पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकि रामायणम् । [ उत्तरकाण्डम् ७ मया तु सर्वे यत्सत्यं तस्मै सर्वे निवेदितम् || काममोहाभिभूतात्मा नाश्रौषीत्तद्वचो मम ॥ ४७ ॥ याच्यमानो मया देव खुषा तेऽहमिति प्रभो ॥ तत्सर्वं पृष्ठतः कृत्वा बलात्तेनासि धर्पिंता ॥४८॥ एवं त्वमपराधं मे क्षन्तुमर्हसि सुव्रत || न हि तुल्यबलं सौम्य स्त्रियाथ पुरुषस्य च ॥ ४९ ॥ एतच्छ्रुत्वा तु संक्रुद्धस्तदा वैश्रवणात्मजः ॥ धर्षणां तां परां श्रुत्वा ध्यानं संप्रविवेश ह ॥ ५० ॥ तस्य तत्कर्म विज्ञाय तदा वैश्रवणात्मजः || मुहूर्तात्क्रोधताम्राक्षस्तोयं जग्राह पाणिना ॥ ५१ ॥ गृहीत्वा सलिलं सर्वमुपस्पृश्य यथाविधि || उत्ससर्ज येथाशापं राक्षसेन्द्राय दारुणम् ॥ ५२ ॥ अकामा तेन यसाच्वं बलाद्भद्रे प्रधर्पिता || तस्मात्स युवतीमन्यां नाकामामुपयास्यति ॥ ५३ ॥ यदा ह्यकामां कामार्तो घर्षयिष्यति योषितम् ॥ सूर्धा तु सप्तधा तस्य शकलीभविता तदा ॥५४॥ तस्मिन्नुदाहृते शापे ज्वलिताग्निसमप्रभ || देवदुन्दुभयो नेदुः पुष्पवृष्टिश्च खाच्युता ॥ पितामहमुखाश्चैव सर्वे देवाः प्रहर्षिताः ॥ ५५ ॥ ज्ञात्वा लोकगतिं सर्वा तस्य मृत्युं च रक्षसः ॥ ऋषयः पितरश्चैव प्रीतिमापुरनुत्तमाम् ॥ ५६ ॥ श्रुत्वा तु स दशग्रीवस्तं शापं रोमहर्षणम् || नारीषु मैथुने भावं नाकामास्वभ्यरोचयत् ॥ ५७ ॥ तेन नीताः स्त्रियः प्रीतिमापुः सर्वाः पतिव्रताः ॥ नलकूबरनिर्मुक्तं शापं श्रुत्वा मनःप्रियम् ॥ ५८ ॥ इत्यार्पे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे षड्विंशः सर्गः ॥ २६ ॥ सप्तविंशः सर्गः ॥ २७ ॥ रावणेन कैलासारसुमालिप्रभृतिभिः सह स्वर्गलोक मेत्येन्द्रादिभिः सहमहासमरप्रवर्तनम् ॥ १ ॥ सुमालिनासुरसेनाव- मर्दने सावित्रनाम्नावसुना तेनसहयुवा गदयातस्यहननम् ॥ २ ॥ कैलासं लङ्घयित्वाऽथ दशग्रीवः स रावणः || आससाद महातेजा इन्द्रलोकं निशाचरः ॥ १ ॥ तस्य राक्षससैन्यस्य समन्तादुपयास्यतः || देवलोकं ययौ शब्दो मैथ्यमानार्णवोपमः ॥ २ ॥ मिता यापितेत्यर्थः । इहेति शेषः ॥ ४५ -- ४९ ॥ | लोकस्य तत्पीडामूलदुर्दशां । इदंच वचनं सीतादेव्या ध्यांन संप्रविवेशेति । एतदुक्तः सत्यो वाऽसत्यो वेति अक्षतत्वस्य सम्यग्रामबोधनार्थ ॥ ५६-५८ ॥ इति ज्ञातुमिति शेषः ।। ५०–५१ ॥ उपस्पृश्य चक्षुरा |श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमु दीन्द्रियमिति शेषः ।। ५२-५३ ॥ सप्तधा सप्तप्र कुटाख्याने उत्तरकाण्डव्याख्याने षड्विंशः सर्गः ॥२६॥ कारेण शकलीभविता ॥ ५४–५५ ॥ लोकगतिं स० इदंसर्वमलङ्करणं कस्य कमुद्दिश्येतितेनरक्षसापृष्टा । तुतदनन्तरंमयायन्निवेदनीयं तत्सर्वेसत्यंयथाभवति तथा निवेदितं । प्रलाप- कालत्वात्सर्वेतिद्विरुपादानंनदोषायेतिवा ॥ ४७ ॥ स० योषिन्मात्रभाषणंन विश्वसनीय मिति तद्वचन मिथ्यातथ्यता निर्णयार्थ ध्यानमा- स्थितः ॥ ५० ॥ ति० सप्तधेति । सप्तधातुवशात्सप्तप्रकारेण | शकलीभविता ल्युट् ॥ ५४ ॥ स० देवदुन्दुभयोनेदुः स्वयमेव दैवात् । एतेनायंशापईश्वरसंमतइतिज्ञायते । नकेवलमेतावत् किंतुब्रह्मादेरपिकालआसन्नइतिसंमतिरित्याह- पितामहमुखाइति ॥ ५५ ॥ स० लोकगतिं जनहिंसां । तस्यरक्षसः मृत्युंचशापरूपंतत्साधनंचज्ञात्वाप्रहर्षिताइतिपूर्वेणान्वयः ॥ ५६ ॥ इतिषविंशः सर्गः ॥ २६ ॥ ति० कैलासंलङ्घयित्वेन्द्रलोकमाससाद । तस्य मेरूपरिप्रतिष्ठितत्वात् ॥ १ ॥ स० भिद्यमानार्णवोपमः तत्स्वरसदृशःशब्दः । [ पा० ] १ क. ख. ग. ङ-~-ट. तदाशापं. २ च. छ. सहस्रधातस्य क. तुशतघातस्य ख. तुदशधातस्य ३ झ. ठ. भिद्यमानार्णवोपमः.