पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 V सर्गः २३ । प्र० ५ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । माननीयोर्हणीयश्च ओंकारः सामवेदगः ॥ मृत्युश्च मृत्युदूतव पारियात्रच सुत्रतः ॥ ३७॥ ब्रह्मचारी गृही योगी वीणापणवतूणवान् || अमरो दर्शनीयश्च बालसूर्यनिभस्तथा ॥ ३८ ॥ श्मशानचारी भगवानुमापतिररिन्दमः ॥ भगनेत्रः प्रहर्ता च पूपदन्तनिपातनः ॥ ३९ ॥ ज्वरहर्ता पाशहस्तः प्रलयः काल एव च || उल्कामुखोऽग्निकेतुश्च मुनिर्दीप्तो विशांपतिः ॥ ४० ॥ उन्मादमोहनकरः समर्थस्त्रिदशोत्तमः ॥ वामनो वामदेवश्च माग्दक्षिण्यश्च नामतः ॥ ४१ ॥ भिक्षुश्व भिक्षुरूपी च त्रिजटी जटिलः स्वयम् || चक्रहस्तः प्रतिष्टम्भी चमूनां स्तम्भनस्तथा ॥४२॥ ऋतुर्ऋतुकरः कालो मधुर्मधुरलोचनः ॥ वानस्पत्यः शीकरश्च नित्यमाश्रित पूजितः ॥ ४३ ॥ जगद्धाता च कर्ता च पुरुषः शाश्वतो ह्यजः || धर्माध्यक्षो विरूपाक्षस्त्रिवर्त्मा भूतभावनः ।। ४४ ॥ त्रिनेत्रो बहुनेत्रश्च सूर्यायुतसमप्रभः ॥ देवदेवोभिदेवश्च चन्द्राङ्कितजटस्तथा ॥ ४५ ॥ नर्तको लासकश्चैव पूर्णेन्दुसदृशाननः || सुब्रह्मण्यः शरण्यश्च सर्वदेवमयस्तथा ।। ४६ || सर्वभूतनिवासथ सर्वबन्धविमोचकः || मोहनो वञ्चकश्चैव सर्पधारी वरोत्तमः ॥ ४७॥ पुष्पदन्तो विभागच मुख्यः सर्वहरस्तथा ॥ हरिश्मश्रुर्धनुर्धारी भीमो भीमपराक्रमः ॥ ७१ भक्ताभीष्टप्रद : स्थाणुः परमात्मा सनातनः ॥ ४८ ॥ मया प्रोक्तमिदं पुण्यं नाम्नामष्टोत्तरं शतम् ॥ [ संर्वपापहरं पुण्यं शरण्यं शरणार्थिनाम् ] ॥ जप्यमेतद्दशग्रीव कुर्याच्छत्रुविनाशनम् ॥ ४९ ॥ दत्त्वा तु रावणस्येदं वरं स कमलोद्भवः || पुनरेव जगामाशु ब्रह्मलोकं सनातनम् ॥ ५० ॥ रावणोपि वरं लब्ध्वा पुनरेवागमत्तदा || निवर्तमानः संहृष्टो रावणः स दुरात्मवान् ॥ जह्रे पथि नरेन्द्रर्षिदेवगन्धर्वकन्यकाः ॥ ५१ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अधिकपाठे चतुर्थः सर्गः ॥ ४ ॥ प्रक्षिप्तेषु पञ्चमः सर्गः ॥ ५॥ कदाचनसचिवैः सहपश्चिमार्णवंगतेनरावणेन वचनद्वीपे कस्यचिन्महापुरुषस्यदर्शनम् ॥ १ ॥ तेनयुद्धायात्मानमाहूतव तोरावणस्य लीलयाsत्यल्पमुष्टिप्रहारेणनिपातन पूर्वकं पातालप्रवेशः ॥ २ ॥ ततःप्रबुध्यसचिववचनात्पातालंप्रविष्टेनरावणेन सर्वाभरणभूषितानां तुल्यरूपाणां महापुरुषाणांकोटित्रयावलोकनम् ॥ ३ ॥ ब्रह्मवरविभवात्ततः पुरतोनिर्गतेनतेन भुजगशायिनः कपिलरूपिणोहरेरवलोकनम् ॥ ४ ॥ कपिलेन स्वसमीपवर्तिकमलावलोकनेन कामवशतया तजिघृक्षोस्तस्य निज निश्वासमारुतेन भुविपातनपूर्वकं तंप्रति ब्रह्मवरमाननाय स्वेनाहननकथनम् ॥ ५ ॥ रावणेनतस्य नारायणत्व निर्धारणेन तंप्रति तद्धस्तेनस्वस्यवधप्रार्थनसमकालंतदङ्गे सचराचरसकललोकावलोकनम् ॥ ६ ॥ रामप्रश्नादगस्त्येनतंप्रति द्वीपवासिनो महापुरुषस्य श्रीनारायणावताररूपकपिलत्वनिवेदनम् ॥ ७ ॥ [ दत्वा तु रावणस्यैवं वरं स कमलोद्भवः ॥ पुनरेवागमत्क्षिमं ब्रह्मलोकं पितामहः ॥ अत्रागताना मेवनाम्नांपुनरागतिरानुपूर्व्यार्थाच्चस्तोत्रमन्त्रत्वान्नदोषावहा । एवमुत्तरत्रापि । ज्येष्ठं साम । ऋच्यण्यारूढलेनसाम्नो ज्येष्ठता ॥ ३७ ॥ गुहावासी तपश्चरणार्थं । हरितनेमीत्यतः संभवदर्थः ॥ ३८ ॥ चतुर्थः दण्डरूपोपायः | प्राक्प्रदक्षिणवामनः प्रदक्षिणाः अतिकुशलाः तेभ्योपिवामानिसंयन्तियंसः । यद्वा प्रदक्षिणोवामनोवामनिर्भगवान्यस्यसइतिवा | 'वामानिसंयन्तिसवा- मनिः ’ इतिश्रुतेः ॥ ४१ ॥ इतिसत्यधर्मतीर्थीयेप्रक्षिप्तसर्गव्याख्याने चतुर्थस्सर्गः ॥ ४ ॥ पुनरागमत् स्वंस्थलं ॥ १ ॥ [पा० ] १ झ ठ. माननीयश्चओंकारोवरिष्ठोज्येष्ठसामगः २ झ ठ. ब्रह्मचारीगुहावासीवीणापणव ३ झ.ठ. उन्मादोवेप- नकरश्चतुर्थोलोकसत्तमः ४ झ. ठ. प्राक्प्रदक्षिणवामनः ५ इदमधे झ. ठ. पाठयोदृश्यते. ६ इदमर्धत्रयं. झ. ठ. पाठयोर्दृश्यते.