पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । संप्राप्य ते महात्मानो राघवस्य निवेशनम् || विष्ठिताः प्रतिहारार्थ हुताशनसमप्रभाः ॥ वेदवेदाङ्गविदुषो नानाशास्त्रविशारदाः ॥ ६ ॥ द्वाःस्थं प्रोवाच धर्मात्मा ह्यगस्त्यो मुनिसत्तमः ॥ निवेद्यतां दाशरथेऋषीनसान्समागतान् ॥ ७ ॥ प्रतीहारस्ततस्तूर्ण मगस्त्यवचनाद्रुतम् || समीपं राघवस्याशु प्रविवेश महात्मनः ॥ ८ ॥ नयेङ्गितज्ञः सद्वृत्तो दक्षो धैर्यसमन्वितः || स रामं दृश्य सहसा पूर्णचन्द्रसमप्रभम् || अगस्त्यं कथयामास संप्राप्तमृषिभिः सह ॥ ९ ॥ [ उत्तरकाण्डम् ७ श्रुत्वा प्राप्तान्मुनींस्तांस्तु बालसूर्यसमप्रभान् || प्रत्युवाच ततो द्वाःस्थं प्रवेशय यथासुखम् ॥ १० ॥ तान्संप्राप्तान्मुनीन्दृष्ट्वा प्रत्युत्थाय कृताञ्जलिः ॥ पाद्यार्थ्यादिभिरानर्च्य गां निवेद्य च सादरम् ॥ रामोभिवाद्य प्रयत आसनान्यादिदेश ह ॥ ११ ॥ तेषु काञ्चनचित्रेषु महत्सु च वरेषु च || कुशान्तर्धानदत्तेषु मृगचर्मयुतेषु च ॥ यथार्हमुपविष्टास्ते आसनेष्वृषिपुङ्गवाः ॥ १२ ॥ रामेण कुशलं पृष्टाः सशिष्याः सपुरोगमाः || महर्षयो वेदविदो रामं वचनमब्रुवन् ॥ १३ ॥ कुशलं नो महाबाहो सर्वत्र रघुनन्दन || त्वां तु दिष्ट्या कुशलिनं पश्यामो हतशात्रवम् ॥ १४ ॥ दिष्ट्या त्वया हतो राजनावणो लोकरावणः ॥ न हि भारः स ते राम रावणः पुत्रपौत्रवान् ॥१५॥ सधनुस्त्वं हि लोकांस्त्रीन्विजयेथा न संशयः || दिष्ट्या त्वया हतो राम रावणो राक्षसेश्वरः ॥ १६ ॥ दिष्ट्या विजयिनं त्वाऽद्य पश्यामः सह सीतया ॥ लक्ष्मणेन च धर्मात्मन्त्रात्रा त्वंद्धितकारिणा ॥१७॥ मातृभिर्भ्रातृसहितं पश्यामोऽद्य वयं नृप ॥ १८ ॥ दिष्ट्या महस्तो विकटो विरूपाक्षो महोदरः ॥ अकम्पनश्च दुर्धर्षो निहतास्ते निशाचराः ॥ १९ ॥ वसिष्ठादयः सप्तेत्यर्थः । ननु वसिष्ठः अयोध्यायां | कौशिक : कुशिकवंश्यो विश्वामित्रादन्यः ॥ ५॥ पुरोहिततया नित्यं वर्तमानः कथमिदानीमुदीच्या प्रतिहारो द्वाःस्थः । “द्वारि द्वा:स्थे प्रतीहार : " इत्य- दिश: समागत इत्युच्यते । सत्यं | यथाऽगस्त्यो ज्यो- मरः ॥ ६–१० ॥ अभिवाद्येति । समुदायं प्रतीति तिर्मण्डलस्थोपि भुवि तप:समार्जनाय शरीरान्तरे शेषः ॥ ११ - १३ ॥ सर्वत्र पुरकोशादिषु | दिष्टया स्थित आगतस्तथा वसिष्ठोपि ज्योतिर्मण्डलस्थ: सप्त- दैवात् । हतशात्रवं हतशत्रुं ॥ १४ ॥ रावणस्ते न हि र्षिभिः समागत इति बोध्यम् । तदागमनदशायां भारः । तद्वधस्ते ईषत्कर्मेत्यर्थः ॥ १५ ॥ तदेव दर्श- नगरस्थो वसिष्ठो नायातः अतएव न परिगणितः । यति — सधनुरित्यादि । विजयेथा इति “विपराभ्यां" ति० प्रतिहारोद्वास्स्थः । तदर्थ तन्मुखेनरामायस्खागमन निवेदनार्थं | विष्ठिताः द्वारिस्थिताइत्यर्थः ॥ ६ ॥ ति० तूर्णमितिमानसी- त्वरा । द्रुतमितिकायिक्युक्ता | स० एतेमुनयोत्रावस्थाना नर्हाः बहुकालविलंबे किंभवतिवेत्येकं भयं । तन्निबोधनेरामः किं करोतिवेत्य- परं । एतेमहात्मानोस्मत्स्वामिदर्शनार्थ मागताइतिसंभ्रमश्चेतित्वराहेतूनांत्रयाणांसत्त्वात्तूर्णेद्रुतमाश्वितिबहुवारंपर्यायोक्तिः । तूर्णंद्रुत- मित्यस्यपूर्वश्लोकेवाऽन्वयः । वयंतूर्णमागताइतिद्रुतंनिवेद्यतामिति ॥ ति० आश्वित्यनेनराजावसर परीक्षाभावोविवक्षितः ॥ ८ ॥ ति० निवेद्य प्रत्येकमितिशेषः ॥ ११ ॥ ति० वरेषु बहुमूल्येषु । कुशान्तर्धानदत्तेषु कुशैरन्तर्धानंदत्तंकृतंयेषु । कुशास्तृते- वित्यर्थः ॥ १२ ॥ ति० सपुरोगमाः पुरोगमैः प्रधानैः सहिताः ॥ १३ ॥ ति० हतशात्रवं हतशत्रुसमूहं ॥ १४ ॥ ति० लक्ष्मणेनचेति । अस्यास्यदिष्ट्याराक्षसाहताइतिशेषः । मातृभिरित्यस्य दिष्ट्येत्यादिः । युक्तमितिशेषः ॥ १८ ॥ [ पा० ] १ झ संप्राप्यैते. २ क. भगवानगस्त्यो ३ क. दाशरथेर्मुनीनस्मानुपागतान् ख. दाशरथेर्मुनीनस्मानुपस्थितान्. घ. दाशरथेर्मुनीनस्मानिहागतान्. ङ. ट. दाशरथेर्ऋषयोवयमागताः ४ ख. घ. वचनोदितः ५ घ. – ट. चन्द्रसमद्युतिं. क. चन्द्रनिभाननं. ६ ङ. झ ञ ट संप्राप्तमृषिसत्तमं. ७ ख. चित्रेषुखास्तीर्णेषुसुखेषुच. क. चित्रेषुस्खास्तीर्णेषुशुभेषुच.