पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वास्मीकिरामायणम् । पञ्चविंशः सर्गः ॥ २५ ॥ दिग्विजयानन्तरलङ्कामाविशतारावणेन प्रथमंनिकुंभिलाप्रवेशः ॥ १॥ तत्रयज्ञदीक्षितमिन्द्रजितंप्रति यज्ञफलप्रभः ॥२॥ याजकेनशुक्रेण तंप्रतितस्य मौनित्वोक्त्या यज्ञ फल निवेदनम् ॥ ३ ॥ रावणेनेन्द्रजितंप्रति शत्रुभूतेन्द्राद्याराधनस्यानौचित्यो तथा तनिवर्तनपूर्वकं तेनसहस्वभवनमेत्य पुष्पकात्स्वापहृत परतरुणीगणावतारणम् ॥ ४ ॥ तदसहिष्णुना विभीषणेनतंप्रति निजभ- गिन्या: कुंभीनस्याः मधुनामक दैत्यकृतापहरणनिवेदनपूर्वकं तस्यपराङ्गनाहरणरूपदुष्कर्मफलस्वकथनम् ॥ ५ ॥ रावणेनमधु- यधपूर्वक सुरलोकजयप्रतिज्ञानेन कुंभकर्णादिभिः सहमधुपुरंप्रतिगमनं ॥ ६ ॥ तथाकुंभीनसीप्रार्थनया मधुवधान्निवृत्य तेनापिसहकैलासगमनम् ॥ ७ ॥ ७८ [ उत्तरकाण्डम् ७ स तु दत्त्वा दशग्रीवो वनं घोरं खरस्य तत् ॥ भगिनीं च समाश्वास्य हृष्टः स्वस्थतरोऽभवत् ॥ १ ॥ ततो निकुम्भिला नाम लङ्कोपवनमुत्तमम् ॥ तद्राक्षसेन्द्रो बलवान्प्रविवेश सहानुगः ॥ २ ॥ ततो यूपशताकीर्ण सौम्यचैत्योपशोभितम् || ददर्श विष्ठितं यज्ञं श्रिया संप्रज्वलन्निव ॥ ३ ॥ ततः कृष्णाजिनधरं कमण्डलुशिखाध्वजम् || ददर्श स्वसुतं तत्र मेघनादं भयावहम् ॥ ४ ॥ तं समासाद्य लङ्केशः परिष्वज्याथ वाहुभिः | अब्रवीत्किमिदं वत्स वर्तसे ब्रूहि तत्त्वतः ॥ ५ ॥ उशना त्वब्रवीत्तत्र यज्ञसंपत्समृद्धये ॥ रावणं राक्षसश्रेष्ठं द्विजश्रेष्ठो महातपाः ॥ ६ ॥ अहमाख्यामि ते राजञ्छ्रूयतां सर्वमेव तत् || यज्ञास्ते सप्त पुत्रेण प्राप्ताः सुबहुविस्तराः ॥ ७ ॥ अग्निष्टोमोश्वमेधश्च यज्ञो बहुसुवर्णकः ॥ राजसूयस्तथा यज्ञो गोमेधो वैष्णवस्तथा ॥ ८ ॥ माहेश्वरे प्रवृत्ते तु यज्ञे पुंभि: सुदुर्लभे || वस्ते लब्धवान्पुत्रः साक्षात्पशुपतेरह ॥ ९ ॥ कामगं स्यन्दनं दिव्यमन्तरिक्षचरं ध्रुवम् || मायां च तामसीं नाम यया संपद्यते तमः ॥ १० ॥ एतया किल संग्रामे मायया राक्षसेश्वर || प्रेयुक्तया गतिः शक्या न हि ज्ञातुं सुरासुरैः ॥ ११ ॥ अक्षयाविषुधी वाणैचापं चापि सुदुर्जयम् || अस्त्रं च बलवद्राजञ्शत्रुविध्वंसनं रणे ॥ १२ ॥ एतान्सर्वान्वरॉलब्ध्वा पुत्रस्तेऽयं दशानन || अद्य यज्ञसमाप्तौ च त्वां दिक्षुः स्थितो ह्यहम् ॥ १३॥ ततोऽब्रवीद्दशग्रीवो न शोभनमिदं कृतम् || पूजिताः शत्रवो याद्रव्यैरिन्द्रपुरोगमाः ॥ १४ ॥ एहीदानीं कृतं विद्धि सुकृतं तन्त्र संशयः ॥ आगच्छ सौम्य गच्छाम स्वमेव भवनं प्रति ॥ १५ ॥ निकुम्भिला नाम लङ्कायाः पश्चिमद्वारवर्ति काननं | सूचितं । न तु ब्रह्मचर्याश्रमः | अग्निष्टोमादियाजिवं ||२|| चैत्यं देवायतनं | विष्ठितं प्रवृत्तं ||३|| कमण्डलुः ध्यात्वोपदेशात् ||४-५ || उशना गुरुः शुक्राचार्यः । शिखा दण्डो ध्वजश्च यस्य स तथा । अनेन ब्रह्मचर्य प्रवर्तकत्वात् स्वयमत्रवीदिति भावः ॥ ६ ॥ यज्ञाः ति० निकुंभिला लङ्कापश्चिमद्वारदेश वर्तिकर्म सिद्धि हेतुभूतंकाननं ॥ २ ॥ ति० कमण्डलुः शिखाध्वजोदण्डश्चयस्यतं । अर्श - आद्यजन्तं । दण्डकमण्डलुयुक्तमित्यर्थः । स० कमण्डलुः शिखा शिफा दण्डइतियावत् । कमण्डलुशिखे ध्वजे चिह्नेयस्यसतं । ' शिखाशिफायां ' ' ध्वजंचिह्ने ' इतिविश्वः ॥ ४ ॥ स० किमिदमुद्दिश्यवर्तसे वर्तयसीतिवा ॥ ५ ॥ स० उशनात्वब्रवीत् तस्य- मानवेनमौनित्वात् । वागुत्सर्जनस्य संपत्समृद्धिविघातकत्वान्मौनं ॥ ६ ॥ ति० पशुपतेः रुद्रात् । स० साक्षादितिदुर्वासआदि- व्यावृत्तिः । मूलरूपात् ॥ ९ ॥ स० कामगं भूमौकियत्पर्यन्तं गन्तव्य मितीच्छा तदनुसारिंगमनं अन्तरिक्षचरंचेतिदिव्यं । ताम- सींनाममायांच | अन्वर्धकं नामेत्याह-ययासंपद्यतेतमइति ॥ १० ॥ स० गतिः प्रयोक्तः ॥ ११ ॥ ति० पुत्रोऽहंचत्वांदिदृक्ष- स्थितः ॥ १३ ॥ ति० नशोभनंकृतमित्यत्र हेतुः- पूजिताइति । तपसैवब्रह्मादयोदेवास्तोषणीयाः नविन्द्रादिप्रीणनोपेतयागे• नेतिभावः ॥ १४ ॥ स० यत्कृतं तद्धिसुकृतं । अतीतकार्येनेतिवक्त मशक्यत्वात् । निकुंभिलावस्थानासंमतिः सुसंमतिश्चभवन- गम नेइति चोभयत्रदार्ढ्यसूचनार्थं एह्यागच्छेत्युक्ति: । हेइन्द्रएहीत्यादिकंयत्कृतं तत्सुकृतमितिवा ॥ आ इहि यज । वीगतिप्रज- [पा० ] १ ङ. च. छ. झ ञ ट प्राप्तास्तेबहु. २ ग. घ. च. छ. ट. प्रयुक्तस्य क. प्रयुद्धस्य ३ ग घ. ज. अखंच बलवत्सौम्य, ख. अस्त्राणि विविधान्ये वशत्रुविध्वंसनानिवै. ४ झ. न. ट. दिदृक्षन्स्थितोय हं.