पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७० श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ अत ऊर्ध्वं प्रवक्ष्यामि चन्द्रमा यत्र तिष्ठति ॥ १४ ॥ अशीतिं तु सहस्राणि योजनानां तथोपरि || चन्द्रमास्तिष्ठते यत्र ग्रहनक्षत्रसंयुतः ॥ १५ ॥ शतं शतसहस्राणि रश्मयश्चन्द्रमण्डलात् || प्रकाशयन्ति लोकांस्तु सर्वसत्वसुखावहाः ॥ १६ ॥ ततो दृष्ट्वा दशग्रीवं चन्द्रमा निर्दहन्निष || स तु शीताग्निना शीघ्रं प्रादहद्रावणं तदा ॥ १७ ॥ नासहंस्तस्य सचिवाः शीतानं भयपीडिताः ॥ रावणं जयशब्देन ग्रहस्तो वाक्यमब्रवीत् ॥ १८ ॥ राजञ्जीतेन बाध्यामो निवर्ताम इतो वयम् || चन्द्ररश्मिप्रतापेन रक्षसां भयमाविशत् ॥ १९ ॥ स्वभासा ह्येष राजेन्द्र शीतांशुर्दहनात्मकः || २० || एतच्छ्रुत्वा प्रहस्तस्य रावणः क्रोधमूच्छितः ॥ विस्फार्य धनुरुद्यम्य नाराचैस्तं ह्यपीडयत् ॥ २१ ॥ अथ ब्रह्मा समागम्य चन्द्रलोकं त्वरान्वितः || दशग्रीव महावाहो साक्षाद्विश्रवसः सुत || गच्छ शीघ्रमितः सौम्य मा चन्द्रं पीडयाशुगैः ॥ २२ ॥ लोकस्य हितकामोऽयं द्विजराजो महाद्युतिः ॥ मत्रं च ते प्रदास्यामि प्राणात्ययमयेऽभयम् ॥२३॥ यस्त्विमं संस्मरेन्मत्रं न स मृत्युमवाप्नुयात् ॥ एवमुक्तो दशग्रीवः प्राञ्जलिर्वाक्यमब्रवीत् ॥ २४ ॥ यदि तुष्टोसि मे देव अनुग्राह्यो यदि ह्यहम् || यदि मन्त्रेश्वरो देयो दीयतां मम धार्मिक ॥ २५ ॥ यं जवाऽहं महाभाग सर्वदेवेषु निर्भयः ॥ अमरेषु च सर्वेषु दानवेषु पतत्रिषु || त्वत्प्रसादात्तु देवेश न भयं विद्यते मम ॥ २६ ॥ एवमुक्तो दशग्रीवं ब्रह्मा वचनमब्रवीत् || प्राणात्यये तु वै दमि न नित्यं राक्षसाधिप ॥ २७ ॥ अक्षसूत्रं गृहीत्वा तु जपेन्मन्त्रमिमं शुभम् ॥ जत्वा तु राक्षसपते त्वमजेयो भविष्यसि ।। अजवा राक्षसश्रेष्ठ न ते सिद्धिर्भविष्यति ॥ २८ ॥ शृणु मन्त्रं प्रवक्ष्यामि येन राक्षसपुङ्गव || मन्त्रस्य कीर्तनादेव प्राप्स्य से समरे जयम् ॥ २९ ॥ नमस्ते देवदेवेश सुरासुरनमस्कृत ॥ भूतभव्यमहादेव हर पिङ्गललोचन ॥ ३० ॥ बालस्त्वं वृद्धरूपी च वैयाघ्रवसनच्छद || आरुणेयोसि देव त्वं त्रैलोक्यप्रभुरीश्वरः ॥ ३१ ॥ हरो हॅरित नेमिस्त्वं युगान्तदहनोऽनलः ॥ गणेशो लोकशम्भुव लोकपालो महाभुजः ॥ ३२ ॥ महादेवो महाशूली महादंष्ट्रो महाभुजः || कालश्च कालरूपी च नीलग्रीवो महोदरः ॥ ३३ ॥ वेदान्तगो वेदमयः पशूनांपतिरव्ययः ॥ शूलधृच्छूलकेतुच नेता गोप्ता हरिः शिवः ॥ ३४ ॥ जटी मुण्डी शिखण्डी च लगुडी च महायशाः ॥ भूतेश्वरो गणाध्यक्षः सर्वात्मा सर्वभावनः ॥३५॥ सर्वदः सर्वहारी च स्रष्टा च गुरुरव्ययः || कमण्डलुधरो देवः पिनाकी धूर्जटिस्तथा ॥ ३६॥ योजनानां प्रमाणतः अशीतिंसहस्राणि अशीतिसाहस्री | तिष्ठते तिष्ठति ॥ १५ ॥ सर्वसत्त्वानि सर्वप्राणिनः ॥ १६ ॥ शीता- मिना शीतत्वेपिविरहिणा मिव वैरिणांतापकृदितिसमताऽग्निनाज्ञेया ॥ १७ ॥ नासहन् गतं । राजन्जये तिशब्दोजयशब्दस्तेन ॥ १८ ॥ निवर्तामः निवर्तामहे ॥ १९ ॥ शीतांशुरपिदहनात्मक इत्येषचन्द्रस्यस्वभावः ॥ २० ॥ द्विजराजः ब्राह्मणाधिपतिः | 'सोमोस्माकं ब्राह्मणानांराजा' इतिश्रुतेः । यदाप्राणात्ययगतिः अवसानसमयः ॥ ३३ ॥ देवेषु देवेभ्यः त्वत्प्रसादात् एतत्कालि- कात् ॥ २६ ॥ प्राणात्ययेषु तत्तत्सदृशानुसङ्कटेषु ॥ २७ ॥ अक्षसूत्रं कमलाक्षमालां ॥ २८ ॥ जत्वायेनसिद्धिर्भविष्यतितंम शृणु। कीर्तनात् जपपूर्वकं मन्दमुच्चारात् ॥ २९ ॥ नमस्तइति मन्त्र प्रारंभः । वैयाघ्रवसनच्छद वैयाघ्रंव्याघ्रचर्म | तदेववसनमंशुकं । तेनछाद्यतेसतथा ॥ ३१ ॥ हरितनेमीदूर्वालङ्कृततपोगर्तवान् । 'नेमिः कीलेऽवधौगर्ते ' इति विश्वः ॥ ३२ ॥ शिखण्डी काकपक्षी | चतुश्शि खण्डेत्यादिवच्छिखण्डशब्दोजटाजूटवाचीवा ॥ ३५ ॥ [ पा० ] १ झ. उ. प्राणाययगतिर्यदा. २ झ ठ. प्राणात्ययेषुजप्तव्योननित्यं. ३ झ. ठ. हरितनेमीच.