पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकि रामायणम् । [ उत्तरकाण्डम् ७ तस्मिंस्तु तामसे युद्धे सर्वे ते देवराक्षसाः || अन्योन्यं नाभ्यजानन्त युध्यमानाः परस्परम् ॥ ३ ॥ इन्द्रश्च रावणश्चैव रावणिश्च महाबलः || तस्मिंस्तमोजालवृते मोहमीयुर्न ते त्रयः ॥ ४ ॥ स तु दृष्ट्वा बलं सर्व निहतं रावणः क्षणात् || क्रोधमभ्यागमतीव्रं महानादं च मुक्तवान् ॥ ५ ॥ क्रोधात्सृतं च दुर्धर्षः स्यन्दनस्थमुवाच ह || परसैन्यस्य मध्येन यावदन्तो नयस्व माम् ॥ ६ ॥ अद्यैतांस्त्रिदशान्सर्वान्विक्रमैः समरे स्वयम् || नानाशस्त्रैर्महाघोरैर्नयामि यमसादनम् ॥ ७ ॥ अहमिन्द्रं वधिष्यामि धनदं वरुणं यमम् || त्रिदशान्विनिहत्याथ स्वयं स्थास्याम्यथोपरि ॥ विषादो न च कर्तव्यः शीघ्रं वाहय मे रथम् ॥ ८ ॥ 'द्विः खलु त्वां ब्रवीम्यद्य यावदन्तो नयस्व माम् ॥ ९॥ अयं स नन्दनोद्देशो यत्र वर्तामहे वयम् || नय मामद्य तत्र त्वमुदयो यत्र पर्वतः ॥ १० ॥ तस्य तद्वचनं श्रुत्वा तुरङ्गान्त्स मनोजवान् || आदिदेशाथ शत्रूणां मध्येनैव च सारथिः ॥ ११ ॥ तस्य तं निश्रयं ज्ञात्वा शक्रो देवेश्वरस्तदा || रथस्थः समरस्थांस्तान्देवान्वाक्यमथाब्रवीत् ॥ १२ ॥ सुराः शृणुत मद्वाक्यं यत्तावन्मम रोचते || जीवन्नेव दशग्रीवः साधु रक्षो निगृह्यताम् ॥ १३ ॥ एष ह्यतिबलः सैन्थे रथेन पवनौजसा || गमिष्यति प्रवृद्धोर्मि: समुद्र इव पर्वणि ॥ १४ ॥ न ह्येष हन्तुं शक्योऽद्य वरदानात्सुनिर्भयः ॥ तद्ब्रहीष्यामहे रक्षो यत्ता भवत संयुगे ॥ १५ ॥ यथा बलौ निरुद्धे च त्रैलोक्यं भुज्यते मया ॥ एवमेतस्य पापस्य निरोधो मम रोचते ॥ १६ ॥ ततोऽन्यं देशमास्थाय शक्रः संत्यज्य रावणम् || अयुध्यत महाराज राक्षसांस्त्रासयन्त्रणे ॥ १७ ॥ उत्तरेण दशग्रीवः प्रविवेशानिवर्तकः || दक्षिणेन तु पार्श्वन प्रविवेश शतक्रतुः ॥ १८ ॥ ततः स योजनशतं प्रविष्टो राक्षसाधिपः || देवतानां बलं सर्वे शरवर्षैरवाकिरत् ॥ १९ ॥ ततः शक्रो निरीक्ष्याथ प्रनष्टं तु स्वकं बलम् || न्यवर्तयदसंभ्रान्त समावृत्य दशाननम् ॥ २० ॥ मां नयस्व ||६ - ७॥ अथोपरि सर्वेषामुपरिष्टादित्यर्थः | यत्र तत्र मामद्य नय | सोन्तो देवसेनायाः ॥१०- || ८ || देवसेनामध्ये प्रवेशे किं भविष्यतीति विषण्णं १५ ॥ बलौ महाबलौ । निरुद्धे अहत्वैव कृतविरोधे सारथिं पुनश्चाह–द्विः खल्वित्यादि || यावदन्तो नयस्व सति । एवमेतस्य निरोधोपीत्यब्रवीदिति पूर्वेणान्वयः मामिति द्वि: द्विवारं त्वां ब्रवीमि खलु तत्कथं न ॥ १६ ॥ ततोन्यमिति ॥ रावणावस्थितदेशादित्यर्थः ।. नयसीत्यर्थः ॥ ९ ॥ अपरिमितदेवसेनायाः क आदि: रावणं संत्यज्येति । वज्रादिना प्रहर्तुमशक्यत्वात् पुर कोन्त इत्यत्राह - अयमिति ॥ वयं यत्र वर्तामहे स स्थितिर्निष्प्रयोजनेति मत्वेति शेषः ॥ १७ ॥ उत्तरे- नन्दनोद्देशः । एष आदिः । एनमारभ्य उदयपर्वतो | णेति || देवसेनामिति शेषः ॥ १८-१९ ।। न्यवर्त- शि० इन्द्रादीन्वधिष्यामि ब्राह्मण वसिष्ठन्यायेनन पूर्वेण पौनरुक्त्यं । त्रिदशान्विनिहत्य उपरिस्वर्गे स्वयंस्थास्यामि ॥ ८ ॥ द्विर्ब्रवीमि अत्यावश्यकत्वाद्देवहननस्यसारथेः परशरदीर्णत नुकत्वाद्विरुक्तिः ॥९॥ ति० अपरिमित देवसेनाया अन्तस्यदुर्ज्ञेयत्वादाह — अयमिति । नन्दनमारभ्योदयपर्वतान्तसेनातिष्ट तीतिभावः ॥ १० ॥ शि० तुरगानादिदेश चालयामासेत्यर्थः ॥ ११ ॥ स० अनिवर्तकः अनिवर्तितुं । ण्वुलूतुमुनोरेकार्थत्वात् । यद्वा निवर्तकेन्द्र स्यदिगन्तरगमनान्न विद्यतेनिवर्तकोयस्यसतथा ॥ १८ ॥ ति० दशाननं न्यवर्तयदित्यनहेतुः असंभ्रान्तः समात्येति ॥ २० ॥ [ पा० ] १ क. ख. त्रिःखल