पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६८ श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ पुनर्नृपवरः क्रुद्धः पञ्चभिः प्रबिभेद तम् ॥ तोमरैः स महाघोरै: पुरा क्रौञ्चमिवाग्निजः ॥ ३५ ॥ ततो मुहुर्भ्रामयित्वा मुद्गरं वज्रसन्निभम् ॥ मुमोच सोतिवेगेन राक्षसस्य रथं प्रति ॥ ३६ ॥ स पपात महावेगो मुद्गरो वज्रसन्निभः ॥ घूर्णितो रावणस्तेन पतितः शक्रकेतुवत् ॥ ३७ ॥ तदा स नृपतिः प्रीतो हर्षोद्भूतवलो वभौ ॥ सकलेन्दुकरैः स्पृष्टं यथाम्बु लवणाम्भसः ॥ ३८ ॥ ततो रक्षोबलं सर्व महाभूतमचेतनम् || परिवार्याथ तं तस्थौ राक्षसेन्द्रं समन्ततः ॥ ३९ ॥ ततश्चिरात्समाश्वस्तो रावणो लोकरावणः ॥ मान्धातुः पीडयामास देहं लङ्केश्वरो भृशम् ॥ रथं चाश्वयुजं क्षिप्रं बभञ्ज च महाबलः ॥ ४० ॥ विरथः स रथं प्राप्य शक्ति घण्टाट्टहासिनीम् || मान्धाता विप्रचिक्षेप तां बलाद्रावणं प्रति ॥४१॥ मरीचिमिव चार्कस्य चित्रभानो: शिखा मित्र || दीप्यन्तीं रुचिराभासं मान्धातुकरनिस्सृताम् ||४२|| तामापतन्तीं शूलेन पौलस्त्यो रजनीचरः ॥ ददाह शक्तिं लङ्केशः पतङ्गमिव पावकः ॥ ४३ ॥ यमदत्तं तु नाराचं निकृष्याथ दशाननः ॥ पातयामास वेगेन स तेनाभिहतो भृशम् ॥ ४४ ॥ मूर्च्छितं नृपतिं दृष्ट्वा प्रहृष्टास्ते निशाचराः || चुक्रुशुः सिंहनादांच क्ष्वेलन्तथ निशाचराः ॥ ४५ ॥ लब्धसंज्ञो मुहूर्तेन ह्ययोध्याधिपतिस्तदा ॥ तं दृष्ट्वा शत्रुभिः शत्रुं पूज्यमानं मुदान्वितैः ॥ ४६ ॥ जातकोपो दुराधर्षश्चन्द्रार्कसदृशतिः ॥ महता शरवर्षेण पीडयन्त्राक्षसं बलम् ॥ ४७ ॥ चापस्य च निनादेन तस्य बाणरवेण च || संचचाल ततः सैन्यमुद्धूत इव सागरः ॥ ४८ ॥ तयुद्धमभवोरं नरराक्षससंकुलम् ॥ ४९ ॥ धाविष्टौ महात्मानौ नरराक्षससत्तमौ || कार्मुकासिधरौ वीरौ शरासनगतौ तथा ॥ ५० ॥ मान्धाता रावणं चैव राक्षसञ्चैव तं नृपम् || क्रोधेन महताऽऽविष्टौ शरवर्ष वैवर्षतुः ॥ ५१ ॥ तौ परस्परसंक्षोभात्प्रहारैर्जर्जरी कृतौ ॥ ५२ ॥ रावणो रौद्रमस्त्रं तु प्रायुङ्ग स महाबलः || आग्नेयेन स मान्धाता तदत्रं प्रत्यवारयत् ॥ ५३ ॥ गान्धर्वेण दशग्रीवो वारुणेन स राजराट् ॥ ५४ ॥ गृहीत्वा स तु ब्रह्मास्त्रं सर्वभूतभयावहम् || तोलयामास मान्धाता दिव्यं पाशुपतं महत् ॥ ५५ ॥ तद घोररूपं तु त्रैलोक्यमयवर्धनम् ॥ दृष्ट्वा त्रस्तानि भूतानि स्थावराणि चराणि च ॥ वरदानात्तु रुद्रस्य तँपसाऽधिगतं महत् ॥ ५६ ॥ ततः प्रकम्पितं सर्वं त्रैलोक्यं सचराचरम् || देवाः प्रकम्पिताः सर्वे लयं नागाश्च मेनिरे ॥ ५७ ॥ अथ तौ मुनिशार्दूलौ ध्यानयोगादपश्यताम् || पुलस्त्यो गालवचैव वारयामासतुर्नृपम् || उपलब्धैश्च विविधैर्वाक्यै राक्षससत्तमम् ॥ ५८ ॥ अग्निजः स्कन्दः । ‘ तंकार्तिकेयंगाङ्गेय माग्नेयंचप्रचक्षते' इत्युक्तेः ॥ ३५ ॥ सकलेन्दुकलां पौर्णमासीसंबन्धिनीं। लवणांभसः लवणसमुद्रस्य अंबुयथाऽभिवृद्धंभवति तथा ॥ ३८ ॥ अचेतनं निस्संज्ञं ॥ ३९ ॥ देहंपीडयामासआयुधैः ॥ ४० ॥ मन्त्रिभिः प्रहस्तादिभिः ॥ ४६ ॥ राक्षसं तत्संबन्धिबलं ॥ ४७ ॥ सागरोमारुतोद्धतोयथा तथा ॥ ४८ ॥ आविष्टौ परस्परसंनिकृष्टौ ॥ ५० ॥ मुमोचतुः मुमुचतुः ॥५१॥ क्षतेपुनर्विक्षतंययोस्तौ ॥ ५२ ॥ अमुञ्चत | अमुञ्चत् ॥ ५३ ॥ तपसाराधितं साधितं ॥ ५६ ॥ नागाः महाहयः गजावा ॥ ५७ ॥ पुलस्त्योगालवश्चेतिमुनिशार्दूलौ राक्षससत्तमंचवारयामासतुः । तौनुनी । राक्षससत्तमंचावारयामासतुः ॥ ५८ ॥ [ पा० ] १ झ ठ. सकलेन्दुकलांस्पृष्ट्वा २ झ ठ. दृष्ट्वातंमन्त्रिभिः शत्रुं. ३ झ. ठ. अथाविष्टौ ४ झ. ठ. मुमोचतुः ५ झ. ठ. प्रहारैःक्षतविक्षतौ ६झ ठ कार्मुकेसमाधाय रौद्रमस्त्रममुञ्चत ७ झ. ठ. तपसाराधितंमहत्.