पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [उत्तरकाण्डम् ७ तस्यास्तु शीलवृत्ताभ्यां तुतोष मुनिपुङ्गवः । प्रीतः स तु महातेजा वाक्यमेतदुवाच ह ॥ २९ ॥ परितुष्टोस्मि सुश्रोणि गुणानां संपदा भृशम् ॥ तस्माद्देवि ददाम्यद्य पुत्रमात्मसमै तव ॥ उभयोर्वशकर्तारं पौलस्त्य इति विश्रुतम् ।। ३० ।। यस्मातु विश्रुतो वेदस्त्वयैषोऽध्यतो मम ॥ तस्मात्स विश्रवा नाम भविष्यति न संशयः ॥ ३१ ॥ एवमुक्ता तु सा देवी प्रहृष्टनान्तरात्मना । अचिरेणैव कालेनासूत विश्रवसं सुतम् । त्रिषु लोकेषु विख्यातं यशोधर्मसमन्वितम् ॥ ३२ ॥ श्रुतिमान्समदर्श च व्रताचाररतस्तथा । पितेव तपसा युक्तो ह्यभवद्विश्रवा मुनिः ॥ ३३ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे द्वितीयः सर्गः ॥ २ ॥ तृतीयः सर्गः ॥ ३ ॥ विश्रवसोमुनिवरात्कुबेरोत्पत्तिः ॥ १ ॥ कुबेरतपस्तुटेनपरमेष्ठिना तसै दिक्पतित्वधनपतित्ववरदानम् ॥ २ कुबेरेण ॥ स्वपितृनियोगेन राक्षसाधिष्ठितपूर्वलङ्कायां स्वजनैःसहनिवासः ॥ ३ ॥ अथ पुत्रः पुलस्त्यस्य विश्रवा मुनिपुङ्गवः । अचिरेणैव कालेन पितेव तपसि स्थितः ॥ १ ॥ सत्यवाञ्छीलवाञ्छान्तः स्वाध्यायनिरतः शुचिः ॥ सर्वभोगेष्वसंसक्तो नित्यं धर्मपरायणः ॥ २ ॥ ज्ञात्वा तस्यं तु तद्वत्तं भरद्वाजो महामुनिः ।। ददौ विश्रवसे भायं स्वसुतां देववर्णिनीम् ॥ ३ ॥ प्रतिगृह्य तु धर्मेण भरद्वाजसुतां तदा । जान्वेषिकया बुद्धया श्रेयो ह्यस्य विचिन्तयन् ।। ४ ।। मुदा परमया युक्तो विश्रवा मुनिपुङ्गवः । स तस्यां वीर्यसंपन्नमपत्यं परमादुतम् । जनयामास धर्मज्ञः सर्वैर्बह्मगुणैर्युतम् ।। ५ ।। तस्मिञ्जाते तु संहृष्टः संबभूव पितामहः ।। ६ ।। पाणिग्रहणपूर्वकमित्यर्थः ।। २८-२९ । उभयोरपि | त्यर्थः । पितामहः वैश्रवणपितामहः । पुलस्त्य इत्यर्थः । मातुः िपतुश्चेत्यर्थः ॥ ३० ॥ “’ अध्ययत: अधीयानस्ये- |प्रजामन्विच्छतीति प्रजान्वेषिका प्रत्ययस्थात् त्यर्थः । वेदो विश्रुतः गर्भहेतुरिति शेषः॥३१-३३॥ |। इतीत्वं । अस्य विश्रवसस्तस्मिन्पुत्रे जाते तुष्टो बभूव इतिश्रीगोविन्दराजविरचितेश्रीमद्रामायणभूषणे मणि मुकुटाख्याने उत्तरकाण्डव्याख्याने द्वितीय:सर्ग:॥२॥ श्रेयस्करीं धनेशत्वरूपश्रेय:प्राप्तिहेतुभूतां । जन्मलम पर्यालोचनया कालान्तरे धनाध्यक्षनामको भविष्य तस्य तद्वत्तं विश्रवसस्तादृशं चरितमित्यर्थः । |तीति निश्चित्य तत्काले विश्रवसोपत्यत्वाद्वैश्रवण देववर्णिनीं देवसमानरूपां ॥ ३ ॥ प्रतिगृहोत्यादिश्लो- | इति विश्रुतो भविष्यतीति नाम च चकार । कपञ्चकमेकं वाक्यं । सर्वैर्बह्मगुणैः। शमदमादिभिरि- | “विश्रवसो विश्रवणं वा ' इति विश्रवणादेशः स० श्रुतिमान् सर्वशास्रश्रवणवान् ॥ ३३ ॥ इतिद्वितीयःसर्गः ॥ २ ॥ स० सर्वभोगेषुसत्खपि असंसक्तः निस्पृहः । अनेनभाववैराग्यंसूच्यते । सर्वभोगेष्वसंसक्तइत्येकंवापदं । सर्वभोगेषु तत्सा धनेषु एः मन्मथस्यइषवोबाणास्तैरसंसक्तः असंबद्धइतिवा । अस्यापत्यंइ । भगवत्पुत्रत्वेनइःकामः । इयल्यांसल्यांसंपदि अकृतविवाहोमहामुनिरितिभावः ॥ २ ॥ ति० देववर्णिनीं देवसमानरूपांतन्नान्नींच ॥ ३ ॥ ति० प्रजान्वीक्षिकया प्रजानां शुभाशुभवीक्षणरूपयाबुद्याज्योतिश्शास्रसिद्धया । अस्यामुत्पादयिष्यमाणपुत्रस्यश्रेयोगुणंचिन्तयन् ॥ ४ ॥ ति० सर्वेह्मगुणैः शमतपश्शौचादिगुणैःयुक्तमपत्यंजनयामास । पितामहः वैश्रवणपितामहःपुलस्त्यइत्यर्थः । अत्रस्थानेप्रजान्वेषिकयेत्यर्धमितिक तकखरसः । प्रजामन्विच्छतिप्रजान्वेषिका । तदुणागुणपर्यालोचिकाज्योतिश्शास्त्रविषयाबुद्धिः । तयास्यवैश्रवणस्यश्रेयोवि [पा०] १ ख. घ. व्छीलवान्वाग्मी. २ ड,-ट, प्रजान्वीक्षिकया