पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

+ 1 सर्गः १ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । यस्य प्रमाणाद्विपुलं प्रमाणं नेह विद्यते ॥ दिया ते समरे राम कुम्भकर्णो निपातितः ॥ २० ॥ त्रिशिराश्चातिकायश्च देवान्तकनरान्तकौ || दिव्या ते निहता राम महावीर्या निशाचराः ॥ २१ ॥ कुम्भश्चैव निकुम्भव राक्षसौ भीमदर्शनौ ॥ दिष्ट्या तौ निहतौ राम कुम्भकर्णसुतौ मृधे ॥ २२ ॥ युद्धोन्मत्तश्च मत्तश्च कालान्तकयमोपमौ ॥ यज्ञकोपश्च बलवान्धूत्राक्षो नाम राक्षसः ॥ २३ ॥ कुर्वन्तः कदनं घोरमेते शस्त्रास्त्रपारगाः || अन्तकप्रतिमैर्वाणैर्दिष्ट्या विनिहतास्त्वया ॥ २४ ॥ दिष्ट्या त्वं राक्षसेन्द्रेण द्वन्द्वयुद्धमुपागतः ॥ देवतानामवध्येन विजयं प्राप्तवानसि ॥ २५ ॥ [ समेतन्महाबाहो रावणस्य निबर्हणम् || असह्यमेतत्संप्राप्तं रावणेर्यन्निवर्हणम् ।। २६ ॥ दृश्यस्तस्य महाबाहो कालो येन हि धिकृतः ॥ ] संख्ये तस्य न किंचित्तु रावणस्य पराभवः || द्वन्द्वयुद्धमनुप्राप्तो दिष्ट्या ते रावणिर्हतः ॥ २७ ॥ दिष्ट्या तस्य महाबाहो कालस्येवाभिधावतः ॥ मुक्त: सुररिपोर्वीर प्राप्तश्च विजयस्त्वया ॥ २८ ॥ अभिनन्दाम ते सर्वे संश्रुत्येन्द्रजितो वधम् ॥ सोऽवध्यः सर्वभूतानां महामायाधरो युधि ॥ २९ ॥ विस्मयस्त्वेष चास्माकं तच्छ्रुत्वेन्द्रजितं हतम् ॥ ३० ॥ एते चान्ये च बहवो राक्षसाः कामरूपिणः ॥ दिया त्वया हता वीरा रघूणां कुलवर्धन ॥ ३१ ॥ दत्त्वा पुण्यामिमां वीर सौम्यामभयदक्षिणाम् || दिष्ट्या वर्धसि काकुत्स्थ जयेनामित्रकर्शन ॥ ३२ ॥ श्रुत्वा तु तेषां वचनमृषीणां भावितात्मनाम् ॥ विस्मयं परमं गत्वा रामः प्राञ्जलिरब्रवीत् ||३३|| भगवन्तः कुम्भकर्ण रावणं च निशाचरम् || अतिक्रम्य महावीर्यौ किं प्रशंसथ रावणिम् ॥ ३४ ॥ महोदरं प्रहस्तं च विरूपाक्षं च राक्षसम् ॥ मत्तोन्मत्तौ च दुर्धर्षी देवान्तकनरान्तकौ ॥ अतिक्रम्य महावीर्यान्कि प्रशंसथ रावणिम् ॥ ३५ ॥ अतिकायं त्रिशिरसं धूम्राक्षं च निशाचरम् || अतिक्रम्य महावीर्यान्कि प्रशंसथ रावणिम् ॥ ३६॥ इत्यात्मनेपदं ।। १६–१९ ॥ प्रमाणात् शरीरपरि - | तस्य रावणे: शरबन्धादिति शेषः ॥ २८-३१ ॥ माणात् ॥ २०-२४ ॥ द्वन्द्वयुद्धमुपागतः सन् अभयदक्षिणां अभयदानं । देवर्षिभ्य इत्यर्थः । विजयं प्राप्तवानसीत्यन्वयः ।। २५–२७ ।। मुक्तः | | वर्धसि वर्धसे || ३२ || विस्मयं गत्वा | रावणिवध- स० संख्येयुद्धे । तस्य रावणस्य । पराभवः परमत्यन्तं अभवः असत्ता | मरणमितियावत् । तत् तन्मारणं | तवनकिंचित् महत्त्वसंपादकं । महीयसस्तवपुरतः कियानयंयातुधानइति नचित्रमितिभावः । तर्हिकिंचित्रमित्यतस्तदुक्तीकुर्वन्ति । द्वन्द्वयुद्धमिति । ते दिष्टयाआदिष्टयाआज्ञयाद्वन्द्वयुद्धमनुप्राप्तः रावणिरिन्द्रजित् । हतः लक्ष्मणेनेतिशेषः । ते त्वया । हतः घातितइतिवा ॥ ति० दृश्यरावणवधे नतवभारः। तिरोहितरावणिवधएवतुदुष्करइत्याहुः – संख्यइति । संख्येतस्य रावणस्यत्वत्कर्तृकः पराभवः आक्रमण- मितियत् तन्नकिंचित् । अपितु दिष्ट्या तिरोधानसाधनयानभङ्गेनद्वन्द्वयुद्धमनुप्राप्तः । अतएवहतोरावणिरितियत् इदमेवबह्विति शेषः ॥ २७ ॥ स० अभिधावतःकालस्य मृत्योरिवतस्यसुररिपोः सामान्यतः सुमानसद्विषोरावणेः । असाधारण्यन्यायेनसुरइन्द्रः तद्विपोः इन्द्रजितःसकाशान्मुक्तःलक्ष्मणइतित्वयाविजय प्राप्तइति दिष्टया मंगलमित्यर्थः । अभिधावतःकालस्यमृत्योरिवतस्यल- क्ष्मणस्यसकाशात् सुररिपोर्मुक्त: याजितः । प्राणइतिशेषः । इतित्वयाविजयःप्राप्तइतिवा । सुररिपोःरावणस्यप्राप्तः अत्यन्ताप्तः इन्द्रजिन्मुक्तः । प्राणैरितिशेषः ॥ मुक्तः सर्वैरप्यसुसाघवधइतिव्यक्तः । वीरप्राप्तः विगत ईरः प्राणोयेभ्यस्ते वीराः निष्प्राणाःता- न्प्राप्तः । मृतस्वजनसंघनिविष्टइतित्वयाविजयः । अस्मदादी नामितिशेषइतिवा | वन्मुखेनपरपरिभावनेनन एवायं विजयइतिभावः ॥ पद्यपद्यामभिपद्याद्यपद्यस्थ राघव मित्ये तल्लक्ष्मणमित्यपिविचक्षणाः केचिद्ध्याचक्षते ॥ २८ ॥ ति० विस्मय हेतुरवध्यइति । यतःसो वध्यत्वादिगुणः अतएवचएष एवेन्द्रजिदूधोस्माकंविस्मयः विस्मयकरइत्यन्वयः । तत्तस्मात् इन्द्रजितंहतं श्रुत्वावसंतुष्टाइतिशेषः ।। २९ - ३० । स० हेभगवन्तः पूज्याः | अतिक्रम्य तत्स्तुतिमकृत्वा । किं किमर्थ ॥ ३४ ॥ [पा० ] १ इदमर्धत्रयं च. छ. पाठेषुदृश्यते.