पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

r सर्ग: २३ । प्र० २ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । एतच्छ्रुत्वा च वचनं रावणो निर्ययौ तदा || क्रोधसंरक्तनयन उद्यतास्त्रो महाबलः ॥ ८८ ॥ तथाभूतं च तं दृष्ट्वा हरिर्मुसलधृत्प्रभुः || नैनं हन्म्यधुना पापं चिन्तयित्वेति विश्ववत् || अन्तर्धानं गतो राम ब्रह्मणः प्रियकाम्यया ॥ ८९ ॥ ६५ न च तं पुरुपं तत्र ददर्श रजनीचरः ॥ १० ॥ [ हर्षोभादं] विमुञ्चन्वै निष्क्रामन्वरुणालयात् || येनैव संप्रविष्टः स पथा तेनैव निर्ययौ ] ॥ ९१ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अधिकपाठे प्रथम सर्गः ॥ १ ॥ प्रक्षिप्तेषु द्वितीयः सर्गः ॥ २ ॥ सूर्यजिगीषया तन्मण्डलंग तेनरावणेनतंप्रति युद्धकरणपराजितत्ववचनान्यतरपक्षाङ्गीकरण निवेदनाय प्रहस्तप्रेषणम् ॥१॥ सूर्यद्वारपालकेनदण्डिनाम्ना तस्मिन्प्रहस्तवचन निवेदने सूर्येणदण्डिनंप्रति स्वस्यकालक्षेपासहिष्णुत्वोक्त्या तंप्रत्येवान्यतरप- क्षाङ्गीकरणाधिकारदाने तेनचरावणप्रतितनिवेदने रावणेन जयघोषणपूर्वकं ततोनिर्गमनम् ॥ २ ॥ अथ संचिन्त्य पौलस्त्यः सूर्यलोकं जगाम ह || मेरुशृङ्गे वरे रम्ये उपित्वा तत्र शर्वरीम् ॥ १ ॥ पुष्पकं तत्समारुह्य रखेस्तुरगसन्निभम् || मनोवातगतिं दिव्यं विहारवियति स्थितम् || तत्रापश्यद्रविं देवं सर्वतेजोमयं शुभम् ॥ २ ॥ वरकाञ्चन केयूररक्ताम्बरविभूषितम् || कुण्डलाभ्यां शुभाभ्यां तु भ्राजन्मुखविकासितम् ॥ ३ ॥ केयूरनिष्काभरणं रक्तमालावलम्विनम् || रक्तचन्दनदिग्धाङ्गं सहस्रकिरणोज्ज्वलम् ॥ ४ ॥ तमादिदेवॅमादित्यं विभुं सप्ताश्ववाहनम् || अनाद्यन्तममध्यं च लोर्कैसाक्षिणमीश्वरम् ॥ ५ ॥ तं दृष्ट्वा प्रवरं देवं रावणो राक्षसाधिपः || स ग्रहस्तमुवाचाथ रवितेजोवलार्दितम् ॥ ६ ॥ गच्छामात्य वद ह्येनं संदेशान्मम शासनम् || मार्तण्डं भास्करं श्रेष्ठं तत्त्वत्तो ब्रूहि माचिरम् ॥ ७ ॥ युद्धार्थी रावणः प्राप्तो युद्धं तस्य प्रदीयताम् || निर्जितोस्पीति वा ब्रूहि पक्षमेकतरं कुरु ॥ ८ ॥ तस्य तद्वचनाद्रक्षः सूर्यस्यान्तिकमागमत् || पिङ्गलं दण्डिनं चैव सोपश्यद्वारपालकौ ॥ ९ ॥ आभ्यामाख्याय तत्सर्वं रावणस्य विनिश्रयम् || तूष्णीमास्ते प्रहस्तः स सूर्यतेजःप्रतापितः ॥ १० ॥ दण्डी गत्वा रखेः पार्श्व प्रणम्याख्यातवान्विभुम् ॥ ११ ॥ मुसलधृक् मुसलायुधः । अधुनापापमेनंरावर्णनहन्मी तिचिन्तयित्वामहापराधंकारयित्वा कृत्लोपरोधं बहुरक्षोहननस्यभाव्यत्वादन्तर्धा- नंगतः । ब्रह्मवरोप्येतर्हिमयार्हणीयइतिचेतिहेतोः ॥ ८९ ॥ पश्यते पश्यतिअपश्यत् ॥९० ॥ इतिसत्यधर्मतीर्थी ये प्रक्षिप्तसर्ग- व्याख्याने प्रथमः सर्गः ॥ १ ॥ संचिन्त्य आलोच्य ॥ १ ॥ नानापातगतिः उड्डीनावडीनादिगतिः । विहारवियतिस्थितं विहारा क्लृप्तं वियत् विहारवियत् तस्मिन् । सर्वतेजोमयं सर्वतेजस्विप्रधानं ॥ २ ॥ भ्राजन्मुख विकासिनं भ्राजत् विकासिमुखंयस्यसतथातं || ३ || उच्चैःश्रवसवाहनं उच्चैःश्रवः पर्याय उच्चैःश्रवसशब्दः । तत्सदृशंवाहनंअश्वोयस्यसः | वाहनान्यश्वायस्यसवा । “एकोश्वोवहतिसप्तनामा - सप्तसप्तिन् ' इत्यादिमानात् । अविरोधोमानयोस्तुपुरोगाश्वविवक्षयाएकइत्युक्तिरित्यभिप्रायादितःसंपाद्यः लोकसाक्षीचासौजगत्पतिश्चतं । क्वचिल्लोकसाक्षिमितिपाठः तत्रार्षीकारान्तता ॥ ५ ॥ निदेशात् वदेत्याज्ञायाः | शासनं अनुशिष्टार्थकंवचः ॥ ७ ॥ इतिपक्ष- द्वयमध्ये एकतरंपक्षंकुरु || ८ || रक्षः प्रहस्ताख्यं । पिङ्गलंदण्डिनंच द्वारपालौ पश्यते अपश्यत् ॥ ९ ॥ तेजोंशुदीपितः तेजो- मयाअंशवः किरणास्तैदींपितः ॥ १० ॥ दण्डी दौवारिकः ॥ ११ ॥ [ पा० ] १ झ ञ. ठ पश्यते. २ अयंश्लोकः झ. पाठे दृश्यते. ३ झ. ठ लङ्केश ४ झ. ठ. नानापातगतिर्दिव्यं. ५ झ. ठ. मादित्यमुच्चैःश्रवसवाहनं. ६ झ. ठ. लोकसाक्षिजगत्पतिं. ७ झ. ठ निदेशान्मम. ८ झ. ठ पश्यतेद्वार ९ झ ठ. सूर्यतेजोंशुदीपितः. वा. रा. २४९