पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ तासां नास्ति विशेषो हि दर्शने लक्षणेऽपि वा ॥ ततोऽहमेकाग्रमनास्ताः प्रजाः पर्यचिन्तयम् ||२६|| सोहं तासां विशेषार्थं स्त्रियमेकां विनिर्ममे || यद्यत्प्रजानां प्रत्यङ्गं विशिष्टं तत्तदुद्धृतम् ॥ २७ ॥ ततो मया रूपगुणैरहल्या स्त्री विनिर्मिता || हलं नामेह वैरूप्यं हल्यं तत्प्रभवं भवेत् ॥ २८ ॥ यसान्न विद्यते हल्यं तेनाहल्येति विश्रुता || अहल्येति मया शुक्र तस्या नाम प्रवर्तितम् ॥ २९ ॥ निर्मितायां च देवेन्द्र तस्यां नार्या सुरर्षभ || भविष्यतीति कस्यैषा मम चिन्ता ततोऽभवत् ॥ ३०॥ त्वं तु शऋ तदा नारीं जानीषे मनसा प्रभो ॥ स्थानाधिकतया पत्नी ममैषेति पुरन्दर |॥ ३१ ॥ सा मया न्यासभूता तु गौतमस्य महात्मनः ॥ न्यस्ता बहूनि वर्षाणि तेन निर्यातिता च ह ||३२|| ततस्तस्य परिज्ञाय मया स्थैर्य महामुनेः || ज्ञात्वा तपसि सिद्धिं च पत्यर्थं स्पर्शिता तदा ॥ ३३ ॥ स तया सह धर्मात्मा रमते स महामुनिः || आसन्निराशा देवास्तु गौतमे दत्तया तया ॥ ३४ ॥ संक्रुद्धस्त्वं हि धर्मात्मन्गत्वा तस्याश्रमं मुनेः ॥ दृष्टवांश्च तदा तां स्त्रीं दीप्तामग्निशिखामिच ॥ ३५ ॥ सा त्वया धर्षिता शक्र कामार्तेन समन्युना || दृष्टस्त्वं च तदा तेन ह्याश्रमे परमर्षिणा ॥ ३६॥ ततः क्रुद्धेन तेनासि शप्तः परमतेजसा || गतोसि येन देवेन्द्र दशाभागविपर्ययम् || ३७ ॥ यस्मान्मे धर्षिता पत्नी त्वया वासव निर्भयम् || तस्माच्वं समरे राजञ्छत्रुहस्तं गमिष्यसि ॥ ३८ ॥ अयं तु भावो दुर्बुद्धे यस्त्वयेह प्रवर्तितः ॥ मानुषेष्वपि लोकेषु भविष्यति न संशयः ॥ ३९ ॥ तत्रार्थं तस्य यः कर्ता त्वय्यर्धे निपतिष्यति ॥ न च ते स्थावरं स्थानं भविष्यति न संशयः ॥४०॥ यश्च यश्च सुरेन्द्रः स्याद्भुवः स न भविष्यति ॥ एवं शापो मया मुक्त इत्यसौ त्वां तदाऽब्रवीत् ॥ ४ १ || तां तु मार्यौ स निर्भर्त्स्य सोबवीत्महातपाः || दुर्विनीते विनिध्वंस ममा श्रमसमीपतः ॥ ४२ ॥ कृतमित्यत्राह - अमरेन्द्रेत्यादि । एकवर्णाः समाभाषा: | पतित्वेन हेतुनेत्यर्थः । ममैषा पत्नीति मनसा जानीषे । एकरूपकान्तिस्वराः | एकरूपा: समानवयोवस्थ - अस्मदनुमतिं विना तां प्रार्थितवानसीत्यर्थः ॥ ३१ ॥ कालाः || २५ || दर्शने सौन्दर्ये लक्षणे नयनाद्यवय- निर्यातिता पुनः प्रत्यर्पिता ॥ ३२ ॥ स्थैर्य जितेन्द्रियत्वं वसौष्ठवे च तासां विशेषो नासीत् । ततोह मिति । एका तपसि तपोविषये | स्पर्शिता दत्ता || ३३-३६॥ प्रमनाः सावधानः सन्ताः प्रजा उद्दिश्य पर्यचिन्तयं | | दशाभागविपर्ययं दशाभागोऽवस्था विशेषः तस्य विप तासां विशेषकरणप्रकारमचिन्तयं वा ॥२६॥ तासां वि- र्ययं सहजसात्त्विकावस्थाविपर्ययमित्यर्थः ॥ ३७--- शेषार्थ किंचित्किचिदङ्गवैकल्यप्रयुक्तपरस्परवैलक्षण्य - ३८ ॥ अयं भावः मानुषेष्वपि शास्त्राधिकारिष्वपि सिद्ध्यर्थमेकां स्त्रियं विनिर्ममे निर्मितवानस्मि । प्रत्यङ्गं भविष्यति । राज्ञस्तव दोषादिति भावः ॥ ३९ ॥ तत्र अङ्गमङ्गं यद्यद्विशिष्टं सारभूतं सौन्दर्य तत्तदुद्भुतं ||२७|| जारभावे यो धर्मः समुत्थास्यति तस्य यः कर्ता तत्र रूपगुणैः-प्रत्यङ्गमुद्धृतैः सौन्दर्यगुणैः । अहल्या नामा- पुरुषे तस्याधर्मस्या निपतिष्यति त्वय्यर्धे निपतिष्य- ङ्गना काचिद्विनिर्मिता ॥ २८-२९ ॥ भविष्यतीति तीत्यर्थः । “राजा राष्ट्रकृतं पापं " इति न्यायात् । कस्यैषापत्नी भविष्यतीति चिन्ताऽभवत् । तत्तुल्यवरा- स्थावरं स्थिरं । स्थानं पदं ॥ ४० ॥ न केवलं तवैवा- भावादिति भावः ॥३०॥ स्थानाधिकतया त्रैलोक्याधि | स्थिरत्वं अपितु अन्यस्यापि जारस्येत्याह-यश्चेति ॥ ति० तत्प्रभवं वैरूप्यप्रभवं | हल्यं निन्यं ॥२८॥ स० अस्मान्विहा येयं वनितामुनये दत्तेति मन्युसहितेन । समन्युनापि शतवारविर- चितयज्ञेनापि । घर्षिता । अनेनसत्कर्मकरणमपीश्वरकरुणांविनानकुशलोपलंभक मितिसूचितंभवति ॥ ३६ || ति० दशाभागः अवस्थाभेदः ऐश्वर्यरूपः तस्य विपर्ययं वन्धनरूपांविपरीतावस्थां ॥ ३७॥ स० अयंभावः जारभावः । मानुषेनु त्वत्स्वामि केषु भविष्यति । राजदोषात् ॥ ३९ ॥ ति० विनिध्वंस ध्वस्तसौरूप्याभव ॥ स० विनिध्वंस चेतनत्वादिभ्योध्वस्ताभव ॥ ४२ ॥ [ पा० ] १ क - छ. झ. ज. प्रकीर्तितं. २ च. झ. ल. ट. निर्भयात्......