पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः २५ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । सा वीरपत्नी ध्वनता मुखेन सुवेषरूपा विरराम तारा ॥ ४४ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे चतुर्विंशः सर्गः ॥ २४ ॥ पञ्चविंशः सर्गः ॥ २५ ॥ रामेण सुग्रीवादिसमाश्वासनानन्तरं लक्ष्मणेनसुग्रीवंप्रति वालिसंस्करणायकाष्ठादि संभारसजीकरणचोदनपूर्वकंतारंप्रति शिबिकानयनचोदना ॥ १ ॥ सुप्रीवेणरामाज्ञयाऽङ्गदेनसह वालिशरीरस्यतारानीतशिबिकारोपणपूर्वकं सर्वैः सह गिरिनदीमे- त्य पुलिनेवानरैः शिबिकावतारणपूर्वकंचिता निर्मापणम् ॥ २ ॥ वालिशिरसः स्वाङ्क समारोपणे न बहुधाविलपन्यास्ताराया वानरीभिःसमाश्वासनम् ॥ ३ ॥ अङ्गदेनसुग्रीवेणसह वालिशरीरस्यचितारोपणेन यथाविधिसंस्करणम् ॥ ४ ॥ सुप्रीवेणाङ्ग- दपुरस्कारेण वानरैः सहवालिनेजलदानपूर्वकं रामसमीपगमनम् ॥ ५ ॥ सुग्रीवं चैव तारां च साङ्गदं सह लक्ष्मणः || समानशोकः काकुत्स्थः सान्त्वयन्निदमब्रवीत् ॥ १ ॥ न शोकपरितापेन श्रेयसा युज्यते मृतः ॥ यदत्रानन्तरं कार्य तत्समाधातुमर्हथ ॥ २ ॥ लोकवृत्तमनुष्ठेयं कृतं वो बाष्पमोक्षणम् ॥ न कालादुत्तरं किंचित्कर्म शक्यमुपासितुम् ॥ ३ ॥ नियतिः कारणं लोके नियतिः कर्मसाधनम् || नियतिः सर्वभूतानां नियोगेष्विह कारणम् ॥ ४ ॥ सर्गः ॥ २४ ॥ न्तरहर्षवत्त्वं सूचितं । स्वलंकारयुक्तशरीरेत्यर्थः ||४४|| | सर्वैरनुष्ठेयं वाष्पमोक्षणं । वः युष्माभिः । कृतं । श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे बाष्पमोक्षणादतिरिक्तं किमपि न युष्माभिः कर्तुं मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने चतुर्विंशः शक्यमित्याह – कालादिति ॥ कालादुत्तरं कालं विनेत्यर्थः । किंचित्कर्म उपासितुं कर्तुं । न शक्यं देवाज्ञामुल्लङ्घय स्वातन्त्र्येण किंचिदपि कर्मकर्तुं न अथ राम: सर्वसान्त्वनपूर्वकं वालिन: संस्कारं कारयति पञ्चविंशे—सुग्रीवमित्यादि ॥ साङ्गदमिति शक्यमित्यर्थः ॥ ३ ॥ तदेतदुपपादयति–नियतिरि- सुग्रीवविशेषणं । समानशोक : ताराङ्गदादिभिस्तुल्य- ति | नियम्यतेनेनेति नियतिः ईश्वरः । लोकेविषये शोकः ॥ १ ॥ शोकपरितापेन शोककृतपरितापेन । कारणं सर्वलोककर्तेत्यर्थ: । क्रियत इति कर्म कार्य युष्मदीयेनेतिशेषः । मृतो वाली श्रेयसा नयुज्यते । तस्य साधनं सहकारीत्यर्थः । सर्वभूतानां नियोगेषु अत्रवालिनि विषये । अनन्तरं मरणानन्तरं । यत् प्रेरणेषु । नियतिः कारणं । सर्वप्रवर्तकोपीश्वर इत्यर्थः । श्रेयस्करं कार्य और्ध्वदैहिकरूपं । तत्समाधातुं कर्तुं । " तेन विना तृणाग्रमपि न चलति " इति न्यायात् । अर्हथ ॥ २ ॥ लोकवृत्तं लोकाचारसिद्धं । अतएव ईश्वरपरतन्त्रतया लोकः कर्म करोति न तु स्वात- रामानु० कालात् विहितात्कालात् । उत्तरं उत्तरस्मिन्काले । “ कालाध्वनोरत्यन्त संयोगे" इतिद्वितीया ॥ स० यद्वा बाष्पमो- क्षणं बाष्पाणांपतनंयथानभवेत्तथाकरणं भवदभिलषितकरणेनकृतं । मयेतिशेषः । यद्वा उक्षणंसेचनं तदभावोमोक्षणं । बाष्पैर्मोक्षणं मयावःकृतं । करणनिश्चयात्तथाव्यपदेशः । कालातूउत्तरं उत्तमं । किश्चित्कर्म उपसिनशक्यं । कर्मउपासितुमित्यत्र "वाक्येतुसा- विवक्षामपेक्षते " इत्युक्तेस्संध्यभावः । कर्मशक्यमुपासितुमितिपाठे नकाचिदनुपपत्तिः ॥ ति० लोकवृत्तं लोकाचारोप्यनुष्ठेयएव | तच्चबाष्पमोक्षणरूपंकृतं युष्माभिरितिशेषः । यद्वा कृतंपर्याप्तं | बाष्पमोक्षणमितिद्वितीय तृतीयार्थे । यतः कालात् तत्तत्कर्मणिविहि- तात्कालात् । उत्तरंपरं तस्मिन्नतिक्रान्तेइतियावत् । किञ्चिदपि 'विहितं कर्म | उपासितुं कर्तुं । अशक्यं । कालस्योपादेयकार- णत्वात् । अकालेकृतस्याकृतप्रायत्वादितिभावः ॥ ३ ॥ ति० कालस्य मुख्यत्वं दर्शयति – नियतिरिति । नियम्यतेऽनयेतिनियतिः कालः । कालकृताव्यवस्था निमेषादिपरार्धान्ता | कालस्त्वीश्वर एव । लोके लोकसृष्ट्यादिव्यवहारे । कर्मणो लौकिकालौकिक कर्मप्रवृत्ते. दिनादिरूपेणकारणंकालएव । सर्वभूतानां नियोगाधिकृतप्राणिमात्रस्य । नियोगेषु ज्योतिष्टोमादिषु । नियतिः वसन्तादिःकारणं [ पा० ] १ ङ च ज ञ सुरूपचेष्टा २ ङ. झ. किंचित्परंकर्मउपासितुं.