पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः २३ । प्र० ३ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । इन्द्रस्यातिथिरेवैष ह्यथवा यत्र चेच्छति ॥ नृत्तगीतविलासैस्तु सेव्यते नरसत्तमः ॥ १४ ॥ पप्रच्छ रावणो भूयः कोयं यात्यर्कसन्निभः ॥ रावणस्य वचः श्रुत्वा पर्वतो वाक्यमब्रवीत् ॥ १५ ॥ य एष दृश्यते राजन्विमाने सर्वकाञ्चने || अप्सरोगणसंयुक्ते पूर्णेन्दुसदृशाननः ॥ १६ ॥ सुवर्णदो महाराज विचित्राभरणाम्बरः ॥ एष गच्छति शीघेण यानेन सुमहाद्युतिः ॥ १७ ॥ पर्वतस्य वचः श्रुत्वा रावणो वाक्यमब्रवीत् ॥ य एते यान्ति राजानो ब्रूहि तानृषिसत्तम् ॥ १८ ॥ कोत्र मे याचतो दद्यायुद्धातिथ्यं महाद्युतिः || क्षिप्रमाख्याहि धर्मज्ञ पिता मे त्वं हि पर्वत ॥१९॥ एवमुक्तः प्रत्युवाच रावणं पर्वतस्तदा ॥ स्वर्गार्थिनो महाराज नैते युद्धार्थनो नृपाः ॥ २० ॥ वक्ष्यामि च महाराज विचित्राभरणाम्बरः || यस्तु राजा महातेजाः सप्तद्वीपेश्वरो महान् || मान्धातेत्यभिविख्यातः स ते युद्धं प्रदास्यति ॥ २१ ॥ पर्वतस्य वचः श्रुत्वा रावणो वाक्यमब्रवीत् || कुँत्रासौ वर्तते राजा तं ममाचक्ष्व तत्त्वतः ॥ २२ ॥ अहं यास्यामि तत्राद्य यत्रासौ नरपुङ्गवः || रावणस्य वचः श्रुत्वा मुनिर्वचनमब्रवीत् ॥ २३ ॥ युवनाश्वसुतो ह्येष मान्धाता राजसत्तमः ॥ सप्तद्वीपान्समुद्रान्ताञ्जित्वाऽद्य स्वर्गमेष्यति ॥ २४ ॥ अथापश्यन्महावाहुर्विरिञ्चिवरदर्पितः || अयोध्याधिपतिं वीरं मान्धातारं नृपोत्तमम् ।। २५ ।। सप्तद्वीपाधिपं यान्तं स्यन्दनेन विराजितम् || काञ्चनेन विचित्रेण मेहाहारेण भास्वता ॥ २६ ॥ जाज्वल्यमानं रूपेण दिव्यस्रगनुलेपनम् || तमुवाच दशग्रीवो युद्धं मे दीयतामिति ॥ २७ ॥ एवमुक्तो दशग्रीवं ग्रहस्सेदमुवाच ह || यदि ते जीवितं नेष्टं ततो युध्यस्व मामिति ॥ २८ ॥ मान्धातुर्वचनं श्रुत्वा रावणो वाक्यमब्रवीत् || वरुणस्य कुबेरस्य यमस्यापि न विव्यथे || किमरे मानुषात्वत्तो रावणो भयमाविशेत् ॥ २९ ॥ एवमुक्त्वा दशग्रीवः क्रोधात्तं प्रदहन्निव || आज्ञापयामास तदा राक्षसान्युद्धदुर्मदान् ॥ ३० ॥ अथ क्रुद्धास्तु सचिवा रावणस्य दुरात्मनः ॥ ववृषुः शरवर्षाणि क्रूरा युद्धविशारदाः ॥ ३१ ॥ अथ राज्ञा बलवता कँङ्कपत्रैरजिह्मगैः ॥ इषुभिस्ताडिताः सर्वे प्रहस्तशुकसारणाः ॥ ६७ महोदविरूपाक्षमारीचाकम्पनादयः ॥ ३२ ॥ अथ ग्रहस्तो नृपतिं शरवर्षैरवाकिरत् || अप्राप्तानेव तान्सर्वान्प्रचिच्छेद नृपोत्तमः || ३३ ॥ भुशुण्डीभिश्च भल्लैश्च भिण्डिपालैश्च तोमरैः ॥ नरराजेन दह्यन्ते शलभा इव तेऽग्निना ॥ ३४ ॥ ॥ १२ ॥ समरेस्वयंबहून्हत्वाइन्द्रस्यातिथिः । यत्रगच्छति तत्रातिथिः । एतेनाने के लोकाएतादृशैःप्राप्याःसन्तीतियोतयति । यत्रगच्छति तत्रनृत्तगीत परैः सेव्यतइतिवान्वयः ॥ १४ ॥ सर्वकाञ्चने सर्वस्मिन्भागेकाञ्चनंयस्यसतथातस्मिन् ॥ १६ ॥ सुवर्णदः नाम्ना | शीघ्रण शीघ्रगेन ॥ १७ ॥ धर्मतः विश्रवस्समतपआदिधर्मतः ॥ १९ ॥ स्वर्गार्थिनः कृतयुद्धा दिसाधनास्तत्फला- र्थिनः । अतोनयुद्धार्थिनः ॥ २० ॥ तर्हिमद्भुजदण्डकण्डूतेरुपशमः कथं शंसेत्यतआशंसति-वक्ष्यामीति ॥ सते युद्धाध्वनि- विद्यमानाय । युद्धंसंप्रदास्यतीत्यन्वयः । अतःसतुसते इत्यत्रसइतिनपुनरुक्त मितिमन्तव्यं ॥ २१ ॥ तिष्ठते संमुखमह्यं । असौ कुतः कुत्र | तन्ममसमाचक्ष्व ॥ २२ ॥ इह अत्रैव ॥ २४ ॥ अथ पर्वतवचनसमनन्तरमेव ॥ २५ ॥ महेन्द्राभेण तत्पर्वत- सदृशेन ॥ २६ ॥ नेष्टं नापेक्षितं ॥ २८ ॥ यमस्यापि सकाशात् । योरावणइतिपारोक्ष्येण निर्देशोऽहङ्कारात् ॥ २९ ॥ शिला- शितैः शाणोल्लोढैः । महोदरविरूपाक्षावकंपनेतिसुगमः पाठः । विरूपायकंपनेतिपाठेमहोदरद्विकंवा विरूपाक्षद्विकंवा गृहीलाबहुव चनसंभवोऽवसेयः । पराक्रम बहुत्वादवयवबहुत्वाद्वा 'अदितिःपाशान्' इत्यत्रेवबहुवचनं । बहुवचनमाद्यर्थे । महोदरविरूपाक्षा- दयइत्यर्थ इतिवा ॥ ३२ ॥ [ पा० ] १ झ ट . धर्मतः २ झ ठ. महाभागयस्तेयुद्धंप्रदास्यति । सतुराजा. ३ झ. ठ. कुतो सौतिष्ठतेरा जातत्समाचक्ष्व सुव्रत. ४ झ. ठ. सप्तद्वीपसमुद्रान्तांजित्वेह ५ झ. ठ. महेन्द्राभेण ६झ ठ. कङ्कपत्रैः शिलाशितैः . ७ झ. ठ. महोदरवि- रूपाक्षात्य कंपनपुरोगमाः,