पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः २८] श्रीमद्गोविन्दराजी यव्याख्यासमलंकृतम् । ततस्तस्य महाबाणैर्वसुना सुमाहात्मना || निंहतः पन्नगरथः क्षणेन विनिपातितः ॥ ४७ ॥ हत्वा तु संयुगे तस्य रथं बाणशतैश्चितम् || गदां तस्य वधार्थाय वसुर्जग्राह पाणिना ॥ ४८ ॥ ततः प्रगृह्य दीप्ताग्रां कालदण्डोपमां गदाम् ॥ तां मूर्ध्नि पातयामास सावित्रो वै सुमालिनः ॥४९॥ सा तस्योपरि चोलकामा पतन्तीव बभौ गदा || इन्द्रममुक्ता गर्जन्ती गिराविव महाशनिः ॥५०॥ तस्य नैवास्थि न शिरो न मांसं ददृशे तदा || गदद्या भस्मतां नीतं निहतस्य रणाजिरे ॥ ५१ ॥ तं दृष्ट्वा निहतं सङ्ख्ये राक्षसास्ते समन्ततः ॥ व्यद्रवन्त्सहिताः सर्वे क्रोशमानाः परस्परम् || विद्राव्यमाणा वसुना राक्षसा नावतस्थिरे ॥ ५२ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे सप्तविंशः सर्गः ॥ २७॥ ८७ अष्टाविंशः सर्गः ॥ २८ ॥ इन्द्रजिद्वाणाभिघातनिर्विर्णजयन्ते तन्मातामहेनपुलोना तस्यरणाङ्गणादपवाहनपूर्वकं तेनसहसागरप्रवेशः ॥ १ ॥ पुत्रादर्शनरुष्टेनेन्द्रेण रणायेन्द्रजितंप्रत्यभियाने रावणेनेन्द्रजित्प्रतिनिवर्तनेन स्वयमेवेन्द्र प्रत्यभियानम् ॥ २ ॥ सुमालिनं हतं दृष्ट्वा वसुना भससास्कृतम् || स्वसैन्यं विद्रुतं चापि लक्षयित्वाऽदितं सुरैः ॥ १ ॥ ततः स बलवान्क्रुद्ध रावणस्य सुतस्तदा ॥ निषर्त्य राक्षसान्सर्वान्मेघनादो व्यवस्थितः ॥ २ ॥ सुरथेनाभिवर्णेन कामगेन महारथः ॥ अभिदुद्राव सेनां तां वनान्यग्निरिव ज्वलन् ॥ ३ ॥ ततः प्रविशतस्तस्य विविधायुधधारिणः || विदुद्रुवुर्दिशः सर्वा दर्शनादेव देवताः ॥ ४ ॥ न बभूव तदा कश्चिद्युयुत्सोरस्य संमुखे ॥ सर्वानाविध्य वित्रस्तांस्ततः शक्रोऽब्रवीत्सुरान् ॥ ५ ॥ न मेतव्यं न गन्तव्यं निवर्तध्वं रणे सुराः || एप गच्छति पुत्रो मे युद्धार्थमपराजितः ॥ ६ ॥ ततः शक्रसुतो देवो जयन्त इति विश्रुतः ॥ रथेनाद्भुतकल्पेन संग्रामे सोभ्यवर्तत ॥ ७ ॥ ततस्ते त्रिदशाः सर्वे परिवार्य शचीसुतम् || रावणस्य सुतं युद्धे समासाद्य प्रजभिरे ॥ ८ ॥ तेषां युद्धं समभवत्सदृशं देवरक्षसाम् || महेन्द्रस्य च पुत्रस्य राक्षसेन्द्रसुतस्य च ॥ ९ ॥ ततो मातलिपुत्रे तु गोमुखे राक्षसात्मजः || सारथौ पातयामास शरान्कनकभूषणान् ॥ १० ॥ शचीसुतथापि तथा जयन्तस्तस्य सारथिम् ॥ तं चापि रावणिः क्रुद्धः समन्तात्प्रत्यविध्यत ॥ ११ ॥ स हि क्रोधसमाविष्टो बली विस्फारितेक्षणः ॥ रावणिः शक्रतनयं शरवर्षैरवाकिरत् ॥ १२ ॥ तँतो नानाप्रहरणांछितधारान्त्सहस्रशः || पातयामास संक्रुद्धः सुरसैन्येषु रावणिः ॥ १३ ॥ तस्य सुमालिनः ॥ ४७–५२ ॥ इति श्रीगोविन्द- राजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने सप्तविंशः सर्गः ॥ २७ ।। तां सेनां देवसेनां ॥ ३-४ ॥ आविध्य आवेधं प्राप्य वित्रस्तान् ॥ ५-८ ॥ तेषां सदृशं बलवीर्या- नुरूपमित्यर्थः ॥ ९ ॥ गोमुख इति मातलिसुतनाम शि० निवर्तध्वं अपसरणादितिशेषः ॥ ६ ॥ [ पा० ] १ क. ख. ग. महान्सपन्नगरथः. २ च. छ. सर्वानावेक्ष्य. ३ क. ख. ग. वित्रस्तावाशकोऽभ्यभाषत ४ क. ख. ग. समासाद्यव्यवस्थिताः ५ ङ–ट. ततोमातलिपुत्रस्यगोमुखस्य सरावणिः । सारथेः, ६ क-घ. ततः प्रगृयशस्त्राम्पिसारवन्तिमहान्तिच | सुरसैन्येषुसंक्रुद्धःपातयामासरावणिः 7 1