पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वारमीकिरामायणम् । लक्ष्मीहिः सपद्मा वै आजन्ती लोकसुन्दरी ॥ ४२ ॥ ब्र॑हृष्टः स तु लङ्केशो दृष्ट्वा तां चारुहासिनीम् || जिघृक्षुः स तदा साध्वीं सिंहासनमुपाश्रिताम् ४३ विना तु सचिवैस्तत्र रावणो दुर्मतिस्तदा ॥ हँस्तैर्ग्रहीतुं तामैच्छन्मन्मथेन वशीकृतः ॥ सुतमाशीविषं यद्वद्रावणः कालचोदितः ॥ ४४ ॥ अथ सुप्तो महाबाहुः पावकेनावकुण्ठितः || ग्रहीतुकामं तं ज्ञात्वा व्यपविष्य पटं तदा || जहासोचैर्भृशं देवस्तं दृष्ट्वा राक्षसाधिपम् ॥ ४५ ॥ तेजसा तस्य संदीप्तो रावणो लोकरावणः ॥ घ्राणवातेन दीर्घेण तस्मिन्राम रसातले ॥ ७४ [ उत्तरकाण्डम् ७ कृत्तमूलो यथा शाखी निपपात महीतले ॥ ४६ ॥ पतित राक्षसं ज्ञात्वा वचनं चेदमब्रवीत् ॥ उत्तिष्ठ राक्षसश्रेष्ठ मृत्युस्ते नाद्य विद्यते ॥ ४७ ॥ प्रजापतिवरो रँक्ष्यो येन जीवसि रावण ॥ गच्छ रावण विन्धं नात्र वै मरणं तव ॥ ४८ ॥ लब्धंसंज्ञो मुहूर्तेन राक्षसो भीमविक्रमः ॥ तं तु दृष्ट्वा महात्मानं रावणो भयमाप सः ॥ ४९ ॥ एवमुक्तस्तदोत्थाय रावणो देवकण्टकः || रोमहर्षणमापन्नो ह्यब्रवीत्तं महामुनिम् ॥ ५० ॥ को भैवाञ्छौर्यसंपन्नो युगान्तानलसन्निभः || ब्रूहि त्वं देवदेवो वा सर्वदेहेषु सुस्थितः ॥ ५१ ॥ ऍवमुक्तः स तेनाथ रावणेन दुरात्मना || प्रत्युवाच हसन्देवो मेघगम्भीरया गिरा || किं त्वं मया दशग्रीव वध्योसि नॅचिरादिह || ५२ ।। एवमुक्तो दशग्रीवः प्राञ्जलिर्वाक्यमब्रवीत् || प्रजापतेस्तु वचनान्नाहं मृत्युवशं गतः ॥ ५३ ॥ स न जातो जनिष्यो वा मैतुल्यो वा सुरेष्वपि ॥ प्रजापतिवरं यो हि लङ्घयेद्वीर्यमाश्रितः ॥ ५४ ॥ न तत्र परिहारोस्ति प्रयत्नश्चापि दुर्लभः || त्रैलोक्ये तं न पश्यामि यस्ततकुर्याद्वरं वृथा ॥ ५५ ॥ अंमरो वा सुरश्रेष्ठ तेन मां नाविशद्भयम् || अथापि च भवेन्मृत्युंस्त्वत्तो मे नान्यतः प्रभो ॥५६॥ यशस्यं श्लाघनीयं च त्वैत्तो मे मरणं त्विदम् ॥ ५७ ॥ ॲथापश्यत्तस्य गात्रे रावणो भीमविक्रमः || देवदेवस्य सकलं त्रैलोक्यं सचराचरम् ॥ ५८ ॥ आदित्या वसवो रुद्रा मरुतोथाश्विनावपि || सिद्धाश्च पितरश्चैव यमो वैश्रवणस्तथा ॥ समुद्रा गिरयो नद्यो विद्या वेदास्त्रयोऽमयः ॥ ५९ ॥ ग्रहास्तारागणा व्योम साँध्या गन्धर्वचारणाः ॥ महर्षयो वेदविदो गरुडोथ भुजङ्गमाः ॥ ६० ॥ ये " चान्ये संस्थिता देवा दैत्यदानवराक्षसाः || गात्रेषु शयनस्थस्य दृश्यन्ते सूक्ष्ममूर्तयः ॥ ६१ ॥ आह रामोथ धर्मात्मा ह्यगस्त्यं मुनिसत्तमम् ॥ द्वीपस्थः पुरुषः कोसौ तिस्रः कोट्यैश्च ताश्च काः||६२ || रक्षेन्द्रः राक्षसेन्द्रः ॥ ४३ ॥ रक्ष्यः मया ॥ ४८ ॥ मम मया रामरूपेण ॥ ५२ ॥ [ पा० ] १ झ. ठ. लक्ष्मीर्देवीसपद्मावभ्राजतेलोक. २ झ. उ. प्रविष्टस्सतुरक्षेन्द्रो. ३ झ. उ. सिंहासनसमास्थितां. ४ झ. ठ. विनापि ५ झ. ठ हस्तेमहीतुमन्विच्छन्. ६ झ. ठ तेजसासहसादीप्तो. ७ झ. उ. रक्ष्यस्तेनजीवसिराक्षस. ८ झ. ठ. विस्रब्धोनाधुनामरणं. ९ अस्यश्लोकस्यप्रतिनिधितया लब्धसंज्ञोमुहूर्तेनरावणोभयमाविशदित्यर्धे झ. ठ. पाठयोर्दृश्यते. १० झ. ठ. महातिं. ११ झ ठ. भवान्वीर्यसंपन्नो १२ झ ठ. ब्रूहिवंको भवान्देवकुतो भूत्वाव्यवस्थितः १३ झ. ठ एवमुक्तस्ततोदेवो १४ झ. ठ किंते. १५ झ. ठ. नचिरान्मम १६झ ठ. मृत्युपथंगतः १७ झ. ठ. ममतुल्य:सुरेष्वपि. १८ झ. ठ. दुर्बल: १९ झठ योमेकुर्याद्वरं . २० झ. ठ. अमरोहं. २१ झ. ठ. स्त्वद्धस्तान्नान्यतः २२ झ ठ. स्त्वद्धस्तान्मरणं मम. २३ झ. ठ. अथास्यगात्रेसंपश्यद्रावणो २४ झ. ठ तस्यदेवस्य २५ झ. ठ आदित्यामरुतःसाध्यावसवोथाश्विनावपि. २६ झ. ठं. रुद्राञ्चपितरश्चैव. २७ झ. ठ. सिद्धागन्धर्व २८ झ. ठ. येचान्येदेवतासंघाः संस्थितादैत्यराक्षसाः २९ झ. ठ कोव्यस्तुकाश्चताः.