पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ विभीषणवचः श्रुत्वा राक्षसेन्द्रः स रावणः || दौरात्म्येनात्मनोद्धृतस्तसाम्भा इव सागरः ॥ ३० ॥ ततोऽब्रवीद्दशग्रीवः क्रुद्धः संरक्तलोचनः ॥ कल्प्यतां मे रथः शीघ्रं शूराः सज्जीभवन्तु नः ||३१|| भ्राता मे कुम्भकर्णश्च ये च मुख्या निशाचराः ॥ वाहनान्यधिरोहन्तु नानाग्रहरणायुधाः ||३२|| अद्य तं समरे हत्वा मधु रावणनिर्भयम् || सुरलोकं गमिष्यामि युद्धातः ॥ ३३ ॥ [ तंतो विजित्य त्रिदिवं वशे स्थाप्य पुरंदरम् || निर्भयो विचरिष्यामि त्रैलोक्यैश्वर्यशोभितः ॥३४॥] अक्षौहिणीसहस्राणि चत्वार्यग्र्याणि रक्षसाम् || नानाप्रहरणान्याशु निर्ययुर्युद्धकाङ्क्षिणाम् ॥ ३५ ॥ इन्द्रेजिचग्रजित्सैन्यात्सैनिकान्परिगृह्य च ॥ जगाम रावणो मध्ये कुम्भकर्णश्च पृष्ठतः ॥ ३६ ॥ विभीषणश्च धर्मात्मा लङ्कायां धैर्ममाचरत् || शेषाः सर्वे महाभागा ययुर्मधुपुरं प्रति ॥ ३७॥ खरैरुदैर्हयैदीप्तैः शिशुमारैर्महोरगैः ॥ राक्षसाः प्रययुः सर्वे कृत्वाऽऽकाशं निरन्तरम् ॥ ३८ ॥ दैत्याच शतशस्तत्र कृतवैराश्च दैवतैः ॥ रावणं प्रेक्ष्य गच्छन्तमन्वगच्छन्हि पृष्ठतः ॥ ३९ ॥ स तु गत्वा मधुपुरं प्रविश्य च दशाननः ॥ न ददर्श मर्धं तत्र भगिनीं तत्र दृष्टवान् ॥ ४० ॥ सा च प्रहाञ्जलिर्भूत्वा शिरसा चरणौ गता || तस्य राक्षसराजस्य त्रस्ता कुम्भीनसी तदा ॥४१॥ तां समुत्थापयामास न भेतव्यमिति ब्रुवन् || रावणो राक्षसश्रेष्ठः किं चापि करवाणि ते ॥४२॥ साऽब्रवीद्यदि मे राजन्प्रसन्नस्त्वं महाभुज ॥ भर्तारं न ममेहाद्य हन्तुमर्हसि मानद || ४३॥ न हीदृशं भयं किंचित्कुलस्त्रीणामिहोच्यते ॥ भयानामपि सर्वेषां वैधव्यं व्यसनं महत् ॥ ४४ ॥ सत्यवाग्भव राजेन्द्र मामवेक्षस्व याचतीम् || त्वयाऽप्युक्तं महाराज न भेतव्यमिति स्वयम् ॥४५॥ रावणस्त्वब्रवीद्धृष्टः स्वसारं तत्र संस्थिताम् || क चासौ तव भर्ता वै मम शीघ्रं निवेद्यताम् ||४६ || सह तेन गमिष्यामि सुरलोकं जयावहे || तव कारुण्यसौहार्दान्निवृत्तोसि मधोर्वधात् ॥ ४७ ॥ इत्युक्ता सा समुत्थाप्य प्रसुप्तं तं निशाचरम् || अब्रवीत्संहृष्टेव राक्षसी सा पतिं वचः ॥ ४८ ॥ एष प्राप्तो दशग्रीवो मम भ्राता महाबल: || सुरलोकजयाकाङ्क्षी साहाय्ये त्वां वृणोति च ॥४९॥ तदस्य त्वं सहायार्थ सबन्धुर्गच्छ राक्षस || स्निग्धस्य भजमानस्य युक्तमर्थाय कल्पितम् ॥ ५० ॥ तस्यास्तद्वचनं श्रुत्वा तथेत्याह मधुर्वचः ॥ ५१ ॥ ददर्श राक्षसश्रेष्ठं यथान्याय्यमुपेत्य सः || पूजयामास धरण रावणं राक्षसाधिपम् ॥ ५२ ॥ प्राप्य पूजां दशग्रीवो मधुवेश्मनि वीर्यवान् || तत्र चैकां निशामुष्य गमनायोपचक्रमे ॥ ५३ ॥ अभिसंप्राप्तं अतः परमन्यत्रापि लोके विदितमस्तु | ॥ ४२-४३ ॥ ईदृशं भयं भर्तृवधसंभवं भयभित्यर्थः ॥ २९ – ३२ ॥ रावणान्निर्भयो रावणनिर्भयः ॥ ४४ ॥ सत्यवागू भवेति । न भेतव्यमिति वचनं ॥ ३३—४१ ॥ अन्यदपि तव प्रियमित्यर्थः | सत्यं कुर्वित्यर्थः ॥ ४५ - ५१ ॥ यथान्याय्यमिति कन्यानयनमनये नकथं स्यादितिभावः ॥ २९ ॥ स० रावणनिर्भयं रावणान्मत्तःनिर्भयस्तं ॥ ३३ ॥ ति० अभ्याणि मुख्यानि ॥ ३५ ॥ स० सैन्यादग्रतः सर्वसैन्याग्रभागे । सैनिकान् सेनासमवायिनः । दिनंतदेवदैवाज्जागरणस्याभूदित्यभूयुद्धायगमनंकुं- भकर्णस्येतिज्ञेयं ॥ ३६ ॥ ति० लङ्कायां धर्ममाचरन् तत्रैवस्थितइत्यर्थः ॥ ३७ ॥ ति० प्रहाञ्जलिः कृतनम्रत्वचिह्नाञ्जलिः ॥४१॥ स० कुलस्त्रीणां भर्तृवधसमानंभयं भयहेतुर्नोच्यते ॥ ४४ ॥ ति० अर्थाय प्रयोजनाय | कल्पयितुं साहाय्यंसंपादयितुंयुक्तं । स्निग्धस्य मत्प्रेक्षयात्वयिस्निग्धस्य | भजमानस्य त्वयिजामातृभावंभजतः ॥ ५० ॥ ति० यथान्याय्यं उपचारपूर्वे ॥ स० यथा- न्याय्यं ज्यैष्ठ्यका निष्ठ्यन्याययोग्यं ॥ ५२ ॥ [ पा० ] १ अयंश्लोकः क - घ. ज. पाठेषुदृश्यते २ झ ठ. इन्द्रजिस्वमतः सैन्यात् ३ झ. ठ. धर्ममाचरन्. ४ ख. राक्षसीतुमधुंतदा.