पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ श्रुत्वा तु सूर्यस्तद्वृत्तं दण्डिनो रावणस्य ह || उवाच वचनं श्रीमान्बुद्धिपूर्व दिवाकरः ॥ १२ ॥ गच्छ दण्डिञ्जयस्वैनं निर्जितोस्मीति वा वद || कुरु यत्ते काङ्क्षितं तं नाहं कालक्षिपां सहे ॥ १३ ॥ स गत्वा वचनात्तस्य राक्षसाय महात्मनः ॥ कथयामास तत्सर्वे सूर्योक्तं वचनं यथा ॥ १४ ॥ स श्रुत्वा वचनं तस्य दण्डिनो वै महात्मनः ॥ घोषयित्वा जगामाथ विजयं राक्षसेश्वरः ॥ १५ ॥ इत्यार्पे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अधिकपाठे द्वितीयः सर्गः ॥ २ ॥ प्रक्षिप्तेषु तृतीयः सर्गः ॥ ३ ॥ चन्द्र जिगीषयातन्मण्डलंप्रतिप्रस्थितस्परावणस्य मध्येमार्ग पर्वतमहर्षिणासमागमः ॥ १ ॥ रावणेनतंप्रत्याप्सरोभिः सह- विमानैः सहसंचरतांसुकृतिनां स्वरूपादिप्रश्ने तेनतंप्रतितस्कथनम् ॥ २ ॥ रावणेनयुद्धायप्रतियोद्धृप्रदर्शनंप्रार्थितेनपर्वतेन तंप्रतिमान्धातृप्रदर्शनं ॥ ३ ॥ रावणमान्धातृभ्यांनाना स्त्र प्रयोग पूर्वकंमहासमरप्रवर्तने अन्यतरापराजये गालवपुलस्त्याभ्यां सान्त्वनेनतयोर्युद्धप्रतिनिवर्तनम् ॥ ४ ॥ अथ संचिन्त्य पौलस्त्यः सोमलोकं जगाम ह || मेरुङ्गे वरे रम्ये रजनीमुष्य वीर्यवान् ॥ १ ॥ तदा कश्चिद्रथारूढो दिव्यत्रगनुलेपनः || अप्सरोगण मुख्येन सेव्यमानस्तु गच्छति ॥ २ ॥ रतिश्रान्तो सरोङ्गेषु चुम्बित: सन्विबुध्यते ॥ रावणस्त्वथ तं दृष्ट्वा कौतूहलसमन्वितः ॥ ३ ॥ अथापश्यदृषिं तत्र पर्वतं मुनिसत्तमम् || दशग्रीवो महात्मानं दृष्ट्वा चेदमुवाच ह || स्वागतं तव देवर्षे दिव्या चैवागतो ह्यसि ॥ ४ ॥ तं कोयं स्यन्दनमारूढो ह्यप्सरोगण सेवितः || निर्लज्ज इव संयाति भयस्थानं न विन्दति ॥ ५ ॥ रावणेनैवमुक्तस्तु पर्वतो वाक्यमब्रवीत् || शृणु वत्स यथातत्त्वं वक्ष्ये तव महामते ॥ ६ ॥ एतेन निर्जिता लोका ब्रह्मा चैवाभितोषितः ॥ एष गच्छति मोक्षाय सुसुखं स्थानमुत्तमम् ॥ ७ ॥ तपसा निर्जिता लोका विक्रमेण यथा त्वया ॥ प्रयाति पुण्यवान्वत्स सोमं पीत्वा न संशयः ||८|| त्वं च राक्षसशार्दूल शूरः सत्यव्रतस्तथा ॥ नेहॅशेषु च क्रुध्यन्ति बलिनो ब्रह्मचारिषु ॥ ९ ॥ अथापश्यद्रथवरं महाकायं महौजसम् || जाज्वल्यमानं वपुषा गीतवादित्रसंकुलम् ॥ १० ॥ चैष गच्छति देवर्षे शोभमानो महाद्युतिः ॥ किन्नरैश्च प्रगायद्भिर्नृत्यद्भिश्च मनोहरम् ॥ ११ ॥ श्रुत्वा चैनमुवाचाथ पर्वतो मुनिसत्तमः ॥ एप शूरो रणे योद्धा संग्रामेष्वनिवर्तकः ॥ युध्यमानस्तथैवैष प्रहारैर्जर्जरीकृतः ॥ १२ ॥ कृती शूरो रणे जेता स्वाम्यर्थे त्यक्तजीवितः ॥ संग्रामे निहतो वीरान्हत्वा च सबलान्बहून् ||१३|| दण्डिनः सकाशात् ॥ १२ ॥ जयख जय | निर्जितोस्मीतिवावद | जय स्वेतिच्छेदोवा | स्वत्वात्तत्ववचनंममवचन मेवेतिभावः । यत्तेतवानयोर्मध्येकाङ्क्षितंतत्कार्षीः कुरु | कंचित्कालंक्षपाचरंगमयेतिशेषः । पुरतोमदन्ववायज निरेववधिष्यति तत्कीर्तिरेवमत्की- तिरितिरविरुपैक्षतेतिभावोऽवधेयः ॥ १३ ॥ सामर्थ्येस तिसमितिमुपेयात् ।नायातः तेननिर्जितःस वितेतिस्व विजयंघोषयि- वाजगाम ॥ १५ ॥ इतिसत्यधर्मतीर्थयेप्रक्षिप्तसर्गव्याख्याने द्वितीयः सर्गः ॥ २ ॥ उष्य समुष्य ॥ १ ॥ गच्छति अगच्छत् ॥ २ ॥ चुम्बितः ताभिः ॥ ३ ॥ कालेन योग्येन । कालोदैवागतइतिक्वचित्पाठः ॥ ४ ॥ भयस्थानं मद्रूपं ॥ ५ ॥ निर्जिताः सुकृतार्जिताः | यत्सुसुखंउत्तमंस्थानं तन्मोक्षाय एषगच्छति ॥ ७ ॥ सोमंपीला पुण्यकृत् संपादितपुण्यः । अथवा पुण्यहेतुऋत्वादिकृत् ॥ ८ ॥ शूरः एषुनकोपंकुरु | कुतइत्यत आह - नैवेति ॥ ९ ॥ मनोरमं यथातथा ॥ ११ ॥ संग्रामेष्वनिवर्तकोयोद्धा । एषः इच्छाविषयइतिवा । अपेक्षितइतियावत् । 'एषस्यप्रभृथे' इत्यादिवत् [ पा०] १ झ ठ. कालेनैवागतो. १ झ ठ निर्जितायद्वद्भवताराक्षसाधिप । प्रयातिपुण्यकृत्तद्वत्सोमं ३ झ. ट. नैवेदृशेषु. ४ झ. ठ. मनोरमं.