पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकि रामायणम् । [ उत्तरकाण्डम् ७ नागगन्धर्वकन्याश्च महर्षितनयाश्च याः || दैत्यदानवकन्याथ विमाने शतशोऽरुदन् ॥ ६ ॥ दीर्घकेश्यः सुचार्वज्यः पूर्णचन्द्रनिभाननाः || पीनस्तन्यस्तथा वज्रवेदिमध्यसमप्रभाः ॥ ७ ॥ रथक्कूबर संकाशैः श्रोणिदेशैर्मनोहराः || स्त्रियः सुराङ्गनाप्रख्या निष्टप्तकनकप्रभाः || शोकदुःखभयत्रस्ता विह्वलाश्च सुमध्यमाः ॥ ८ ॥ तासां निश्वासवातेन सर्वतः संप्रदीपितम् || अग्निहोत्रमिवाभाति सन्निरुद्धानि पुष्पकम् ॥ ९ ॥ दशग्रीववशं प्राप्तास्तास्तु शोकाकुलाः स्त्रियः || दीनवकेक्षणा: श्यामा मृग्य: सिंहवशा इव ||१०|| काचिच्चिन्तयती तत्र किं नु मां भक्षयिष्यति ॥ काचिद्दथ्यौ सुदुःखार्ता अपि मां मारयेदयम् ॥ ११ ॥ इति मातृपितृस्मृत्वा भर्तन्तुंस्तथैव च ॥ दुःखशोकसमाविष्टा विलेषुः सहिताः स्त्रियः ॥ १२ ॥ कथं नु खलु मे पुत्रो भविष्यति मया विना || कथं माता कथं भ्राता निमग्नाः शोकसागरे ॥१३॥ हा कथं नु करिष्यामि भर्तुस्तस्मादहं विना ॥ मृत्यो प्रसादयामि त्वां नय मां दुःखभागिनीम् ॥ १४ ॥ किंतु तद्दुष्कृतं कर्म पुरा देहान्तरे कृतम् ॥ एवं स्म दुःखिताः सर्वाः पतिताः शोकसागरे ॥ १५ ॥ नखल्विदानीं पश्यामो दुःखस्यास्यान्तमात्मनः ॥ अहो धिड्यानुषं लोकं नास्ति खल्वधमः परः||१६|| यहुर्बला बलवता भर्तारो रावणेन नः ॥ सूर्येणोदयता काले नक्षत्राणीव नाशिताः ॥ १७॥ अहो सुबलवद्रक्षो वधोपायेषु युज्यते || अहो दुर्वृत्तमा स्थाय नात्मानं वै जुगुप्सते ॥ १८ ॥ सर्वथा सशस्तावद्विक्रमो दुरात्मनः ॥ इदं त्वसदृशं कर्म परदाराभिमर्शनम् ॥ १९ ॥ यस्मादेष परक्यासु रमते राक्षसाधमः ॥ तसाह्रै स्त्रीकृतेनैव प्राप्स्यते दुर्मतिर्वधम् ॥ २० ॥ सतीभिर्वरनारीभिरेवं वाक्येऽभ्युदीरिते || नेदुर्दुन्दुभयः खस्थाः पुष्पवृष्टिः पपात च ॥ २१ ॥ शप्तः स्त्रीभिः स तु समं हतौजा इव निष्प्रभः || पतिव्रताभिः साध्वीभिर्बभूव विमना इव ||२२|| एवं विलपितं तासां शृण्वत्राक्षसपुङ्गवः || प्रविवेश पुरीं लङ्कां पूज्यमानो निशाचरैः ॥ २३ ॥ एतस्मिन्नन्तरे घोरा राक्षसी कामरूपिणी ॥ सहसा पतिता भूमौ भगिनी रावणवसा ॥ २४ ॥ तां स्वसारं समुत्थाप्य रावणः परिसान्त्वयन् || अब्रवीत्किमिदं भद्रे वक्तुकामाऽसि मे द्रुतम् ॥ २५॥ ॥५-८|| सन्निरुद्धा अग्नयो यस्मिंस्तादृशं अग्निहोत्रं | अग्निकुण्डमिव पुष्पकं भाति ॥ ९ - १९॥ परक्यासु 1 एककालावच्छेदेनमुमुचुः ॥ ४ ॥ ति० वज्रयुतावेदिर्वज्रवेदिः । तन्मध्यसमप्रभाःमध्यभागेइतिभावः । यद्वा वज्रतुल्यवर्णावेदिः पीतवर्णाभ्रमरिका । अतिसूक्ष्म कटिषद विशेषः तन्मभ्येत्यादिरर्थः ॥ स० वज्रवेदिः वज्रयुतावेदिः अग्निवेदिका तत्समप्रभाः । वज्रात्मिकावेदिरङ्गुलिमुद्रा । मध्येतत्समप्रभा अतिसूक्ष्मकटितटयः | 'वेदिरङ्गुलिमुद्रायां ' इतिविश्वः ॥ शि० मध्ये स्तनयो- रन्तरालेवज्रवेदिसमाप्रभायासांताः ॥ ७ ॥ स० शोकोबहिर्दृश्यः | दुःखं आन्तरंच | तेचतेभये घोरेच । शोकदुःखभयाभ्यां त्रस्ताः । ‘ भयंप्रतिभयेधोरे' इतिविश्वः ॥ ८ ॥ सर्वतः सर्वे | संप्रदीपितं तद्वदभूत् ॥ ९ ॥ स० श्यामाः षोडशवर्षवयस्यः ॥ १० ॥ चिन्तयती चिन्तयन्ती | बभूवेतिशेषः ॥ ११ ॥ स० पुत्रः सुतः । यद्वा अपुत्रः पुत्रभिन्नः पुत्रसदृशोदेवरः । मया- 'विनाभविष्यतिजीविष्यति । कथंनु । एवं व्याख्यानेकन्येत्युक्तिःश्यामाइत्युक्तिश्चसमजसीभविष्यतः | रावणस्याप्रसूतवनितासमान- यनेनपरीक्षकतास्फुटीभविष्यति ॥ १३ ॥ ति० तस्माद्भर्तुर्विनाकृताऽहं कथंनुकरिष्यामि एतदानुकूल्यमितिशेषः ॥ १४ ॥ स० देहान्तरेकिंनुकर्मकृतं । तद्दुष्कृतं तस्यरावणस्यदुष्कृतं हरणादिकंप्राप्तं ॥ १५ ॥ ति० नास्त्यधमः परः | मानुषाल्लोकादिति शेषः ॥ १६ ॥ तत्रैवहेतुः—यहुर्बलाइति ॥ १७ ॥ ति० वधोपायेषु वधसंपादकेषूपायेषुशस्त्रघातादिषु ॥ स० वधोपायेषु हननहेतुषु । रज्यते आसज्जते | जुगुप्सते निन्दति ॥ १८ ॥ अस्यविक्रमः सर्वथासदृशोयोग्यः | तपस्संपादितभगवत्प्रसादस्ये- तिशेषः ॥ शि० अस्यदुरात्मनोविक्रमः सदृशः कुलोचितः | परदाराभिमर्शनंकमंतु असदृशं ॥ १९ ॥ स० वचनाननृतीभवन- हेतुः — सतीभिरिति ॥ २१ ॥ स० भद्रइतिसंबोधनेन नबोधस्तत्पतिर्मृतइत्यस्येतिज्ञायते ॥ २५ ॥ [ पा० ] १ ग. घ. ज. भर्तारंदैवतंविना २ झ ठ. रज्यते.