पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्ग: ३० ] श्रीमद्गोविन्दराजी यव्याख्यासमलंकृतम् । [ ममेष्टं पावकं दीप्तं हविषा पूज्य देववत् || ब्रह्मवर्पसहस्राणि रामं संपूज्य मोक्ष्यसे | तदैव हि भवेत्सुअस्तव पापस्य संक्षय: ] ॥ ४३ ॥ रूपयौवनसंपन्ना यस्मात्वमनवस्थिता ॥ तस्माद्रूपवती लोके न त्वमेका भविष्यति ॥ ४४ ॥ रूपं च ते प्रजाः सर्वा गमिष्यन्ति न संशयः ॥ यत्तदेकं समाश्रित्य विभ्रमोऽयमुपस्थितः ॥ ४५ ॥ तदाप्रभृति भूयिष्ठं प्रजा रूपसमन्विताः ॥ सा तं प्रसादयामास महर्षि गौतमं तदा ॥ ४६ ॥ अज्ञानाद्धर्षिता नाथ त्वद्रूपेण दिवौकसा || न कामकाराद्विप्र प्रसादं कर्तुमर्हसि ॥ ४७ ॥ अहल्यया त्वेवमुक्तः प्रत्युवाच स गौतमः ॥ उत्पत्स्यति महातेजा इक्ष्वाकूणां महारथः ॥ ४८ ॥ रामो नाम श्रुतो लोके वनं चाप्युपयास्यति ॥ ब्राह्मणार्थे महावाहुर्विष्णुर्मानुपविग्रहः ॥ ४९ ॥ तं द्रक्ष्यसि यदा भद्रे ततः पूता भविष्यसि || स हि पावयितुं शक्तस्त्वया यहुष्कृतं कृतम् ||५०|| तस्यातिथ्यं च कृत्वा वै मत्समीपं गमिष्यसि ॥ वत्स् त्वं मया सार्धं तदा हि वरवर्णिनि ॥५१॥ एवमुक्त्वा स विप्रर्षिराजगाम स्वमाश्रमम् || ततश्चचार सुमहत्मा पत्नी ब्रह्मवादिनः ॥ ५२ ॥ शापोत्सर्गाद्धि तस्येदं मुनेः सर्वमुपस्थितम् || तत्स्मर त्वं महाबाहो दुष्कृतं यत्त्वया कृतम् || तेन त्वं ग्रहणं शत्रोर्यातो नान्येन वासव || ५३ ॥ शीघ्रं वै यज्ञ यज्ञं त्वं वैष्णवं सुसमाहितः || पावितस्तेन यज्ञेन यास्यसे त्रिदिवं ततः ॥ ५४ ॥ पुत्रश्च तव देवेन्द्र न विनष्टो महारणे || नीतः सन्निहितश्चैव आर्यकेण महोदधौ |॥ ५५ ॥ एतच्छ्रुत्वा महेन्द्रस्तु यज्ञमिष्ट्वा च वैष्णवम् || पुनस्त्रिदिवमाक्रामदन्वशासच्च देवराट् ॥ ५६ ॥ एतदिन्द्रजितो नाम बलं यत्कीर्तितं मया ॥ निर्जितस्तेन देवेन्द्र : प्राणिनोऽन्ये तु किं पुनः ॥५७॥ आश्चर्यमिति रामश्च लक्ष्मणश्चाब्रवीत्तदा || अगस्त्यवचनं श्रुत्वा वानरा राक्षसास्तदा ॥ ५८ ॥ ९५ हे सुरेन्द्र य एवं जारः स्यात्सोपि ध्रुवो मा भविष्य | विभ्रमः काममोहः ।। ४५–५२ ।। नान्येनेति । नतु तीत्यर्थः ॥ ४१-४३ ॥ रूपेति ॥ ममाश्रमसमीपतो हेत्वन्तरेणेत्यर्थः ॥५३ – ५४ ।। आर्यकेण मातामहेन । यस्मात्त्वमनवस्थिता तस्मादेवैतत्पर्यन्तं त्वमेकैव रूप - नीत: महोदधौ सन्निहितः सम्यङ् निहितः निक्षिप्तः वतीति यत् स्थितं तन्न भविष्यति ॥ ४४ ॥ तद्रूपं ॥ ५५-५७ ॥ रामः अगस्त्यवचः श्रुत्वा आश्चर्य- प्रसिद्धं तव सौन्दर्य सर्वाः प्रजाः स्त्रियः गमिष्यन्तीति । मित्यब्रवीत् | तथा लक्ष्मणः तथा वानरराक्षसाश्चाब्रु- ति० किंतुतावकंसुन्दरंरूपसर्वाः प्रजा: गमिष्यन्ति । स० त्वमेकारूपवतीनभविष्यसि | वह्वयोरूपवत्योभवन्तिभामिन्यइतिभावः ॥ एकं लोकविलक्षणंरूपंसमाश्रित्य विभ्रमः परसंगप्रापकोमोहः उपस्थितः ' विभ्रमः कामविकारः । उपस्थितः प्रवृत्तः । इन्द्रस्ये- तिशेषः ' इतिनागोजिभट्टः | पत्नीशापप्रसक्तिसमयोऽयमितिपरंपरोपयोगो न साक्षादितिकिञ्चिदस्वारस्यंतत्रबोध्यम् ॥४५॥ स० त्वद्रूपेण ' मुनिवेषंसमा स्थायेतिप्रागुदीरणात् । नकामकारात् तद्रमणेच्छायाः । यद्यपिदेवराजकुतूहलात् 'प्रहृष्टेनान्तरात्मना ' इतिवचनान्मनसानुमेनेका मिनी महेन्द्र संग मितिज्ञायते । तथापिबहिस्तथाऽप्रदर्शनान्नकामकारादित्युक्तिरिति वा कदापिप्रमदानभ- वेत्येतादृशशापोपयोगिकामकाराभावान्नकामकारादित्युक्तिरिति वेतिज्ञेयोऽविरोधः ॥ ननु 'अहल्याजारत्वाद्यपिदोषकृतोपितेनब- हुतरोलोपआसीदित्युत्कर्षमेववक्ति 'बहुनरकफलोह्यसौतस्यनलोमचक्षीयते' इतिश्रुत्यन्तराचे' तिगीताभाष्योक्तेः कथं विधिनेन्द्र- स्यपदभ्रंशइवारिकर परिग्रहादिगौतमशाप निमित्तइति कथित मितिचेन्न 1 पारत्रिकानन्दहासादिर्यथा सोदरदारपरिग्रहेसुप्री- वादेः तथा नास्तिभाव्यानन्दहासादिरितिबहुनर कफलोह्यसावितिवदतोभाष्यकृतोऽनुमत ऐहिकोऽनर्थ इत्यविरोध इतिकात्रकथन्ता ॥ ४७ ॥ ति० ब्राह्मणार्थे विश्वामित्रार्थे ॥ ४९ ॥ शि० विनष्टोमृतोनभविष्यतीतिशेषः ॥ ५५ ॥ ति० यज्ञमिति । देवानां नयज्ञेष्वधिकार इतिजैमिन्युक्तंतु प्रमादादिति निरूपितंप्राकू ॥ ५६ ॥ [ पा० ] १ इदमर्धत्रयं ख. ग. पाठयोदृश्यते २ ग. च. ज. यत्तदेवं.