पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. सर्गः २३ । प्र० ४ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । ६९ तौ तु कृत्वा परां प्रीतिं नरराक्षसयोस्तदा || संप्रस्थितौ तु तौ हृष्टौ पथा येनैव चागतौ ॥ ५९ ॥ इत्यार्पे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अधिकपाठे तृतीयः सर्गः ॥ ३ ॥ प्रक्षिप्तेषु चतुर्थः सर्गः ॥ ४ ॥ मेघमण्डलायतिक्रमेणचन्द्रमण्डलसमीपंगते नरायणेन सहचरेपुप्रहस्तादिषु चान्द्रतेजस्सहमाक्षमेषु युयुत्सया चन्द्रप्रति शरगणवर्षणे ब्रह्मणातत्रसमागमनं ॥ १ || तेनराचणंप्रति चन्द्रस्यलोक हितकरस्वोक्तया तहिहिंसनात्प्रतिनिवर्सनपूर्वकं तस्मैशवनामाष्टोत्तरशतरूपमहामन्त्रोपदेशः ॥ २ ॥ गताभ्यामथ विप्राभ्यां रावणो राक्षसाधिपः ॥ दशयोजनसाहस्रं प्रथमं स मरुत्पथम् ॥ १ ॥ अत्यकामन्महातेजाः पुष्पकेण महाबलः ॥ यत्र तिष्ठन्ति संन्यस्ता हंसाः सर्वगुणान्विताः ॥ २ ॥ अत ऊर्ध्वं द्वितीयं तु गत्वा चैष मरुत्पथम् || दशयोजनसाहस्रं तद्धि वै परिगण्यते ॥ ३ ॥ तेत्र मेघाः स्थिताः सर्वे त्रिविधा नित्यसंश्रिताः ॥ आग्नेयाः पक्षजा ब्राह्मास्त्रिविधा इति संस्थिताः ॥४॥ अथ गत्वा तृतीयं तु वायोः पन्थानमुत्तमम् || नित्यं यत्र स्थिताः सिद्धाश्चारणाश्च मनखिनः ॥ दशैव तु सहस्राणि योजनानां तथैव च ॥ ५ ॥ चतुर्थ वायुमार्ग तु गतवान्रावणस्तथा || वसन्ति यत्र नित्यं वै भूताश्च सविनायकाः ॥ ६ ॥ अथ गत्वा तु वै शीघ्रं पञ्चमं वायुगोचरम् || दशैव तु सहस्राणि योजनानां तथैव च ॥ ७॥ गङ्गा यत्र सरिच्छ्रेष्ठा नागाच कुमुदादयः ॥ कुञ्जरा यत्र तिष्ठन्ति ये च मुश्चन्ति शीकरान् || गङ्गातोयेषु तिष्ठन्तः पुण्यं कुर्वन्ति सर्वशः ॥ ८ ॥ ततः करिकराष्टं वायुना लोलितं भृशम् ॥ जैलं कुञ्जेषु पतितं हिमं भवति राघव ॥ ९ ॥ ततो जगाम षष्ठं स वायुमार्ग महायुते ॥ योजनानां सहस्राणि तथैव तु स राक्षसः ।। यत्रास्ते गरुडो नित्यं ज्ञातिबान्धवसत्कृतः ॥ १० ॥ तथैव तु सहस्राणि योजनानां तथोपरि ॥ सप्तमं वायुमार्ग तु यत्र वै ऋषयः स्थिताः ॥ ११ ॥ अत ऊर्ध्वं स गत्वाऽथ सहस्राणि दशैव तु || अष्टमं वायुमार्गे तु यत्र गङ्गा प्रतिष्ठिता ॥ १२ ॥ आकाशगङ्गा विख्याता ह्यादित्यपथमास्थिता || वायुना धार्यमाणा सा महावेगा महाखना ||१३|| तौमुनी । नरराक्षसयोःप्रीतिं परस्परमनुरागं कृत्वा कारयित्वा । येनपथागतौतेनैवसंप्रस्थितौ ॥ ५९ ॥ इतिसत्यधर्मतीर्थी प्रक्षिप्तसर्गव्याख्या नेतृतीयः सर्गः ॥ ३ ॥ विप्राभ्यां पौलस्त्यगालवाभ्यां । अतऊर्ध्वहंससदनात् । प्रथमंमरुत्पथं दशयोजनसाहस्रं ॥ १ ॥ अतएवतदूर्ध्वं । अनुत्तमं अप्रथमं । द्वितीय मितियावत् तदेव तदपि । दशयोजनसाहस्रं परिगण्यते गणकैः ॥ ३ ॥ तत्र तन्मरुत्पथे | त्रिविधामेधाः संनिहिताः स्थिताः । तंप्रकारं दर्शयति — आग्नेयाइति । आमेयाः तत्संबन्धिनः | पक्षिणः पक्ष्यात्मकाः । ब्राह्माः तत्संबन्धिन इति । 'अग्निकलिभ्यांच' इतिढकू ॥ ४ ॥ तृतीयं मरुत्पथं ॥५॥ नित्यंतिष्ठन्तीति नित्यस्थाः । भूताः देवयोनिविशेषाः । सविनायकाः विनायकेनसहिताः ॥ ६ ॥ वायोर्गोचरस्तं ॥ ७ ॥ कुमुदादयः अनागा: अने महतिवाते आगतेपि अगाः पर्वततुल्याः । कुञ्जराः अन्येपिगजाः कुमुदादिनागेभ्यइतिवा ॥ ८ ॥ रविकरभ्रष्टं तत्किरणच्युतं | वायुनापेशलीकृतं सुरभित्वेनकृतं यज्जलं वर्षति तत्पुण्यं पवित्रं । हिमं शीतलंपतति ॥ ९ ॥ महायुते राम | ज्ञातिबान्धवसत्कृतः ज्ञातयः एकगोत्रजाः । बान्धवाः श्वशुरादयः ॥ १० ॥ गङ्गा रूपान्तरेणतत्र | अत्रमूलरूपेणेतिज्ञेयं ॥ १२ ॥ [पा० १ झ ठ. अतऊर्ध्वतुगत्वावैमरुत्पथमनुत्तमं २ झ . ठ. तत्रसंनिहिता मेघा स्त्रि विधा नित्यशः स्थिताः | आग्नेयाः पक्षिणोब्राह्मास्त्रिविधास्तत्र तेस्थिताः ३ झ. ठ नियस्थाभूताश्च ४ झ. ठ ततोर विकरभ्रष्टंवायुनापेशलीकृतं. ५ झ. ठ जलंपुण्यं प्रपतति हिमवर्षतिराघव.