पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

li सर्गः २४ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । सा वाप्पपरिरुद्धाक्षी रक्ताक्षी वाक्यमत्रवीत् ॥ कृतासि विधवा राजंस्त्वया वलवता बलात् ||२६|| एते राजंस्त्वया वीरा दैत्या विनिहता रणे || कालकेया इति ख्याताः सहस्राणि चतुर्दश ॥ २७ ॥ प्राणेभ्योपि गरीयान्मे तत्र भर्ता महाबलः ॥ सोपि त्वया हतस्तात रिपुणा भ्रातृगृभुना ॥ २८ ॥ त्वयाऽसि निहता राजन्स्वयमेव हि बन्धुना ॥ राजन्वैधव्यशब्दं च भोक्ष्यामि त्वत्कृते ह्यहम् ॥ २९॥ ननु नाम त्वया रक्ष्यो जामाता समरेष्वपि ॥ स त्वया निहतो युद्धे स्वयमेव न लज्जसे ॥ ३० ॥ एवमुक्तो दशग्रीवो अगिन्या क्रोशमानया || अब्रवीत्सान्त्वयित्वा तां सामपूर्वमिदं वचः ॥ ३१ ॥ अलं वत्से रुदित्वा ते न येतव्यं च सर्वशः || दानमानप्रसादैस्त्वां तोषयिष्यामि यत्नतः ॥ ३२ ॥ युद्धप्रमत्तो व्याक्षिप्तो जयकाङ्क्षी क्षिपञ्छन् || नावगच्छामि युद्धेषु खान्परान्चाप्यहं शुभे ||३३|| जामातरं न जाने स प्रहरन्युद्धदुर्मदः ॥ तेनासौ निहतः संख्ये मया भर्ता तव स्वसः ॥ ३४ ॥ अस्मिन्काले तु यत्प्राप्तं तत्करिष्यामि ते हितम् ॥ भ्रातुरैश्वर्ययुक्तस्य खरस्य वस पार्श्वतः ॥ ३५ ॥ चतुर्दशानां आता ते सहस्राणां भविष्यति ॥ प्रभुः प्रयाणे दाने च राक्षसानां महाबलः ॥ ३६॥ तत्र मातृष्व सेयर भ्राताऽयं वै खरः प्रभुः || भविष्यति तवादेशं सदा कुर्वन्निशाचरः ॥ ३७ ॥ शीघ्रं गच्छत्वयं वीरो दण्डकान्परिरक्षितुम् || दूपणोस्य बलाध्यक्षो भविष्यति महाबलः ॥ ३८ ॥ [ से हि शप्तो वनोद्देशः क्रुद्धेनोशनसा पुरा ॥ राक्षसानामधीवासो भविष्यति महात्मनाम् ] ॥३९॥ तत्र ते वचनं शूरः करिष्यति सदा खरः ॥ रक्षसां कामरूपाणां प्रभुरेप भविष्यति ॥ ४० ॥ • एवमुक्त्वा दशग्रीवः सैन्यमस्यादिदेश ह || चतुर्दश सहस्राणि रक्षसां वीर्यशालिनाम् ॥ ४१ ॥ स तैः परिवृतः सर्वे राक्षसैघरदर्शनैः ॥ अगच्छत खरः शीघ्रं दण्डकानकुतोभयः ॥ ४२ ॥ स तत्र कारयामास राज्यं निहतकण्टकम् || सा च सूर्पणखा तत्र न्यवसद्दण्डकावने ॥ ४३ ॥ इत्यार्पे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे चतुर्विंशः सर्गः ॥ २४ ॥ ७७ परकीयासु ॥ २०-२८ ॥ यतो मे भर्ता हतः || ३५ || चतुर्दशानां सहस्राणां प्रयाणे प्रेषणे दाने अतएव साहं स्वयं स्वबन्धुनैव त्वया निहतास्मि | अन्नपानवस्त्रादिदाने प्रभुस्ते भ्रातेत्यन्वयः । भविष्य - ॥ २९ ॥ नन्विति पृथक् पदं । जामाता नाम समरे- तीति । तवादेशं त्वद्वचः सदा कुर्वन्भविष्यति ध्वपि रक्ष्यो ननु नेति काकु: । रक्ष्य एव किलेत्यर्थः ॥ ३०–३४ ।। अस्मिन्काले तु यत्प्राप्तं मत्कर्तव्यत्वे- | ॥ ३६-४३ ॥ इति श्रीगोविन्दराजविरचिते श्रीम- नेति शेषः । मातृष्वसेयस्य खरस्य भ्रातृत्वात् भ्रातु- द्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्या रित्युच्यते । पार्श्वतो वनसमीपे वसेत्यर्थः । मम तु ख्याने चतुर्विंशः सर्गः ॥ २४ ॥ राज्यपरवशस्य न त्वत्संमानने अवकाश इति भावः ८ , स० शोकातिशथाद्वाजन्नितिद्विरुक्तिः । ' परिहासप्रलापादिष्वनर्थावागपीष्यते ' इत्यादेः ॥ २७ ॥ स० गन्धोऽहङ्कारोस्यास्ती - तिसतथा । भ्रातृषुगन्धीसचासौगन्धीतिवा । बन्धुना तदपदेशेन ॥ २८ ॥ ति० नभेतव्यंचसर्वशः वान्धवादिभ्योपिमाभै- षीः । स्खैरंचरेत्यर्थइतितीर्थः ॥ ३२ ॥ स० व्याक्षिप्तः चलच्चित्तः ॥ ३३ ॥ इतिचतुर्विंशः सर्गः ॥ २४ ॥ [ पा० ] १ ख ग घ. ख्यातामहाबलपराक्रमाः २ अयंश्लोकः घ. च. छ. ज. पाठेषुदृश्यते.