पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाश्मीकिरामायणम् । [ उत्तरकाण्डम् ७ एतस्मिन्नन्तरे नादः शुश्रुवे रजनीक्षये ॥ तस्य रावण सैन्यस्य प्रयुद्धस्य समन्ततः ॥ २३ ॥ ते प्रयुद्धा महावीर्या ह्यन्योन्यमभिवीक्ष्य वै ॥ संग्राममेवाभिमुखा ह्यभ्यवर्तन्त हृष्टवत् ॥ २४ ॥ ततो दैवतसैन्यानां संक्षोभः समजायत ॥ तदक्षयं महासैन्यं दृष्ट्वा समरमूर्धनि |॥ २५ ॥ ततो युद्धं समभवदेवदानवरक्षसाम् || घोरं तुसुलनिर्हादं नानामहरणोद्यतम् ॥ २६ ॥ एतस्मिन्नन्तरे शूरा राक्षसा घोरदर्शनाः ॥ युद्धार्थ समवर्तन्त सचिवा रावणस्य ते ॥ २७ ॥ मारीचश्च प्रहस्तश्च महापार्श्वमहोदरौ ॥ अकम्पनो निकुम्भव शुकः सारण एव च ॥ २८ ॥ संढादो धूमकेतुश्च महाँदंष्ट्रो घटोदरः || जम्बुमाली महाहादो विरूपाक्षच राक्षसः ॥ २९ ॥ सुप्तन्नो यज्ञकोपश्च दुर्मुखो दूषणः खरः || त्रिशिराः करवीराक्षः सूर्यशत्रुश्च राक्षसः ॥ ३० ॥ महाकायोतिकायश्च देवान्तकनरान्तकौ ॥ एतैः सर्वैः परिवृतो महावीर्यो महाबलः ॥ ३१ ॥ रावणस्यार्यक: सैन्यं सुमाली प्रविवेश ह || सदैवतगणान्त्सर्वान्नानामहरणैः शितैः ॥ व्यध्वंसयत्सुसंक्रुद्धो वायुर्जलचरानिव ॥ ३२ ॥ [ सुमालिभयसंत्रस्ता: सुरास्ते सर्वतो दिशि || प्रदुद्रुवुर्वध्यमानाः सिंहस्ता मृगा इव ॥ ३३ ॥] तदैवतबलं राम हन्यमानं निशाचरैः ॥ प्रणुन्नं सर्वतो दिग्भ्यः सिंहनुन्ना मृगा इव ॥ ३४ ॥ एतस्मिन्नन्तरे शूरो वसूनामष्टमो वसुः ॥ सावित्र इति विख्यातः प्रविवेश रणाजिरम् ॥ ३५ ॥ सैन्यैः परिवृतो हृष्टो नानाप्रहरणोद्यतैः ॥ त्रासयन्शत्रुसैन्यानि सिंह : क्षुद्रमृगानिव ॥ ३६ ॥ तथाऽदित्यौ महावीर्यौ त्वष्टा पूषा च दंशितौ ॥ निर्भयौ सह सैन्येन तदा प्राविशतां रणे ॥३७॥ ततो युद्धं समभवत्सुराणां सह राक्षसैः ॥ ॐद्धानां रक्षसां कीर्ति संमरेष्वनिवर्तिनाम् ॥ ३८ ॥ ततस्ते राक्षसाः सर्वे विबुधान्त्समरे स्थितान् || नानाप्रहरणैर्पोरैर्जघ्नुः शतसहस्रशः ॥ ३९ ॥ देवाश्च राक्षसान्घोरान्महाबलपराक्रमान् || समरे विमलैः शस्त्रैरुप निन्युर्यमक्षयम् ॥ ४० ॥ एतस्मिन्नन्तरे राम सुमाली नाम राक्षसः ॥ नानाप्रहरणैः क्रुद्धस्तत्सैन्यं सोभ्यवर्तत ॥ ४१ ॥ स दैवतबलं सर्वे नानाप्रहरणैः शितैः ॥ व्यध्वंसयत संक्रुद्धो वायुर्जलघरं यथा ॥ ४२ ॥ ते महाबाणवर्षैश्च शूलप्रासैः सुदारुणैः ॥ हन्यमानाः सुराः सर्वे न व्यतिष्ठन्त संहताः ॥ ४३ ॥ ततो विद्राव्यमाणेषु दैवतेषु सुमालिना || वसूनामष्टमः क्रुद्धः सावित्रो वै व्यवस्थितः ॥ ४४ ॥ संवृतः स्खैरथानीकैः ग्रहरन्तं निशाचरम् || विक्रमेण महातेजा वारयामास संयुगे ॥ ४५ ॥ ततस्तयोर्महायुद्धमभवद्रोमहर्षणम् || सुमालिनो वसोश्चैव समरेष्वनिवर्तिनोः ॥ ४६ ॥ मिति शेषः ॥ १७~-२२ ॥ प्रकृष्टं युद्धं यस्य तत्प्र- | ३७|| समरेष्वनिवर्तिनां रक्षसां कीर्ति क्रुद्धानां सुराणां युद्धं ॥ २३ ॥ हृष्टवत् हृष्टाः सन्तः ॥२४-२९॥ करवीरपुष्पवत् अक्षिणी यस्य सः करवीराक्षः ।। ३०- | राक्षसैः सह युद्धमभवदिति योजना ॥ ३८ - ४६ ॥ ति० कीर्तिप्रतिक्रुद्धानांसुराणां राक्षसैः सहयुद्धं समभवदितियोजना ॥ ३८ ॥ इति सप्तविंशः सर्गः ॥ २७ ॥ [ पा० ] १ क—घ. रावणाज्ञया. २ क - घ. महादंष्ट्रोमहामुखः ३ क – घ. सर्वैर्महावीर्यैर्वृतोराक्षसपुङ्गवैः ४ क. ख. ग. विध्वंसयतिसंक्रुद्धःसहितैःक्षणदाचरैः. ५ अयंश्लोकः क. ख. ग. पाठेषुदृश्यते ६ ङ. च. छ. झ. ज. सैन्यानित्रविवेशरणा- जिरं, ७ कध, तथापरौं, ८ ङ च छ. झ. न. पूषाचतौसमं. ९ च छ क्रुद्धानांजयकामानां, १० ख. ज. समरेवदहन्बलात्.