पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्ग: २६ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । ततः कैलासमासाद्य शैलं वैश्रवणालयम् || राक्षसेन्द्रो महेन्द्राभ: सेनामुपनिवेशयत् ॥ ५४॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चविंशः सर्गः ॥ २५ ॥ ८१ पशिः सर्गः ॥ २६ ॥ कैलासेवसता समुदितेचन्द्रे तत्रयहच्छासमागतरंभावलोकनक्षुभितहृदाचरावणेन तत्करग्रहणेन तांप्रति जिग मिपित देश- प्रश्नपूर्वकंभोगप्रार्थना ॥ १ ॥ तयातंप्रति स्वस्यनलकूबराभिलापनिवेदनेन स्नुपात्वोत्तया स्वमोचनयाचने तेमवलात्तदुप- भोगः ॥ २ ॥ तेनभुक्तमुक्तयारंभया नलकूबरमेत्य तस्मिन्त्रावणदुश्चेष्टितनिवेदनम् ॥ ३ ॥ तेनकोपात्तंप्रति अकामकामिनी- भोगे सप्तधामूर्धस्फुटन विषयकशापदानम् ॥ ४॥ तच्छ्रवणेनरावणेनाकामकामिनीभोगानभिरोचनं तदपहृतपतिव्रताभिर्हर्पा- धिगमश्च ॥ ५ ॥ स तु तत्र दशग्रीवः सह सैन्येन वीर्यवान् || अस्तं प्राप्ते दिनकरे निवासं समरोचयत् ॥ १ ॥ उदिते विमले चन्द्रे तुल्यपर्वतवर्चसि || प्रसुप्तं सुमहत्सैन्यं नानाप्रहरणायुधम् ॥ २॥ रावणस्तु महावीर्यो निषण्ण: शैलसूर्धनि || स ददर्श गुणांस्तत्र चन्द्रपादसुशोभितान् ॥ ३ ॥ कर्णिकारवनैर्दीप्तैः कैदम्बगहनैस्तथा ॥ पद्मिनीभित्र फुल्लाभिर्मन्दाकिन्या जलैरपि ॥ ४ ॥ चम्पकाशोक पुन्नागमन्दारतरुभिस्तथा ॥ चूतपाटललोधैश्च प्रियङ्ग्वर्जुनकेतकैः ॥ ५ ॥ तगरैर्नारिकेलैश्च प्रियालपन सैस्तथा ॥ आरग्वधैस्तमालैश्च प्रियालबकुलैरपि ॥ ६ ॥ एतैरन्यैश्च तरुभिरुद्भासितवनान्तरे || किन्नरा मदनेनार्ता रक्ता मधुरकण्ठिनः || समं संप्रजगुर्यत्र मनस्तुष्टिविवर्धनम् ॥ ७ ॥ विद्याधरा मदक्षीबा मदरक्तान्तलोचनाः ॥ योषिद्भिः सह संक्रान्ताविक्रीडर्जहषुश्च वै ॥ ८ ॥ घण्टानामिव सन्नाद: शुश्रुवे मधुर स्वर: || अप्सरोगणसङ्घानां गायतां धनदालये ॥ ९ ॥ पुष्पवर्षाणि मुञ्चन्तो नगाः पवनताडिताः || शैलं तं वासयन्तीव मधुमाधवगन्धिनः ॥ १० ॥ मधुपुष्परजःपृक्तं गन्धमादाय पुष्कलम् || प्रववौ वर्धयन्कामं रावणय सुखोऽनिलः ॥ ११ ॥ ॥ अर्ध्यापचरमित्यर्थः ॥ ५२-५४ ॥ इति श्रीगो | ॥ ४-६ ॥ रक्ताः रागयुक्ताः । मधुरकण्ठिनः विन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटा- मधुकण्ठध्वनयः | समं स्वस्त्रीभिरिति शेषः ॥ ७ ख्याने उत्तरकाण्डव्याख्याने पञ्चविंशः सर्गः ॥२५॥ ९॥ वासयन्ति अधिवासयुक्तं कुर्वन्ति । मधुमाघ- वगन्धिनः नित्यमेव मधुमाधवाभ्यां चैत्रवैशाखाभ्यां वसन्तमासाभ्यां गन्धिन: तत्कृतपुष्पगन्धाइत्यर्थः ||१०|| मधुपुष्परजःपुक्तं मधुना मकरन्देन पुष्परजसा तुल्यपर्वतवर्चसि स्वनिविष्टकैलासवत्तुल्या ||२|| गुणान् भोगार्हधर्मान् ||३|| कदम्बगहनैः कदम्बयनैः स० उपनिवेशयत् उपन्यवेशयत् ॥ ५४ ॥ इति पञ्चविंशः सर्गः ॥ २५ ॥ स० चन्द्रपादपशोभितान् चन्द्रश्चपादपाश्चतैः । कर्पूरपादपैः कदलीविशेषैः । चन्द्ररुदकैः पादपैश्चेतिवा | तैरुपशोभितान् । “ चन्द्रः सुधांशुकर्पूरकंपिलस्वर्णवारिषु " इतिविश्वः ॥ ३ ॥ ति० पद्मिन्यः सरांसि । तासांफुल्लत्वंतत्कालोचित विकासवत्कहा- रादिभिर्बोध्यं ॥ ४ ॥ स० तगराः क्षाररसवन्महीरुहाः । “ तगरःक्षारे ” इतिविश्वः ॥ ६ ॥ ति० मधुरकण्ठिनः मधुरकण्ठ ध्वनयः । समं स्वस्त्रीभिरितिशेषः । यत्र कैलासे ॥ स० रक्ताः आसक्ताः ॥ ७ ॥ १० मदक्षीवाः मदसाधनमत्ताः । मद रक्तान्तलोचनाः यास्ताभिर्योषिद्भिः | संक्रान्ताः मिलिताः ॥ ८ ॥ ति० वासयन्ति अधिवासयन्ति सुगन्धं कुर्व ॥ १०॥ " । [ पा० ] १ झ ठ. चन्द्रपादपशोभितान्. २ ग. घ. च. छ. ञ. ट. कदंबबकुलैस्तथा ख कदंबविपिनैस्तथा. वा. रा. २५१