1 सर्गः २४ ].. श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । त्वमात्तबाणासनबाणपाणिर्महाबलः संहननोपपन्नः || मनुष्यदेहाभ्युदयं विहाय दिव्येन देहाभ्युदयेन युक्तः ॥ ३२ ॥ येनैकबाणेन हतः प्रियो मे तेनैव मां त्वं जहि सायकेन ॥ हता गमिष्यामि समीपमस्य न मामृते राम रमेत वाली ॥ ३३ ॥ स्वर्गेपि पद्मामलपत्रनेत्रः समेत्य संप्रेक्ष्य च मामपश्यन् || न ह्येष उच्चावचताम्रचूडा विचित्रवेषाप्सरसोभजिष्यत् ॥ ३४ ॥ स्वर्गेऽपि शोकं च विवर्णतां च मया विना प्राप्स्यति वीर वाली ॥ रम्ये नगेन्द्रस्य तटावकाशे विदेहकन्यारहितो यथा त्वम् ॥ ३५ ॥ त्वं वेत्थ यावद्वनिताविहीनः प्राप्नोति दुःखं पुरुषः कुमारः || तवं प्रजानञ्जहि मां न वाली दुःख ममादर्शनजं भजेत ॥ ३६ ॥ यच्चापि मन्येत भवान्महात्मा स्त्रीघातदोषो न भवेत्तु मह्यम् ॥ आत्मेयमस्येति च मां जहि त्वं न स्त्रीवधः स्यान्मनुजेन्द्र पुत्र || शास्त्र प्रयोगाद्विविधाच्च वेदादात्मा ह्यनन्यः पुरुषस्य दाराः ॥ ३७ ॥ तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वां" इति | हाभ्युदयं मानुषशरीरपरिग्रहं । विहाय | दिव्येन श्रुतेः । “ नमोनमो वाङ्मनसातिभूमये नमोनमो देहाभ्युदयेन देहसौभाग्येन युक्तः ॥ ३२ ॥ एवं वाङ्मनसैकभूमये " इत्युक्तेश्च । एवमनाश्रितानां रामस्य दिव्यतेजोविशेषदर्शनेन विस्मिता क्षणविस्मृ- दुरासदो दुष्प्रापः । चकारादाश्रितानां सुलभः । तशोका तद्वैभववर्णयित्वा स्वप्रकृत्यनुसारेण प्रलपति जितेन्द्रियः चकारादाश्रितविषये चपलः । उत्तमधा- |- येनेत्यादिना ॥ ३३ ॥ पद्मामलपत्रनेत्रो वाली र्मिक: चकाराहूरीकृताधर्म: | अक्षय्यकीर्तिः तद्नु - स्वर्गेपि अप्सरोभिः समेत्य ताः संप्रेक्ष्य च मामप- रूपकृत्यश्चशब्दार्थः। विचक्षणः चकारादाश्रितविषय- श्यन् उच्चावचताम्रचूडा: विविधताम्रकुसुमैः कृतशे- त्यागाशक्तञ्च । " मित्रभावेन संप्राप्तं न त्यजेयं " खरा: विचित्रवेषाप्सरसः । नाभजिष्यत् न भजि- इत्यशक्तिर्द्युच्यते । अत्रत्यचकार: देहलीदीपन्यायेनो- ष्यति । ऌडर्थे ऌङ् ॥ ३४ ॥ नगेन्द्रस्य ऋश्यमूकस्य भयत्रान्वेति । तेन दयादिकं समुच्चीयते ॥ ३१ ॥ ॥ ३५ ॥ कुमार: युवा । तत् वनिताविरहदुःखं । त्वमिति अनेनाप्राकृतविग्रहत्वमुच्यते । संहननेन प्रजानन् त्वं मां जहि । वाली ममादर्शनजं दुःखं समीचीनावयवसंस्थानेन उपपन्न : युक्तः । मनुष्यदे- नभजेत ॥ ३६ ॥ यच्चापीत्यादिसार्धश्लोकः ॥ मह्यं तदाऽस्यतदपेक्षयाऽधिकक्षमास्तीति किमुवक्तव्यमिति कैमुल्यंसूचितंभवति ॥ ३१ ॥ तनि० महाबलत्वेहेतुमाह - संहननोपपन्न इति । महावीर्यत्वनिमित्तान्तस्साराभिव्यञ्जकशरीरसंस्थान विशेषइत्यर्थः । अयंचप्राकृतशरीरेषुन संभवतीत्याह- मनुष्येति । महाराजलक्षणशौर्यादिगुणाभिव्यञ्ज कमनुष्यशरीरसंस्थान विशेषेष्वपिनै तादृश इतियोतयितुमभ्युदयपदप्रयोगः । दिव्येन 'त्रिपादस्या- मृतंदिवि ' इत्यादिप्रमाण सिद्धाप्राकृत लोकस्थित दिव्यमङ्गल विग्रहसं निवेशेनेत्यर्थः ॥ स० आत्तबाणासनश्चासौबाणपाणिश्चेतिचा आ.. त्तौबाणासनबाणौयाभ्यांतादृशौपाणीयस्येतिवा | संहननोपपन्नः सिंहस्कन्धः मम प्रियोवालीहतस्सन् | मनुष्यदेहाभ्युदयं मनुष्यस दृशमपिराज्यसौभाग्यं विहायदिव्येनविभवेनदेहाभ्युदयेन सौभाग्येनयुक्तः । अथवा दिविभवंदिव्यं देवजातंतस्येनःस्वामीइन्द्रः तस्यदेहाख्याभ्युदयेनयुक्तोभूत् । तेनैवबाणेनमांजहि संहर | इहि गच्छ । मांहत्वागच्छेतिलौकिकवाग्रीतिरियं । जहि इहीतिच्छे- दः ॥ ३२ ॥ ति० कुमारः सुन्दरः पुरुषः । यद्वा दुःखहेतुमाह- कुमारइति । कुत्सितोमारोयस्य मारकत्वेनमदनस्यप्रसिद्धेः । अथवाकुत्सितोमारोमरणंयस्य | मरणादपिदुःखजनकत्वादेवमुक्तिः | भावेघञ् ॥ शि० कुमारः नियंकुमारत्वे नप्रतीयमानस्त्वं वेत्थ ॥ ३६ ॥ ति० महात्मेत्यनेन ताटकावधादिकृतवतःस्त्रीवधो किंचित्करइत्यपिसूचितं ॥ ३७ ॥ [ पा० ] १ क. -ट, येनैवबाणेन. २ ङ – ट. तेनैवबाणेन हिमांजहीहि. ३ च. –ट. मांविनावीररमेत. ४ क. संप्रेक्ष्यतु. ५ ङ. —ट. तावद्वनिता• ६ ङ. - ञ, स्त्रीघातदोषस्तुभवेन्नमयं. ७ छ. सूनो ८ ङ.ट, वेदादनन्यरूपाः पुरुषस्य
पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१०३
दिखावट