सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः २५ ] श्रीमद्गोविन्दराजीयव्याख्यासम॑लंकृतम् । १०३ किं तु कालपरीणामो द्रष्टव्यः साधु पश्यता || धर्मश्चार्थश्च कामञ्च कालक्रमसमाहिताः ॥ ८ ॥ इतः खां प्रकृति वाली गतः प्राप्तः क्रियाफलम् ॥ धर्मार्थकामसंयोगैः पवित्रं लवगेश्वरः ॥ ९ ॥ स्वधर्मस्य च संयोगाज्जितस्तेन महात्मना || स्वर्ग: पेरिगृहीतच प्राणानपरिरक्षता ॥ १० ॥ एषा वै नियतिः श्रेष्ठा यां गतो हरियूथपः ॥ तदलं परितापेन प्राप्तकालमुपास्यताम् ॥ ११ ॥ वैचनान्ते तु रामस्य लक्ष्मणः परवीरहा || अवदत्प्रश्रितं वाक्यं सुग्रीवं गतचेतसम् ॥ १२ ॥ कुरु त्वमस्य सुग्रीव प्रेतकार्यमनन्तरम् ॥ १३ ॥ ताराङ्गदाभ्यां सहितो वालिनो दहनं प्रति || समाज्ञापय काष्ठानि शुष्काणि च बहूनि च ॥ चन्दनादीनि दिव्यानि वालिसंस्कारकारणात् ॥ १४ ॥ समाश्वासय चैनं त्वमङ्गदं दीनचेतसम् || मा भूर्बालिशबुद्धिस्त्वं त्वदधीनमिदं पुरम् ॥ १५ ॥ अङ्गदस्त्वानयेन्माल्यं वस्त्राणि विविधानि च ॥ घृतं तैलमथो गन्धोन्यच्चात्र समनन्तरम् ॥ १६ ॥ त्वं तार शिविकां शीघ्रमादायागच्छ संभ्रमात् ॥ त्वरा गुणवती युक्ता ह्यसिन्काले विशेषतः ॥ १७ ॥ सज्जीभवन्तु प्लवगा: शिबिकावहनोचिताः || समर्था बलिनश्चैव निर्हरिष्यन्ति वालिनम् ॥ १८ ॥ तत्तत्कर्मानुगुणमेव ईश्वरः सर्वे वर्तयतीत्यर्थः ॥ ७ ॥ | केन स्वां प्रकृति प्राप्त इत्यपेक्षायामुक्तं विशदयति- तर्ह्यनीशेन जन्तुना किं कर्तव्यं तत्राह - किं त्विति ॥ स्वधर्मस्य चेति || स्वधर्मस्य संयोगात् स्वविहित- साधु सम्यक् । पश्यता शास्त्रनिष्कर्षमवगच्छते- धर्मानुष्ठानात् । रणे प्राणानपरिरक्षतेत्यनेन शौर्य- त्यर्थः । कालस्य ईश्वरस्य परिणाम: चेतनकर्मानुगु- |तधर्मोप्युक्तः । उभाभ्यां जितः पूर्वं स्ववशीकृतः स्वर्गः णप्रवृत्तिविशेषः द्रष्टव्यः ईश्वरकृतव्यापारेषु न शोकः इदानीं परिगृहीतश्च ॥ १० ॥ हरियूथपः यां नियतिं कर्तव्यः । यद्धितं तत्करिष्यतीति स्थातव्यमिति गतः सा नियतिर्गतिः श्रेष्ठा | तत्तस्मात्कारणात् । भावः । धर्मार्थकामास्तु कालक्रमेण ईश्वरमर्यादया परितापनालं । सद्गतिं प्राप्तं प्रति शोको न कार्यः । • समाहिताः समर्पिता भवन्ति । धर्मादिषु यत् प्राप्तकालं एतत्कालोचितं । उपास्यतां अनुष्ठीयतां प्राप्तव्यं तत् प्रापयतीश्वर एवेतिभावः । अत्र निय- ॥ ११ ॥ गतचेतसं दुःखितमिति यावत् ॥ १२ ॥ तिकालस्वभावपदैः व्यामिश्रतयोक्तिस्तदानीं रहस्यस्य कुरु त्वमस्येत्यर्धमेकं वाक्यं ॥ १३ ॥ वालिनो दहनं वक्तुमनर्हत्वादितिबोध्यम् ॥ ८ ॥ एवमर्थस्थितिमु- प्रति ताराङ्गदाभ्यां सहितः सन् । वालिसंस्कारकार- क्त्वा तां प्रकृते संगमयति- इत इति ॥ स्वां प्रकृतिं णात् वालिसंस्कारार्थ । चन्दनादीनि काष्ठानि समा- गतः मद्राणवेधकृतप्रायश्चित्ततया स्वकीयं शुद्धभावं प्राप्तः सन् । प्लवगेश्वरो वाली । इतः अस्माल्लोकात् । ज्ञापय ।। १४–१५ ।। यच्चात्र समनन्तरं मरणानन्तरं धर्मार्थकामसंयोगैः विहितकालानुष्ठितधर्मार्थकामसं- यदानेतव्यमस्ति तत्सर्वमङ्गदः समानयेदित्यर्थः ॥१६॥ बन्धैः । पवित्रं क्रियाफलं स्वर्ग प्राप्तः । सामदानार्थ- त्वरा गुणवती अस्मिन्काले विशेषतोयुक्ता ॥ १७ ॥ संयोगैरितिपाठे नीतिशास्त्रानुष्ठानैरित्यर्थः ॥ ९ ॥ ये निर्हरिष्यन्ति ते सज्जीभवन्त्विति योजना । निर्हारः दुःखादिलाभइत्येवसाधुपश्यतासुमतिना विवेकवताद्रष्टव्यः ज्ञातव्यः । नतुविषादहर्षी कर्तव्यौ नापिखसामर्थ्यनिन्देतिभावः । एवं धर्मादयोपि चादधर्मादयोपिकालक्रमेणैवसमाहिताः संपादिताभवन्ति ॥ ७-८ ॥ ती० धर्मश्चार्थश्चकालश्चकालक्रमसमाहिताः । पूर्वाह्नमध्याहापराह्नकालक्रमायत्ताः यस्मिन्कालेयत्कर्मकर्तव्यंसकालोऽनुल्लङ्घनीयइतिभावः ॥ ८ ॥ ति० प्रकृतमाह - इतइति । सामदानाभ्यामर्जितैः अर्थसंयोगैः ऐश्वर्यैः । पवित्रं शुभं | क्रियाफलं भोगं । इहलोकेप्राप्तवान्वालीइतोलोकांद्देहाच्च गतः अपगतः । स्वांप्रकृतिं गतः प्राप्तः । कार्याणांकारणेलयात् । एवं चेन्द्रलोकंगतोवालीतिसूचितं ॥ ९ ॥ शि० नियतिः मृतिः । प्राप्तकालं एतत्कालोचितं ॥ ११ ॥ ति० दहनंप्रति दहननिमित्तं । यतस्त्रेतिशेषः ॥ १४ ॥ । [ पा० ] १ घ. ज. धर्मकामार्थ संयोगैः, ख. ग. दानमानार्थसंयोगैः क. छ. सं. ट. सामदानार्थसंयोगः २ क. ग. झ. प्रतिगृहीतश्च ३ क. ग. वचनादेवरामस्य. घ. वचनात्तस्यरामस्य. ४ क. ग. ङ. —ट, चन्दनानिच ५ ख माभूत्तेवा लिशा- बुद्धि, ६ ङ च ज ञ ट गन्धानन्यच. ७ क. ग. - ट. वाहनोचिताः