पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्ग: २४ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । उत्थापयामासुरदीनसत्त्वां मन्त्रिप्रधानाः कैपिवीरपत्नीम् ॥ २६ ॥ सा विस्फुरन्ती परिरभ्यमाणा भर्तुः सकाशादपनीयमाना ॥ ददर्श रामं शरचापपाणिं स्वतेजसा सूर्यमिव ज्वलन्तम् ॥ २७ ॥ सुसंवृतं पार्थिवलक्षणैश्च तं चारुनेत्रं मृगशावनेत्रा || अदृष्टपूर्व पुरुषप्रधानमयं स काकुत्स्थ इति प्रजज्ञे ॥ २८ ॥ तस्येन्द्रकल्पस्य दुरासदस्य महानुभावस्य समीपमार्या ॥ आर्ताऽतितूर्ण व्यसनाभिपन्ना जगाम तारा परिविह्वलन्ती ॥ २९ ॥ सौ तं समासाद्य विशुद्धसत्वा शोकेन संभ्रान्तशरीरभावा ॥ मनस्विनी वाक्यमुवाच तारा रामं रणोत्कर्षणलब्धलक्षम् ॥ ३० ॥ त्वमप्रमेयश्च दुरासदश्च जितेन्द्रियश्चोत्तमधार्मिकश्च ॥ अक्षय्यकीर्तिश्च विचक्षणश्च क्षितिक्षमावान्क्षतजोपमाः ॥ ३१ ॥ 2 पयामासुरित्याह – तामिति ॥ २६-२७ ॥ पार्थिव- | उत्कर्षणेन उत्कर्षेण लब्धं लक्षं शरव्यं यस्य तथा । लक्षणैः राजलक्षणैः । सुसंवृतं । अन्यूनतया युक्तमि- एकेनशरेण स्वभर्तृहन्तारमित्यर्थः । तं रामं । शोकेन त्यर्थः । चारुनेत्रं पुण्डरीकाक्षं । मृगशाबनेत्रा “विद्वा- संभ्रान्तः अयथाभूतः शरीरभावः शरीरकृतभावः नेव विजानाति विद्वज्जनपरिश्रमं " इति न्यायेन स्वयं यस्याः सा कुपितेत्यर्थः । मनस्विनी मत्प्रियहन्तारं चारुनेत्रतया तत्रैव प्रथमं दृष्टिं न्यधादिति भावः । यावच्छक्ति परुषाणि वदेयमिति कृताध्यवसाया । अदृष्टपूर्व इतः पूर्वं कुत्राप्यदृष्टचरं । योगं विना समासाद्य विशुद्धसत्त्वा रामसंनिधिमाहात्म्येन अदृष्टमित्यर्थः । पुरुषप्रधानं पुरुषोत्तमं । अयं स निवृत्तकालुष्यतया समुन्मिषितशुद्धसत्त्वा । तारा इति विजज्ञे । यः पूर्वं भर्तारं हतवान् सोयमिति वाक्यमुवाच । परुषभाषणोद्युक्तयैव वाचा अस्तौषी- ज्ञातवती । यद्वा यः पूर्वमङ्गदाच्छ्रुतः । यद्वा यः दित्यर्थः ॥ ३० ॥ एवं पुरुषोत्तमत्वपुण्डरीकाक्षत्वादि- पूर्व पुण्डरीकाक्षत्वादि विशिष्टतया महाजनेभ्यः नरनुसंहितं परत्वं ताराऽनुसंधत्ते – त्वमप्रमेयश्चेति । श्रुतः स एवायमित्यर्थः । अतएव वक्ष्यति – त्वमप्र- त्वं वक्ष्यमाणकल्याणगुणानुगुणधर्मिवैलक्षण्ययुक्तः । मेयश्चेति ॥ २८ ॥ तस्येति व्यसननिवर्तनक्षमागुणा अप्रमेय: “वेदाहमि”त्युपक्रम्य “महान्तं क इत्था वेदे” उच्यन्ते । परिविह्वलन्ती मूर्छन्तीत्यर्थः ॥ २९ ॥ रणे | ति वेदैरप्यपरिच्छेद्यः । अप्रमेयः “सो अङ्ग वेद् यदि स० परिरभ्यमाणा इतरस्त्रीभिः ॥ २७ ॥ शि० किंच नदृष्टः पौर्वकालिकदर्शनकर्मीभूतभिन्नः सचासौपूर्वःसर्वेषामादिः ॥ २८ ॥ ति० परिविह्वलन्ती कष्टेनस्खलनपूर्वगच्छन्ती ॥ शि० इन्द्रकल्पस्य इन्द्रादिनिर्माणसमर्थस्य ॥ २९ ॥ तनि० विशुद्धसला तत्सं- निधिमाहात्म्येनसमुन्मिषितसत्वा । परुषभाषणोद्युक्तापि सत्वनिष्पन्न परमज्ञानतया निवृत्तकोपकलुषासान्त्वमुक्तवती ॥ ती० रणो- त्कर्षणलब्धलक्ष्यं रणेउत्कर्षणमुत्कर्षः येषांतेतथोक्तास्तैः । प्रथमगणनायांवीराप्रणीरितिलक्ष्यत्वेनलब्ध मित्यर्थः ॥ शिo संभ्रान्तः विस्मृतःशरीरभावःराजस्त्रीत्वादिर्ययासा | रणेषु युद्धेषु । उत्कर्षणेन सर्वाधिकोत्कर्षेणलब्धंलक्ष्यवेध्यंयेन सर्वतोधिकवेध्यवेधकइ- त्यर्थः ॥ स० संभ्रान्तशरीरभावा अपगतशरीराभिमाना || शि० विशुद्धसत्वं प्राकृतविलक्षणसत्वविशिष्टं ॥ ३० ॥ तनि० त्वमप्रमेयः रावणदुन्दुभिनिग्रहीतारंवालिनंहत्वा अकिंचित्कुर्वन्निवस्थितस्त्वं वालिभयप्राप्तगिरिवरस्यसुग्रीवस्या पिजयंदत्तवान् । शापायोद्यतांमांस्तोतुंघटयिता | त्वमप्रमेयः । त्वत्स्वरूपमस्मत्स्वरूपंच विचार्य स्तोतुमुयुक्ताऽहंत्वमप्रमेयः वेदैरप्यपरिच्छेद्योसि । अ- तोऽहंकथंस्तोतुंशक्नोमि । त्वमप्रमेयः पुरतोविद्यमानोप्य परिच्छेद्यश्चक्षुषामनसाऽप्रमेयः । 'नचक्षुषागृह्यतेमनसातुविशुद्धेन ' इति - श्रुतेः । त्वमप्रमेयः धनुष्पाणिसुलभस्त्वंशङ्खचक्रगदादिधरोनारायणोसि । त्वमप्रमेयः परत्वमपरिच्छेद्य मितिस्थितं । सौलभ्यंचापरि- च्छेद्यंजातं | त्वमप्रमेयः एकाकीसन्नपिपरिकरपरीतइवाप्रवृष्योसि । त्वमप्रमेयः तापसइवस्थितोपिविराधादिदुष्टनिग्रहंकृत्वाशिष्या- परिपालितवान् ॥ स० क्षितेः क्षमाक्षितिक्षमा । सा दातृतासंबन्धेनास्यास्तीतिक्षितिक्षमावान् । अनेनभूम्याअपिक्षमादानंयदा [ पा० ] १ क. घ. च. - ञ. कपिराजपत्नीं. २ च. - ञ. समीपात्. ३ क, ग. सातंसुनेत्रं. ४ ङ. ~~ट. व्यसनंप्रपन्ना. ५ ङ. — ट. तंसा. ६ क. ग. - ट . विशुद्धसत्वं. ७ ग. छ.ट. लक्ष्यं. ८ छ. झ. ट. धर्मकच. ९ ङ. -ट. अक्षीणकीर्तिच. वा. रा. १३२