सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः २६ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । १०७ भवत्प्रसादात्सुग्रीवः पितृपैतामहं महत् ॥ वानराणां सुदुष्प्रापं प्राप्तो राज्यमिदं प्रभो ॥ ४ ॥ भवता समनुज्ञातः प्रविश्य नगरं शुभम् ॥ संविधास्यति कार्याणि सर्वाणि ससुहृज्जनः ॥ ५ ॥ स्नातोयं विविधैर्गन्धैरौषधैश्च यथाविधि | अर्चयिष्यति रैनैश्च माल्यैश्च त्वां विशेषतः ॥ ६ ॥ इमां गिरिगुहां रम्यामभिगन्तुमितोर्हसि || कुरुष्व स्वामिसंबन्धं वानरान्सप्रहर्षयन् ॥ ७ ॥ एवमुक्तो हनुमता राघवः परवीरहा || प्रत्युवाच हनूमन्तं बुद्धिमान्वाक्यकोविदः ॥ ८ ॥ चतुर्दश समाः सौम्य ग्रामं वा यदि वा पुरम् ॥ न प्रवेक्ष्यामि हनुमन्पितुर्निर्देशपालकः ॥ ९ ॥ सुसमृद्धां गुहां रॅम्यां सुग्रीवो वानरर्षभः || प्रविष्टो विधिवद्वीरः क्षिप्रं राज्येऽभिषिच्यताम् ॥ १० ॥ एवमुक्त्वा हनूमन्तं रामः सुग्रीवमब्रवीत् ॥ वृत्तज्ञो वृत्तसंपन्नमुदारबलविक्रमम् ॥ ११ ॥ इममध्यङ्गदं वीरं यौवराज्येऽभिषेचय | ज्येष्ठस्य स सुतो ज्येष्ठः सदृशो विक्रमेण ते ॥ अङ्गदोऽयमदीनात्मा यौवराज्यस्य भाजनम् ॥ १२ ॥ पूर्वोऽयं वार्षिको मासः श्रावणः सलिलागमः ॥ प्रवृत्ताः सौम्य चत्वारो मासा वार्षिकसंज्ञिकाः ॥ १३ ॥ नायमुद्योगसमयः प्रविश त्वं पुरीं शुभाम् || असिन्वत्स्याम्यहं सौम्य पर्वते सहलक्ष्मणः ॥ १४ ॥ इयं गिरिगुहा रम्या विशाला युक्तमारुता ॥ प्रभूतसलिला सौम्य प्रभूतकमलोत्पला ॥ १५ ॥ कार्तिके समनुप्राप्ते त्वं रावणवधे यत ॥ एष नः समयः सौम्य प्रविश त्वं स्वमालयम् ॥ १६ ॥ 16 " सुग्रीवादयः ॥ २–३॥ वानराणां राज्यमित्यन्वयः | क्तम् । श्रावणः प्रथमो मास इत्यत्रापि प्रथमः पक्ष ॥ ४–५ ॥ अतिनिपुणतया हनुमान् प्रथमं संग्रहेण इत्यर्थ: । " चत्वारो वार्षिका मासा गता वर्षशतो- विज्ञाप्य तच्छृण्वति रामे पुनर्विशदमाह - इ - स्नात इति पमाः " इत्युपसंहारादित्याह ॥ १३–१५ ॥ कार्ति- ॥ ६ ॥ गिरिगुहां किष्किन्धां । वानराणां स्वामिना के मासि समनुप्राप्ते समीपंप्राप्ते । आश्वयुजान्तइत्यर्थः । संबन्धं कुरु सुग्रीववानरराजंकुर्वित्यर्थः ॥ ७ – ११॥ यत यतस्व । सेनासंनहनंकुरु । कार्तिकशब्दस्य भाजनं योग्यमित्यर्थः ॥ १२ || अस्त्वभिषेकः आश्वयुजान्तपरत्वं स्वयमेव वक्ष्यति — “वयमाश्वयुजे सीतान्वेषणरावणवधादिकं प्रत्युद्योगः क्रियत इत्या- मासिपिङ्गाक्षप्रतिचोदिताः ” इति । प्रचोदनं संहनं शाह - पूर्व इत्यादि ॥ पूर्वः वर्षर्लपेक्षयाप्रथमः | नतुनिर्गमः | निर्गमस्तु मार्गशीर्षे । स्वसंकेतितका वर्षाः वर्षर्तुः । “ स्त्रियां प्रावृट् स्त्रियां भूम्नि वर्षा: ” र्तिकातिक्रमादेव रामस्य सुग्रीवे कोपो लक्ष्मणप्रेषणं इत्यमरः । तत्र भवो वार्षिक: । “द्वौ द्वौ मार्गादि- च । स्वयंप्रभाबिलनिर्गमनानन्तरं "दुमान्वासन्तिका- मासौ स्याहतुः " इति श्रावणभाद्रपदौ वर्षर्तुः । दृष्ट्वा " इत्येतद्वसन्तपुष्पोद्गमोपक्रमभूतपत्रविगलन- तदेकदेशत्वाच्छ्रावणोवार्षिक इत्युच्यते । “ वर्षाभ्य- हेतुफाल्गुनापेक्षया | पक्षान्तरे फाल्गुन चैत्रयोर्व- ष्ठक् " इति ठक्प्रत्ययः । वार्षिकसंज्ञिकाञ्चत्वारोमासा सन्तत्वोक्तेर्वा । अयमत्र क्रमोऽनुसन्धेयः । उत्तरस्या- इति । आश्वयुजाषाढाभ्यां चतुष्वमिति ज्ञेयं । छत्रि- दिना पूर्वस्यावधिं जानीयादिति न्यायेन उत्तरस्यो- न्यायात् । वर्षमुखत्वाद्वर्षानन्तरकालत्वाञ्च चत्वारोपि त्तरस्य ग्रहणात् पूर्वपूर्वकालसंख्याज्ञापनं वाल्मी- युद्धयोग्या न भवन्ति । कश्चित्तु – “पक्षा वैमासाः ” के: शैली । तथा च चैत्रे रामस्य साकेतान्निर्गमः इति श्रुतिपक्षमाश्रित्य चत्वारो वार्षिका मासा इत्यु - | अगस्त्याश्रमागमनात्पूर्व दश संवत्सरा गता इत्युक्तं । 66 66 टीका० औषधैः अभिषेकद्रव्यैः ॥ ६ ॥ स० स्वामिसंबन्धं सुग्रीवस्यराज्याभिषेकेणस्वामित्वसंबन्धं ॥ ७ ॥ स० ग्रामं अल्पजनाधिष्ठितं ॥ ९ ॥ टी० प्रवृत्ताः प्रवर्तितुमुपकान्ताः ॥ स० सलिलानामागमः आगमनंयस्मिन्सतथा ॥ १३ ॥ [ पा० ] १ क. ग. छ. झ. ट. त्प्रसादात्काकुत्स्थ २ वानराणामित्यर्धस्थाने छ. झ. ट. पाठेषुवानराणांसुदंष्ट्राणां संपन्नबल- शालिनाम् । महात्मनांसुदुष्प्रापंप्राप्तंराज्यमिदंप्रभो । इत्यर्धद्वयंदृश्यते ३ क. ङ. -ट. ससुहृद्रणः ४ छ. – ट. माल्यैश्चरनैश्च. ५ ङ. - ञ. गन्तुंवमर्हसि ६ ग. न्प्रतिहर्षयन्. ७ ङ. छ. ―ट. पारगः ८ क. ग. -च. ज. -ट. दिव्यां. ९ घ.ट. वीरं. १० क. ख. ङ. छ. - ट. ज्येष्ठस्य हि. घ. ज्येष्ठस्यतु. ११ ग. विक्रमेणहि. ख. घ. —ट. विक्रमेणच.