पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

2 सर्गः २९ ] श्रीमद्गोविन्दराजयव्याख्यासमलंकतम् । दन्तैर्भुजाभ्यां पद्भ्यां च शक्तितोमरसायकैः ॥ येन केनैव संरब्धस्ताडयामास वै सुरान् ॥ ३५ ततो रुद्रैर्महाघोरै : संगम्याथ निशाचरः ॥ प्रयुद्धस्तैश्च संग्रामे क्षतः शनैर्निरन्तरम् ॥ ३६ ॥ बभौ शस्त्राचिततनुः कुम्भकर्णः क्षत्रसृक् || विद्युत्स्तनितनिर्घोषो धारावानिव तोयदः ॥ ३७ ॥ ततस्तद्राक्षसं सैन्यं प्रयुद्धं समरुद्गणैः ॥ रणे विद्रावितं सर्वे नानाप्रहरणैः शितैः ॥ ३८ ॥ केचिद्विनिहताः कृत्ताश्चेष्टन्ति स्म महीतले ॥ वाहनेष्ववसक्ताच स्थिता एवापरे रणे ॥ ३९ ॥ स्थानागान्खरानुष्ट्रान्पन्नगांस्तुरगात्रणे || शिंशुमारान्वराहांश्च पिशाचवदनांस्तथा ॥ ४० ॥ तान्समालिज्य बाहुभ्यां विष्टब्धाः केचिदुच्छ्रिताः ॥ देवैस्तु शस्त्रसंभिन्ना मम्रिरे च निशाचरा: ४१ चित्रकर्म इवाभाति स तेषां रणसंप्लवः ॥ निहतानां प्रेमत्तानां राक्षसानां महीतले ॥ ४२ ॥ शोणितोद कनिष्पन्द कङ्कगृधसमाकुला || प्रवृत्ता संयुगमुखे शस्त्रग्राहवती नदी ॥ ४३ ॥ एतस्मिन्नन्तरे क्रुद्धो दशग्रीवः प्रतापवान् || निरीक्ष्य तद्वलं कृत्स्नं दैवतैर्विनिपातितम् ।। ४४ ॥ स तं प्रतिविगायाशु प्रवृद्धं सैन्यसागरम् || त्रिदशान्समरे निम्नञ्शक्रमेवाभ्यवर्तत ॥ ४५ ॥ आगाच्छको महच्चापं विस्फार्य सुमहास्वनम् ॥ यस्य विस्फारघोषेण स्वनन्ति स दिशो दश ॥४६॥ तद्विकृष्य महच्चापमिन्द्रो रावणमूर्धनि || निपातयामास शरान्पावकादित्यवर्चसः ॥ ४७ ॥ तथैव च महाबाहुर्दशग्रीवो व्यवस्थितः ॥ शक्रं कार्मुकविभ्रष्टैः शरवर्षैरवाकिरत् ॥ ४८ ॥ प्रयुध्यतोरथ तयोर्चाणवर्षैः समन्ततः ॥ न ज्ञायते तदा किंचित् सर्वे हि तमसा वृतम् ॥ ४९ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अष्टाविंशः सर्गः ॥ २८ ॥ ८९ एकोनत्रिंशः सर्गः ॥ २९ ॥ ससैम्येनेन्द्रेण रावणेसमाक्रान्ते इन्द्रजिताकोपादिन्द्रेणसहयोधनम् ॥ १ ॥ तथा माययेन्द्रस्यबन्धनेन स्वसेनामध्यमा- पणम् ॥ २ ॥ रावणेनेन्द्रजितंप्रति इन्द्रस्यरथारोपणेनलङ्काप्रापणचोदनपूर्वकं पश्चालङ्कांप्रतिगमनम् ॥ ३॥ ततस्तमसि संजातें सर्वे ते देवराक्षसाः ॥ अयुध्यन्त बलोन्मत्ताः सूदयन्तः परस्परम् ॥ १ ॥ ततस्तु देवसैन्येन राक्षसानां बृहद्धलम् || दशांशं स्थापितं युद्धे शेषं नीतं यमक्षयम् ॥ २ ॥ प्रयुद्धः प्रकृष्टयुद्धः ॥ ३६ – ३९ ॥ रथानित्यादिलो- | शेषः ॥ ४९ ॥ इति श्रीगोविन्दराजविरचिते श्रीम कद्वयमेकं वाक्यं ॥ विष्टब्धाः अवलम्ब्य स्थिताः । द्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्या- केचिदुच्छ्रिताश्च केवलं स्थिताश्च ॥ ४०-४१ ॥ ख्याने अष्टाविंशः सर्गः ॥ २८ ॥ चित्रकर्म इवेति वाक्ये सन्धिरनित्यः । रणसंघर्षः रणसंमर्दः । चित्रकर्मेवाश्चर्यकर आभातीत्यर्थः॥४२– ४८ || तमसावृतं उभयशरवर्षसर्वदिक्छादनकृतेनेति | यावदन्त इति । परसैन्यस्यान्तो यावत् तावन्मध्येन ति० अपिचप्रहरणनियमोपिनास्तीत्याह – दन्तैरिति ॥३५॥ ति० समरुद्गणैः देवैरितिशेषः ॥३८॥ ति० अवसक्ताः दृढंग्रहणवन्तः स्थिताः । मरणेपीतिशेषः ॥३९॥ ति० रथादीन्बाहुभ्यांसमालिङ्ग्यविष्टब्धाः | केचिदुत्थिताः मूच्छिताः कालेनगत मूर्च्छाउत्थिताः । मम्रिरे मृताः ॥ ४१ ॥ ति० चित्रकर्मइवेयसन्धिरार्षः । यथासिद्धमायानिर्मितं चित्रकर्म आश्चर्यकरं तथैवतेषांरणसंप्लवः- रणसंमर्दः आभातिस्म ॥ स० सर्वेषां पश्यतांजनानां । निहतानां महीतलेप्रसुप्तानांराक्षसानां । रणसंप्लवः रणेपातः । चित्रकर्मइव शिल्पिकर्मैवाभातिस्म । निश्चेष्टत्वाच्चित्रप्रायतातेषा मितिभावः ॥ ४२ ॥ इत्यष्टाविंशः सर्गः ॥ २८ ॥ ति० देवाश्चराक्षसाश्च देवराक्षसाः ॥ १ ॥ [ पा० ] १ क – घ. सैन्यं त्रिदशैस्स मरुद्गणैः . २ ङ, च, झ. ट. प्रसुप्तानां. ३ ख – घ, च. छ. ज. ट. ततःशको. वा. रा. २५२