पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्ग: २४ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । शयानः पुरुषः कैथिदैत्यदानवदर्पहा || रामस्य वचनं श्रुत्वा ह्यगस्त्यो वाक्यमब्रवीत् ॥ ६३ ॥ श्रूयतामभिधास्यामि देवदेवः सनातनः ॥ भगवान्कपिलो राम द्वीपस्थो नर उच्यते ॥ ६४ ॥ स वै नारायणो देवः शङ्खचक्रगदाधरः || विधाता चैव भूतानां संहर्ता च तथैव च ॥ अनादिरच्युतो विष्णुः प्रभवः शाश्वतोऽव्ययः || ६५ ॥ ये तु नृत्यन्ति वै तत्र सुरास्ते तस्य धीमतः ॥ तुल्यतेज:प्रतापास्ते कपिलस्य नरस्य वै ॥ ६६ ॥ नौतिक्रुद्धेन दृष्टस्तु राक्षसः पापनिश्चयः ॥ न बभूव तंतो राम भासाद्रावणः प्रभो ॥ ६७ ॥ भिनगात्रो नगप्रख्यो रावणः पतितो भुवि ॥ वाक्छरैस्तं बिभेदाशु रहस्यं पिशुनो यथा ॥ ६८ ॥ अथ दीर्घेण कालेन लब्धसंज्ञः स राक्षस: आजगाम हतौजास्तु यत्र ते सचिवाः स्थिताः || तैरेव सहितो. लङ्कां जगामाशु दशाननः ॥ ६९ ॥ श्रुत्वैतद्वचनं सर्वमाश्चर्यमिति राघवः || पूज्यमानाः स्थितास्तत्र ये रामस्य समीपतः ॥ आश्चर्यमिति तत्प्रादुर्वानरा राक्षसैः सह ॥ ७० ॥ विभीषणस्तु रामस्य पार्श्वस्थो वाक्यमब्रवीत् || आचर्य सारितोस्म्यद्य यत्तद्वृत्तं पुरातनम् ॥ ७१ ॥ अथागस्त्योऽब्रवीत्सर्वमेतद्राम श्रुतं त्वया ॥ हृष्टाः सभाजिताश्चापि राम यास्यामहे वयम् ॥ ७२ ॥ तस्य तद्वचनं श्रुत्वा रामो रमयतां वरः ॥ ७३ || इत्यार्पे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अधिकपाठे पञ्चमः सर्गः ॥ ५ ॥ ७५ चतुर्विंशः सर्गः ॥ २४ ॥ दिग्जयार्थंगतेनरावणेन तन्त्रतत्ररमणीयतरतरुणीगणस्यबलादपहरणेन पुष्पकारोपणे साध्वीभिस्ताभिस्तंप्रति नारीहेतुक- वधप्राप्तिकारकशापदानम् ॥ १ ॥ ततस्ताभिः सहैवलङ्कांप्रविष्टेरावणे शूर्पणखया तंप्रति स्वरमणमारणरूप दोषाविष्करणेन सगर्हणंरोदनम् ॥ २ ॥ रावणेनतांप्रति तन्मारणस्यप्रामादिकत्वोक्त्यापरिसान्त्वनपूर्वकं दानमानादिभिस्तत्परितोषणप्रति- ज्ञानेन तदर्थं चतुर्दशसदस्र संख्याकराक्षसैटूंपणेन शूर्पणखयाचसह दण्डकारण्यंप्रति खरस्यप्रेषणम् ॥ ३ ॥ निवर्तमानः संहृष्टो रावणः सुदुरात्मवान् ॥ जहे पथि नरेन्द्रर्पिदेवगन्धर्वकन्यकाः ॥ १ ॥ दर्शनीयां हि रक्षः स कन्यां स्त्रीं वाऽथ पश्यति ॥ हत्वा बन्धुजनं तस्या विमाने तां रुरोध ह ||२|| एवं पन्नगकन्याश्च राक्षसासुरमानुपी: || यक्षदानवकन्याश्च विमाने सोध्यरोपयत् ॥ ३ ॥ ताच सर्वा: समं दुःखान्मुमुचुर्वाप्पजं जलम् || तुल्यमभ्यर्चिषां तत्र शोकाग्निभयसंभवम् ॥ ४ ॥ ताभिः सर्वानवद्याभिर्नदीभिरिव सागरः || आपूरितं विमानं तद्भयशोकाशिवाथुभिः ॥ ५ ॥ रक्षः स इति संबन्धः । कन्या अनूढा | स्त्री सभर्तृका | ॥ २–४ ॥ भयशोकाभ्यां अशिवमनु यासां ताभिः स्वराः वायवः ॥ — प्राणःस्वरः ' इति – वायुःप्राणशरीरगः । ' स्वेविष्णुंरमयत्येनंजीवंतस्मात्स्वरः स्मृतः इतिच्छान्दोग्यो- पनिषद्भाष्योक्तेः ॥ ६६ ॥ भस्मसात् तदधीनः ॥ ६८ ॥ इति पञ्चसर्गीप्रक्षिप्तेतिबहवः । बहुपुस्तकसंपुटीषुदृश्य तेसे तिव्याख्याते. तिमन्तव्यं ॥ इतिसत्यधर्म तीर्थी ये प्रक्षिप्त सर्गव्याख्यानेपञ्चमस्सर्गः ॥ ५ ॥ स० समं मिलिताः । शोकाग्निभयसंभवं काकनयननयेनाग्निपदमुभयान्वयि ॥ शोकाग्निः स्वजनहननप्रयुक्तशोकवह्निः। भयाग्निः कदा किं करिष्यतिदुरात्मेतिभयाग्निश्च | तत्संभवंसमानाधिकरणं बाष्पजंजलं । अभ्यर्चिषां अग्यचिंर्मि: | शि० बाष्पजंजलं समं [पा०] १ झ ठ. कोसौदैत्य. २ झ . ठ. देवदेवसनातन ३ झ. ठ. खरास्ते ४ झ. ठ. तुल्यतेजःप्रभावास्ते. ५ झ. ठ नासौक्रुद्धेन. ६ झ. ठ. तदातेनभस्मसाद्रामरावणः ७ झ. ठ. खिन्नगात्रो. ८ झ. ठ. महातेजायत्र.