पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

4 सर्ग: २६ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । अथाब्रवीद्दशग्रीवश्चरणाधोमुखीं स्थिताम् || रोमहर्षमनुप्राप्तां दृष्टमात्रेण तां तदा ॥ २९ ॥ सुतस्य यदि मे भार्या ततस्त्वं हि स्तुपा भवेः ॥ षाढमित्येव सा रम्भा ग्राह रावणमुत्तरम् ||३०|| धर्मतस्ते सुतस्याहं भार्या राक्षसपुङ्गव || पुत्रः प्रियतरः प्राणैर्भ्रातुर्वैश्रवणस्य ते ॥ विख्यातस्त्रिषु लोकेषु नलकूबर इत्ययम् ॥ ३१ ॥ धर्मतो यो भवेद्विप्रः क्षत्रियो वीर्यतो भवेत् || क्रोधाद्यश्च भवेदग्निः क्षान्त्या च वसुधासमः ॥३२॥ तस्यामि कृतसंकेता लोकपालसुतस्य वै ॥ तमुद्दिश्य तु मे सर्वे विभूषणमिदं कृतम् ॥ ३३ ॥ तथा तस्य हि नान्यस्य भावो मां प्रति तिष्ठति ॥ तेन सत्येन मां राजन्मोक्तुमर्हस्परिन्दम ||३४|| स हि तिष्ठति धर्मात्मा मां प्रतीक्षन्त्समुत्सुकः ॥ तत्र विघ्नं सुतस्येह कर्तुं नार्हसि मुञ्च माम् ॥ ३५ ॥ सद्भिराचरितं मार्ग गच्छ राक्षसपुङ्गव || माननीयो मैम त्वं हि पालनीया तथाऽस्मि ते ॥ ३६ ॥ एवमुक्तो दशग्रीवः प्रत्युवाच विनीतवत् ॥ सुपाऽसि यदवोचस्त्वमेक पत्नीष्वयं क्रमः ॥ ३७ ॥ देवलोकस्थितिरियं सुराणां शाश्वती मता ॥ पतिरप्सरसां नास्ति न चैकस्त्रीपरिग्रहः ॥ ३८ ॥ एवमुक्त्वा स तां रक्षो निवेश्य च शिलातले || कामभोगाभिसंसक्तो मैथुनायोपचक्रमे ॥ ३९ ॥ सा विमुक्ता ततो रम्भा भ्रष्टमाल्यविभूषणा ॥ गजेन्द्राक्क्रीडमथिता नदीवाकुलतां गता ॥ ४० ॥ लुलिताकुलकेशान्ता कैरवेपितपल्लवा || पवनेनावधूतेव लता कुसुमशालिनी ॥ ४१ ॥ सा वेपमाना लज्जन्ती भीता करकृताञ्जलिः ॥ नलकूवरमासाद्य पादयोर्निपपात ह ॥ ४२ ॥ तदवस्थां च तां दृष्ट्वा महात्मा नलकूबरः || अब्रवीत्किमिदं भद्रे पादयोः पतितासि मे ॥ ४३ ॥ सा वै निश्वसमाना तु वेपमाना कृताञ्जलिः ॥ तस्मै सर्वे यथातत्त्वमाख्यातुमुपचक्रमे ॥ ४४ ॥ एष देव दशग्रीवः प्राप्तो गन्तुं त्रिविष्टपम् || तेन सैन्यसहायेन निशेयं पॅरिणामिता ॥ ४५ ॥ आयान्ती तेन दृष्टासि त्वत्सकाशमरिन्दम | गृहीता तेन पृष्टाऽसि कस्य त्वमिति रक्षसा ॥४६॥ ८३ षष्ठी ॥ २१-३१ ॥ धर्मतः धर्मानुष्ठानविषये | वोच: । स्नुषास्मीति यदवोच इत्यर्थः || ३७–३९॥ ॥ ३२ ॥ कृतसंकेता कृतरतिसंकेता | यथा तस्य सा विमुक्तेति ॥ संभोगानन्तरमिति शेषः । गजेन्द्रा- भावो मां प्रति नान्यस्य तथा ममापि भावस्तं क्रीडमथिता गजेन्द्राक्रीडेन मथिता ॥ ४० ॥ करवे- प्रति तिष्ठतीत्यर्थः ॥ ३३–३६ || स्नुषास्मि यद- | पितपल्लवा वेपितकरपल्लवा ॥ ४१-४४ ॥ परिणा- ति० चरणाधोमुखीं चरणावलोकनेनाधोमुखतयास्थितां ॥ २९ ॥ ति० सुतस्य इन्द्रजितइत्यर्थः ॥ ३० ॥ ति० तेमुतस्य नलकूवरस्य | धर्मतः संकेतधर्मतः ॥ ३१ ॥ स० धर्मतः स्वाध्यायादिधर्मात् । विप्रः तत्समः । एवमुत्तरत्रापि ॥ ३२ ॥ ति० यथातस्यभाषोमांप्रतितिष्ठति तथाममापिभावस्तंप्रतितितीतिशेषः । नान्यस्य नान्यंप्रतीत्यर्थः । रू० यथातस्यनलकूवरस्य मांप्रति मयिभावःमनस्तिष्ठति तथान्यस्यभावोनतिष्ठति । यद्वा यथातस्य विषये। मां शोभांप्रति । ममेतिशेषः । भावः । नान्यस्य पुरुषस्यत्वदादे- र्विषयेनतिष्ठति त्वत्कामनां ममनास्तीतिभावः ॥३४॥ ति० स्नुषास्मियदिति । स्रुषास्मीतियदवोचइत्यर्थः ॥ ३७ ॥ ति० देवलो- कस्थितिः देवलोकमर्यादा | इयमितीदंशब्दार्थः पतिरिति । स० पतिरप्सरसांनास्ति पाणिग्रहणपूर्वकंपतिर्नास्ति । ममास्तुतथा तषतुमन्दोदर्युपर्येववर्तन रूपोधर्मोस्ति । तंमागमयेत्यत आह –नचेति । अहमेक स्त्री परिग्रहोनच | कामुकोहं कामिनीकुलटा त्वं । अतोनिर्निबन्धोयुक्तोऽयं निर्बन्धइतिभावः । अप्सरसांनियतपतिर्नास्ति । सुराणामध्येकाप्सरः परिग्रहोभार्याखेननास्तीत्यर्थ इतिती- र्थोनागोजिभट्टश्चप्रकृतानुपयुक्तान्वयवादिनौ । नचैकत्रीपरिग्रहइत्येतदर्थस्य पतिरित्या दिनैवलब्धेराधिक्यमपिन निभालयामासतुरि- तिज्ञेयं । कामविजयेपुंस्त्वंनास्तीतिरक्षइत्युक्तिः । इदंपुंस्त्वंशापौपयिकतयापापहेतु रिति विद्यमानमध्य विद्यमानप्रायमित्यभिप्रायेणैव- मुक्तिरितिवा ॥ ३८ ॥ ति० करवेपितपलवा वेपितकरपल्लवा ॥ ४१ ॥ [ पा० ] १ ग. यथाहित्वंलालनीयातथा. २ ख. विधूतकरपल्लवा. ३ क. ग. घ. च. परिणाम्यते. गृहीखातेन. ४ क घ. 9