पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 श्रीमद्वाल्मीकिरामायणम् । उत्तरकाण्डम् ७ गेयात्पुष्पसमृद्ध्या च शैत्याद्वायोगिरर्गुणात् || प्रवृत्तायां रजन्यां च चन्द्रस्योदयनेन च ॥ १२ ॥ रावणः सुमहावीर्यः कामस्य वशमागतः || विनिश्वस्य विनिश्वस्य शशिनं समवैक्षत ॥ १३ ॥ एतस्मिन्नन्तरे तत्र दिव्याभरणभूषिता || सर्वाप्सरोवरा रम्भा दिव्यपुष्पविभूषिता ॥ १४ ॥ दिव्यचन्दनलिप्ताङ्गी मन्दारकृतसूर्धजा || दिव्योत्सवकृतारम्भा पूर्णचन्द्रनिभानना ॥ १५ ॥ चक्षुर्मनोहरं पीनं मेखलादामभूषितम् || समुद्रहन्ती जघनं रतिप्राभृतमुत्तमम् ॥ १६ ॥ कृतैर्विशेषकैराद्रैः षडर्तुकुसुमोद्भवैः ॥ वभावन्यतमेव श्रीकान्तिद्युतिमतिहियाम् || नीलं सतोयमेघाभं वस्त्रं समवकुण्ठिता ॥ १७ ॥ ८२ यस्या वक्रं शशिनिभं ध्रुवौ चापनिभे शुभे ॥ ऊरू करिकराकारी करौ पलवकोमलौ ॥ सैन्यमध्येन गच्छन्ती रावणेनोपवीक्षिता ॥ १८ ॥ तां समुत्थाय गच्छन्तीं कामवाणवशं गतः ॥ करे गृहीत्वा लजन्तीं स्मयमानोऽभ्यभाषत ॥१९॥ क गच्छसि वरारोहे कां सिद्धिं भजसे स्वयम् || कस्याभ्युदयकालोऽयं यस्त्वां समुपभोक्ष्यते ॥२०॥ त्वदाननरसस्याद्य पद्मोत्पलसुगन्धिनः ॥ सुधामृतरसस्येव कोऽद्य तृप्ति गमिष्यति ॥ २१ ॥ स्वर्णकुम्भनिभौ पीनौ शुभौ भीरु निरन्तरौ ॥ कस्योरस्थलसंस्पर्श दास्यतस्ते कुचाविमौ ॥ २२ ॥ सुषर्णचक्रप्रतिमं स्वर्णदामचितं पृथु || अध्यारोहति कस्तेऽद्य जघनं स्वर्गरूपिणम् ॥ २३ ॥ मद्विशिष्टः पुमान्कोऽद्य शक्रो विष्णुरथाश्विनौ ॥ मामतीत्य हि यं च त्वं यासि भीरु न शोभनम् २४ विश्रम त्वं पृथुश्रोणि शिलातलमिदं शुभम् ॥ त्रैलोक्ये यः प्रभुश्चैव मदन्यो नैव विद्यते ॥ २५ ॥ तदेवं प्राञ्जलिः महो याचते त्वां दशाननः ॥ भर्तुर्भर्ता विधाता च त्रैलोक्यस्य भजख माम् ॥ २६ ॥ एवमुक्ताऽब्रवीद्रम्मा वेपमाना कृताञ्जलिः || प्रसीद नार्हसे वक्तुमीदृशं त्वं हि मे गुरुः ॥ २७ ॥ अन्येभ्यो हि त्वया रक्ष्या प्राप्नुयां घर्षणं यदि ॥ तद्धर्मतः क्षुषा तेऽहं तत्त्वमेव ब्रवीमि ते ॥२८॥ च संपृक्तं ॥११--१४॥ मन्दारकृतमूर्धजा मन्दारपु | देवस्त्रीविशेषाणामन्यतमेव स्थिता । अमिसान्त्वेन ष्पकृतालंकारकेशीत्यर्थः ॥१५॥ रतिप्राभृतं रत्युपदा- नीलवस्त्रमादाय समवकुण्ठिता प्रावृतवती ॥ १७ भूतं रतिवर्धकमित्यर्थः ॥ १६ ॥ षडर्तुकुसुमोद्भवैः षडृतकुसुमोद्भवैरित्यर्थः । ऋकारस्य गुणश्छान्दसः । विशेषकैरलंकारैरित्यर्थः । श्रीकान्तिद्युतिमतिहियां सुधामृतरसस्येव अमृतादमृतरसस्येवेत्यर्थः । तृप्तियोगे -- १९ ॥ कां सिद्धिं कस्य भोगसिद्धिमित्यर्थः ॥२०॥ स० गेयात् गानात् । चन्द्रस्योदयनंप्रति तत्कालेगेयात् गिरेर्गुणादितिवा | गातुंयोग्यादित्यर्थः ॥ १२ ॥ ति० मन्दारैः कल्प- बृक्षकुसुमैः कृतालंकारामूर्धजाःकचाः यस्यास्सा | दिव्योत्सवाय दिव्यरतये | कृतआरंभो गमनरूपोयया ॥ १५ ॥ ति० कान्त्या प्रत्यवयवशोभारूपसौन्दर्येण । श्रिया आभरणसंपदा | युत्या लावण्येनकीर्त्याच । अन्यतमा स्वार्थेतमः | अन्याश्रीरिवल- क्ष्मी रिवबभावित्यर्थः ॥ १७ ॥ ति० आननरसस्य अधरामृतेनेत्यर्थः ॥ २१ ॥ स० यन्नदुःखेन संबद्धंनच ग्रस्तमनन्तरम् | अभिलाषोपनीतंचतत्सुखंखःपदास्पदम् ' इत्युक्तेर्निरतिशय सुखस्वर्गः | तस्यरूपमस्यास्तीतिस्वर्गरूपी तं । पुँल्लिङ्गत्वमा । स्वर्ग- रूपिणीमितिपाठे द्वितीयाषष्ट्यर्थे अतीतइत्यनेनान्वेति ॥ २३ ॥ स० मद्विशिष्टः मत्तोऽधिकः । विष्णुरुपेन्द्रः । सर्वसुपर्ववर- स्यापिकानिष्ठ्यात्तदनन्तरग्रहः | अश्विनौ ननुरुद्रादिकान्सुरान्विहायानयोरनयोग्रहइति चेत्सत्यं । नलकूबरमणिग्रीवयोर्यमलयोःप्र स्तुतत्वात्तत्समावितिप्रमितत्वेन देवेष्वेतयोरेवसत्त्वादितिवा मन्मथव्यथातः सुरेषुव्यथा चिकित्सकत्वेनप्रमितयोरनयोर्ग्रहणंयुक्तिम- दितिवाज्ञेयं ||२४|| स० त्वयाभर्तृतयाभिमतस्यापिभर्तापोषकः । विधाता कर्ता । एतादृशंमांभजस्व ॥ २६ ॥ ति० अन्येभ्यो- पियदिधर्षणंप्राप्नुयां तदापित्वयारक्ष्या । अतएवंवक्तुंनार्हसि । स० तद्धर्मतः मयानलकूबरक्कृतसंकेतधर्मतः ॥ २७-२८ ॥ [ पा० ] १ ठ. चन्द्रस्योदयनंप्रति २ ख. समुदैक्षत ३ च. श्रीः कान्तिश्रीयुविकीर्तिभिः,