पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः २ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । देवपन्नगकन्याश्च राजर्षितनयाश्च याः || क्रीडन्त्योप्सरसञ्चैव तं देशमुपपेदिरे ॥ ९॥ सर्वर्तुषूपभोग्यत्वाद्रम्यत्वात्काननस्य च ॥ नित्यशस्तास्तु तं देशं गत्वा क्रीडन्ति कन्यकाः ॥१०॥ देशस्य रमणीयत्वात्पुलस्त्योयत्र स द्विजः ॥ गायन्त्यो वादयन्त्यश्च लासयन्त्यस्तथैव च ॥ मुनेस्तपस्विनस्तस्य विघ्नं चक्रुरनिन्दिताः ॥ ११ ॥ अथ क्रुद्धो महातेजा व्याजहार महामुनिः ॥ या मे दर्शनमागच्छेत्सा गर्भ धारयिष्यति ॥ १२ ॥ तास्तु सर्वा: प्रतिश्रुत्य तस्य वाक्यं महात्मनः ब्रह्मशापभयाद्भीतास्तं देशं नोपचक्रमुः ॥ १३ ॥ तृणबिन्दोस्तु राजर्षेस्तनया न शृणोति तत् ॥ १४ ॥ गत्वाऽऽश्रमपदं तत्र विचचार सुनिर्भया ॥ न साऽपश्यत्स्थिता तत्र कांचिदभ्यागतां सखीम् ॥१५॥ तसिन्काले महातेजाः प्राजापत्यो महानृषिः ॥ स्वाध्यायमकरोत्तत्र तपसा भावितः स्वयम् ॥१६॥ सा तु वेदश्रुतिं श्रुत्वा दृष्ट्वा वै तपसो निधिम् || अभवत्पाण्डदेहा सा सुव्यञ्जितशरीरजा ॥ १७ ॥ बभूव च समुद्विग्ना दृष्ट्वा तदोषमात्मनः || इदं मे किंत्विति ज्ञात्वा पितुर्गत्वाऽऽश्रमे स्थिता ॥१८॥ तां तु दृष्ट्वा तथाभूतां तृणविन्दुरथाब्रवीत् || किं त्वमेतत्त्वसदृशं धारयस्यात्मनो वपुः ॥ १९ ॥ सा तु कृत्वाऽञ्जलिं दीना कन्योवाच तपोधनम् ॥ न जाने कारणं तात येन मे रूपमीदृशम् ॥ २०॥ किं तु पूर्व गतास्म्येका महर्षेर्भावितात्मनः ॥ पुलस्त्यस्याश्रमं दिव्यमन्वेष्टुं स्वसखीजनम् ॥ २१ ॥ न च पश्याम्यहं तत्र कांचिदभ्यागतां सखीम् ॥ रूपस्य तु विपर्यासं दृष्ट्वा त्रासादिहागता ||२२|| तृणबिन्दुस्तु राजर्षिस्तपसा द्योतितप्रभः || ध्यानं विवेश तच्चापि ह्यपश्यदृषिकर्मजम् || २३ ॥ स तु विज्ञाय तं शापं महर्षेर्भावितात्मनः ॥ गृहीत्वा तनयां गत्वा पुलस्त्यमिदमब्रवीत् ॥ २४ ॥ भगवंस्तनयां मे त्वं गुणैः स्वैरेव भूषिताम् ॥ भिक्षां प्रतिगृहाणेमां महर्षे स्वयमुद्यताम् ॥ २५ तपश्चरणयुक्तस्य श्रम्यमाणेन्द्रिय ते || शुश्रूषणपरा नित्यं भविष्यति न संशयः ॥ २६ ॥ 'ब्रुवाणं तु तद्वाक्यं राजर्षिं धार्मिकं तदा || जिघृक्षुरब्रवीत्कन्यां वाढमित्येव स द्विजः ॥ २७ ॥ देवा स तु यथान्यायं स्वमाश्रमपदं गतः ॥ साऽपि तत्रावसत्कन्या तोषयन्ती पतिं गुणैः ॥ २८ ॥ तृणबिन्दुर्नाम ऋषिः ॥ ७–९ ॥ तं देशं आश्रम- | २३ || तनयां गृहीत्वा पुलस्त्यं गत्वेत्यन्वयः ॥ २४॥ पदं ।। १० ।। लासयन्त्यः नृत्यन्त्यः ॥ ११-१५ ॥ इमां मिक्षां गृहाणेति भिक्षात्वेन स्वीकुरुष्वेति अब्रवी- स्वाध्यायमकरोत् । वेदमपठदित्यर्थः ||१६|| वेदश्रुतिं दिति पूर्वेणान्वयः । ननूर्ध्वरेतसा मया कथं ग्राह्या वेदध्वनं श्रुत्वा कोऽधीत इति गत्वा दृष्ट्वा चेत्यर्थ: । किं वा मेऽनया प्रयोजनमित्यत्राह – उद्यतामिति । पाण्डुदेहा गर्भिणीत्वात् । सुव्यजितः शरीरजो “उद्यतामाहृतां भिक्षां पुरस्तादप्रवेदिताम् । भोज्यां यस्याः सा तथा ॥ १७ ॥ इदं मे किं एतत्किमिति मेने प्रजानाथो ह्यपि दुष्कृतकर्मणः" इत्युक्तेः स्वय- ज्ञात्वा गर्भकारणमिदं किंत्विति ज्ञात्वेत्यर्थः ॥ १८- | मुद्यतेयं प्रायैवेत्यर्थः ॥ २५–२७ ॥ यथान्यायं ति० वादयन्त्यः वीणादिकमितिशेषः ॥ १० ॥ स० ब्रह्मशापभयात् तद्रूपभयसाधनात् ॥ १३ ॥ ति० तदिति | शाप- वाक्यमित्यर्थः । नश्शृणोति नशुश्राव ॥ १४ ॥ स० सासुव्यजितशरीरजा सा लक्ष्मीःशोभेतियावत् । तयासुव्यजितः सम्यग्व्यतः शरीरजोगर्भोयस्यास्सा । यद्वासुसमृद्धः नतथेयसुः असमृद्धः तादृशः । व्यञ्जितः केवलंव्यक्तःशरीरजोगर्भस्तेनसहवर्ततइतितथा । ' सुपूजार्थेभृशार्थानुमतिकृत्स्नसमृद्धिषु ' इतिविश्वः । असुरपूज्य: निन्द्यइतियावत् । तादृशः व्यजितोयश्शरीरजस्तेन सहितेतिवा । अतोनसेत्यधिकं ॥ १७ ॥ ति० तद्दोषं गर्भसंभवरूपदोषं ॥ १८ ॥ ति० असदृशं कन्यात्वस्यायुक्तं ॥ १९ ॥ पूर्वगता प्रथमं गता ॥ २१ ॥ ति० तच्चापिगर्भकारणमित्यर्थः ॥ २३ ॥ ति० तत्प्रतिग्रहफलमाह - शुश्रूषणपरेति ॥ २६ ॥ [ पा० ] १ ग. ङ. च. छ. झ. ज. ट. ऋषिपन्नग २ ङ. च. छ. झ. ज. ट. दलातुतनयांराजा. S