ज. झ. ट. अभिषिञ्चस्व. २ ग. संप्रचोदय. ३ क. ग. छ. - ट. वानरर्षभः ४ क. घ. च. ज. ञ. ट. प्रहृष्टानि. ५ ङ. छ. - ञ. प्लवगेश्वरं. ६ ङ. –ञ. प्रविष्टंभीमविक्रान्तंसुग्रीवंवानरर्षभं ७ क. घ. वानरर्षभं• ८ ङ. – ट. रत्नानिसर्वाणि. ९ क. – ट. सर्वबीजौषधानिच. १० क. ग. घ. ज. अ. वराहौं. ङ. छ. झ ट पराध्यौं ११ क समालेपन. १२ झ. गोरोचनंमनः शिलां. छ. ट. गोरोचनमनः शिलां• ङ. च. गोरोचनमनःशिलाः. घ. च. ज. रोचनांसुमनः शिलाः ख. रोचनांसुमनःशिलां. ग. रोचनांचमनःशिलां. १३ ख. ङ. छ. झ ञ ट कन्याश्च. १४ ख. ङ. ज. न. ततस्तं. १५ ङ. झ. ट. श्रेष्ठमभिषेक्तुं • १६ ग. ङ. द्विजोत्तमान्.