पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकि रामायणम् । [ उत्तरकाण्डम् ७ शतघ्नीमुसलप्रासगदाखङ्ग परश्वधान् || महान्ति गिरिशृङ्गाणि पातयामास रावणिः ॥ १४ ॥ ततः प्रव्यथिता लोकाः संजज्ञे च तमो महत् || तस्य रावण पुत्रस्य शत्रुसैन्यानि निघ्नतः ॥ १५ ॥ ततस्तद्दैवतबलं समन्तात्तं शचीसुतम् || बहुप्रकारमस्वस्थमभवच्छरपीडितम् ॥ १६ ॥ नाभ्यजानन्त चान्योन्यं रक्षो वा देवताऽथवा ॥ तत्र तत्र विपर्यस्तं समन्तात्प्रेरिधावति ॥ १७ ॥ देवा देवानिजघ्नुस्ते राक्षसा राक्षसांस्तथा ॥ संमूढास्तमसाच्छन्ना व्यद्रवन्नपरे तदा ॥ १८ ॥ एतस्मिन्नन्तरे वीरः पुलोमा नाम वीर्यवान् || दैत्येन्द्रस्तेन संगृह्य शचीपुत्रोपवाहितः ॥ १९ ॥ संगृह्य तं तु दौहित्रं प्रविष्टः सागरं तदा || आर्यकः स हि तस्यासोमा येन सा शची ॥२०॥ ज्ञात्वा प्रणाशं तु तदा जयन्तस्याथ देवताः ॥ अग्रहृष्टास्ततः सर्वा व्यथिताः संप्रदुद्रुवुः ॥ २१ ॥ रावणिस्त्वथ संक्रुद्धो बलैः परिवृतः स्वकैः ॥ अभ्यधावत देवांस्तान्मुमोच च महास्वनम् ॥ २२ ॥ दृष्ट्वा प्रणाशं पुत्रस्य दैवतेषु च विद्रुतम् || मातलिं चाह देवेशो रथः समुपनीयताम् || २३ ॥ स तु दिव्यो महाभीमः सज्ज एव महारथः ॥ उपस्थितो मातलिना वाह्यमानो महाजवः ॥ २४ ॥ ततो मेघा रथे तस्तिडिद्वन्तो महाबलाः ॥ अग्रतो वायुचपला नेदुः परमनिस्वनाः ॥ २५ ॥ नानावाद्यानि वाद्यन्त गन्धर्वाश्च समाहिताः ॥ ननृतुश्चाप्सरःसङ्घा निर्याते त्रिदशेश्वरे ॥ २६ ॥ रुद्रैर्वसुर्भिरादित्यैः साध्यैश्च समरुद्गणैः ॥ वृतो नानाप्रहरणैर्निर्ययौ त्रिदशाधिपः ॥ २७॥ निर्गच्छतस्तु शक्रस्य परुषं पवनो ववौ || भास्करो निष्प्रभवासीन्महोल्काच प्रपेदिरे ॥ २८ ॥ एतस्मिन्नन्तरे वीरो दशग्रीवः प्रतापवान् || आरुरोह रथं दिव्यं निर्मितं विश्वकर्मणा ॥ २९ ॥ पनगैस्तु महाभोगैर्वेष्टितं रोमहर्षणैः ॥ तेषां निश्वासवातेन प्रदीप्तमिव संयुगे |॥ ३० ॥ दैत्यैर्निशाचरैश्चैव सरथः परिवारितः || समराभिमुखो दैत्यो महेन्द्रं सोभ्यवर्तत ॥ ३१ ॥ पुत्रं तं वारयित्वा तु स्वयमेव व्यवस्थितः ॥ सोपि युद्धाद्विनिष्क्रम्य रावणिः समुपाविशत् ॥ ३२ ॥ ततो युद्धं प्रवृत्तं तु सुराणां राक्षसैः सह ॥ शस्त्राणि वर्षतां घोरं मेघानामिव संयुगे ॥ ३३ ॥ कुम्भकर्णस्तु दुष्टात्मा नानाप्रहरणोद्यतः || नाज्ञायत तँदा युद्धे सह केनाप्ययुध्यत ॥ ३४ ॥ ८८ ॥ १०–१४ ॥ तमः संजज्ञे रावणपुत्रस्य माययेति | व्यथिताः अतएवाप्रहृष्टाः ॥ २१-२४ ॥ वायुच- शेषः ।। १५-१६ ।। विपर्यस्तं विशीर्ण ॥ १७-१८॥ पला: वायुचलिताः ॥ २५ -३३ || नानाप्रहरणो- पुलोमा नामास्तीति शेषः । तेन पुलोम्ना ॥ १९ ॥ द्यतः उद्यतनानाप्रहरणः । नाज्ञायत अयं मया योद्धव्य येन सा शचीउत्पादितेति शेषः । तस्मात् शची पौलो- इत्येको लक्ष्यत्वेन न ज्ञायते । अपि तु केनापि अयु मीति नामवती जातेत्यर्थः| २० || प्रणाशं अदर्शनं | ध्यत । येन केनापि प्राप्तेन सर्वेणाप्ययुभ्यतेत्यर्थः ॥३४॥ ति० प्रव्यथितालोकाः भूरादयस्तत्प्रजाश्च ॥१५॥ ति० तंशचीसुतं | हिलेतिशेषः || शि० शचीसुतंसमन्तात् शचीसुतस्यचतु- र्दिक्षु ॥ १६ ॥ शि० परिधावत पर्यधावत् ॥ १७ ॥ ति० विद्रुतं पलायनं ॥ २३ ॥ शि० अग्रतः अग्रभागे । स्थिताइतिशेषः ॥ २५ ॥ ति० वाद्यन्त अवाद्यन्त ॥ २६ ॥ ति० युद्धात् युद्धस्थानात् । समुपाविशत् तूष्णीमास्त ॥ ३२ ॥ ति० कुंभकर्णस्त्विति । अस्यजागरितस्ययुद्धादिप्रसङ्गेऽनेक दिनमपिजागरणमित्यतोज्ञायते ॥ ३४॥ [ पा० ] १ च. छ. लोकास्तमश्चसमजायत २ ट. परिधावत. ३ क - घ. मातामहार्यकस्तस्य पौलोमी. ४ च. छ. पौलो- मीयेन. ५ क–घ. पुत्रस्यरावणेश्चापिविक्रमं ६ ग. च. छ. वाद्यान्यवाद्यन्त ७ च. छ. गन्धर्वाश्चजगुस्तथा ८ ख. घ-छ. ञ. ट रादित्यैरश्विभ्यां ९ ङ. च. छ. झ ञ ट . दिव्यो. १० ङ. झ ञ ट तदाराजन्युद्धंकेनाभ्यपद्यत. 1