पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्ग: २५ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकतम् । ७९ ततो गत्वा दशग्रीवः सपुत्रः सविभीषणः || स्त्रियोवतारयामास सर्वास्ता बाप्पगदाः ॥ १६ ॥ लक्षिण्यो रत्नभूताश्च देवदानवरक्षसाम् || [ नार्यो भूषणसंपन्ना ज्वलन्त्यः स्वेन तेजसा ॥ १७ ॥ विभीषणस्तु ता नारीवा शोकपरायणाः ॥] तस्य तासु मतिं ज्ञात्वा धर्मात्मा वाक्यमत्रवीत् ॥ १८ ॥ . ईदृशैस्त्वं समाचारैर्यशोर्थकुलनाशनैः ॥ धर्षणं ज्ञातिनां ज्ञात्वा स्वमतेन विचेष्टसे ।। १९ ।। ज्ञातींस्तान्धर्षयित्वेमास्त्वयाऽऽनीता वराङ्गनाः ॥ त्वामतिक्रम्य मधुना राजकुम्भीनसी हृता ॥२०॥ रावणस्त्वत्रवीद्वाक्यं नावगच्छामि किंन्विदम् || कोयं यस्तु त्वयाख्यातो मधुरित्येव नामतः ॥ २१ ॥ विभीषणस्तु संक्रुद्ध भ्रातरं वाक्यमत्रवीत् ॥ श्रूयतामस्य पापस्य कर्मणः फलमागतम् ॥ २२ ॥ मातामहस्य यो भ्राता ज्येष्ठो भ्राता सुमालिनः ॥ माल्यवानिति विख्यातो वृद्धः प्राज्ञो निशाचरः ॥ पिता ज्येष्ठो जनन्या नो ह्यस्माकं चार्यकोऽभवत् ॥ तस्य कुम्भी नसी नाम दुहितुर्दुहिताऽभवत् ॥ २४॥ मातृष्वसुरथासाकं सा च कन्याऽनलोद्भवा || भवत्यस्माकमेवैषा भ्रातॄणां धर्मतः वसा ॥ २५ ॥ सा हृता मधुना राजत्राक्षसेन बलीयसा || यज्ञप्रवृत्ते पुत्रे तु मयि चान्तर्जलोपिते ॥ २६ ॥ कुम्भकर्णे महाराज निद्रामनुभवत्यथ || निहत्य राक्षसश्रेष्ठानमात्यानिह संमतान् ॥ २७ ॥ धर्पयित्वा हता सा तु सप्ताऽप्यन्तः पुरे तव || श्रुत्वाऽपि तन्महाराज क्षान्तमेव हतो न सः ॥ २८ ॥ यस्मादवश्यं दातव्या कन्या भने हि भ्रातृभिः ॥ तदेतत्कर्मणो ह्यस्य फलं पापस्य दुर्मते ॥ अस्मिन्नेवाभिसंप्राप्तं लोके विदितमस्तु ते ॥ २९ ॥ प्रसिद्धाः ॥ ७–१८ || स्वमतेन स्वेच्छया | उल्ल- | चेति । तयोर्येष्ठ: पिता माल्यवान् । तस्य वित्तशास्त्रमर्यादयेत्यर्थः ॥ १९ ॥ ज्ञातीन् आनीत पुत्री अनला | तस्याः कन्या कुम्भीनसी । सा स्त्रीबन्धून् । अस्य कर्मणः परदारापहरणरूपपापस्य | अस्माकं स्वसा | ज्येष्ठमातामहपुत्र्याः पुत्रीत्वात् । फलमागतं स्वीयस्वसुर्बलान्मधुना हरण || २० - २३॥ अतएव धर्मतः स्वसेत्युक्ता ॥ २४-२५ ॥ यज्ञ- अस्माकं जनन्याः सुमालिसुताया: कैकस्याः ज्येष्ठा प्रमत्तः यज्ञेन प्रमत्तः । विस्मृतस्वगृहकृत्य इत्यर्थः । भगिनी काचिदस्ति । सा तु नाम्ना पुष्पोत्कचा । अन्तर्जलोषित इति तपोर्थमिति शेषः ॥ २६ ॥ अपरा कुम्भीनसीति पूर्वमुक्ता । अस्माकं त्वार्यको इह गृहे । वर्तमानानिति शेषः | संमतान् सिद्धान् माल्यवान् अस्माकं ज्येष्ठमातामहः | अस्माकं जन- ॥ २७ ॥ श्रुत्वा चैवं मधुना स्वसृहरणं मत्वा न्याश्च ज्येष्ठः पिता । तस्य माल्यवतः कुम्भीनसी | अस्माकं क्षान्तमेव न तु मधुर्हतः ॥ २८ ॥ नाम दुहितास्ति । अनलोद्भवा अनला माल्यवतः भ्रातृभिः अस्माभिरित्यर्थः । तदिति । आहूय सुता तस्याः कन्या कुम्भीनसीत्यर्थः । अस्मन्मातामहस्य कल्याणपूर्वकं कन्यादानं विना बलात् कन्याग्रहणं सुमालिनः द्वे पुत्र्यौ प्रसिद्धे । पुष्पोत्कचा कैकसी | अस्य पापस्य कर्मणः फलं । अस्मिन्नेव दृष्टान्ते नेत्यत्रप्रश्लिष्टस्य ईधातोरसनमर्थोनिरसनंचत्यागइतिवा ॥ १५ ॥ शि० गत्वा स्वभवनमितिशेषः । स० स्त्रियः स्वानीताः ॥ १६ ॥ स० लक्षिण्यः प्रशस्तलक्षणोपेताः । रत्नभूताः उत्तमाः । ति० लक्षिण्यः सुलक्षणयुक्ताः ॥ १७ ॥ स० धर्मात्मा विभीषणः ॥ १८ ॥ ति० ज्ञात्वा तेषांपापजनकत्वंज्ञात्वापि ॥ १९ ॥ स० मधुना दैत्येन । 'लामतिक्रम्य अविगणय्य | कुंभीनसी तवभगिनी । हृता बलात् ॥ २० ॥ ति० नावगच्छामि नेमंवृत्तान्तंजानामि । किंवदं कथंसंपन्नं ॥ २१ ॥ स० क्वविद्रुतइन्द्रजित् त्वंवाक्केतितत्त्रं वदेत्यतआह-यज्ञप्रवृत्तइति । पुत्रे इन्द्रजिति । मयिचान्तर्जलमुषिते अन्तर्जलोषिते | तपसे इतिशेषः ॥ २६ ॥ स० क्षान्तमेव समधुर्नहतः । सामर्थ्याधिक्यात्तस्यास्माकंचकार्यान्तरासक्तत्वादितिभावः ॥ २८ ॥ ति० भ्रातृभिरितिगुरुपरं ॥ स० कन्या स्वकुलप्रसूता | भर्त्रे मनसाभर्तृत्वेनसंमताय । यद्यपिदेयाकन्येति । तथापि बलादबलाहरणतुं दुर्मते ज्येष्ठ भ्रातः अस्यत्वदनुष्ठित स्यपरतरुणी परिकरहरणादिरूपपापस्यफलं । नोचेच्चेतसापिस्मर्तुमशक्यप्राकारादिप्रकारलङ्कान्तर्गुप्त- [ पा० ] १ इदमर्धद्वयं क. – ज. अ. पाठेषुदृश्यते. २ ङ. - ट. प्राणिनांज्ञात्वा . क – घ. प्राणिनांदवा. ३ क – घ. ट. ज्ञातीन्वै. ४ क - ट. योस्माकंज्येष्ठो. ५ च. छ. झ. दुर्मतेः.