पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकि रामायणम् । गूढश्मश्रुर्निगूढास्थि दंष्ट्राभा रोमहर्षणः ॥ एतादृशं वै पुरुषं ददर्श स तु रावणः ॥ गृहीत्वा लोहमुसलं द्वारं विष्टभ्य सुस्थितम् ॥ १४ ॥ अथ संदर्शनात्तस्य ऊर्ध्वरोमा बभूव सः ॥ अस्पन्दतास्य हृदयं वेपथुश्चाप्यजायत ॥ १५ ॥ निमित्तान्यमनोज्ञानि दृष्ट्वा राम व्यचिन्तयत् ॥ अथ चिन्तयतस्तस्य स एव पुरुषोऽब्रवीत् ||१६|| किं त्वं चिन्तयसे रक्षो ब्रूहि विसन्धमानसः ॥ युद्धातिथ्यमहं वीर करिष्ये रजनीचर ॥ १७ ॥ एवमुक्त्वा स तद्रक्षः पुनर्वचनमब्रवीत् || योत्स्यसे बलिना सार्धं मया वा तद्विधीयताम् ॥ १८ ॥ रावणोऽभिहितो भूय ऊर्ध्वरोमा व्यजायत ॥ अथ धैर्य समालम्ब्य रावणो वाक्यमब्रवीत् ॥ १९ ॥ गृहेऽत्र तिष्ठते को वा तं ब्रूहि वदतांवर | तेनैव सार्ध योत्स्यामि यथा वा मन्यते भवान् ॥ २० ॥ स एनं पुनरप्याह दानवेन्द्रोत्र तिष्ठति ॥ २१ ॥ एष वै परमोदारः शूरः सत्यपराक्रमः || वीरो बहुगुणोपेतः पाशहस्त इवान्तकः ॥ २२ ॥ बालार्क इव तेजस्वी समरेष्वनिवर्तकः ॥ अमर्षी दुर्जयो जेता बलिहि गुणसागरः ॥ २३ ॥ प्रियंवदः संविभागी गुरुविप्रप्रियः सदा ॥ कालकाङ्क्षी महासत्वः सत्यवाक्सौम्यदर्शनः ॥ २४ ॥ स च सर्वगुणोपेतः शूरः स्वाध्यायतत्परः ॥ एष गर्जति वात्येष ज्वलते तपते सदा ॥ २५ ॥ देवैश्च भूतसंधैश्च पन्नगैश्च महर्षिभिः ॥ भयं यो नाभिजानाति तेन किं योद्धुमिच्छसि ॥ २६ ॥ बलिना यदि ते योद्धुं रोचते राक्षसेश्वर ॥ प्रविश त्वं महासत्वं संग्रामं कुरु मा चिरम् ॥ २७ ॥ एवमुक्तो दशग्रीवः प्रविवेश यतो बलिः || स विलोक्याथ लङ्केशमट्टहास जहास च ॥ २८ ॥ आदित्य इव दुष्प्रेक्ष्यः स्थितो दानवसत्तमः ॥ अथ संदर्शनादेव बलि विश्वरूपवान् ॥ २९ ॥ स गृहीत्वा च तद्रक्षो त्सङ्गे स्थाप्य चात्रवीत् ॥ दशग्रीव महाबाहो कं ते कामं करोम्यहम् || किमागमनकृत्यं ते ब्रूहि त्वं राक्षसेश्वर || ३० || ६२ [ उत्तरकाण्डम् ७ एवमुक्तस्तु बलिना रावणो वाक्यमब्रवीत् ॥ श्रुतं मया महाभाग वद्धस्त्वं विष्णुना पुरा ॥ ३१ ॥ सोहं मोचयितुं शक्तो बन्धनाचां न संशयः ॥ एवमुक्ते ततो हासं बेलिः कृत्वेदमब्रवीत् ॥ ३२ ॥ श्रूयतामभिधास्यामि यं त्वं पृच्छसि रावण ॥ य एष पुरुष: श्यामो द्वारि तिष्ठति नित्यदा ॥ ३३॥ एतेन दानवेन्द्राश्च तथाऽन्ये बलवत्तराः ॥ वशं नीता बलवता पूर्वे पूर्वतराच ये ॥ ३४ ॥ बद्धश्वाहमनेनैवं कृतान्तो दुरतिक्रमः || क एनं पुरुषो लोके वञ्चयिष्यति रावण ॥ ३५ ॥ सर्वभूतापहर्ता वै य एष द्वारि तिष्ठति ॥ कर्ता कारयिता चैव धाता च भुवनेश्वरः ॥ ३६ ॥ न त्वं वेद न चाहं वै भूतभव्यभवत्प्रभुम् || कलिश्चैव हि कालश्च सर्वभूतापहारकः ॥ ३७ ॥ लोकत्रयस्य सर्वस्य हर्ता स्रष्टा तथैव च ॥ संहरत्येष भूतानि स्थावराणि चराणि च ॥ ३८ ॥ पुनश्च सृजते सर्वमनाद्यन्तो महेश्वरः ॥ करणं कारणं कर्ता सोयं पुरुषसत्तमः ॥ ३९ ॥ इष्टं चैव हि दत्तं च हुतं चैव निशाचर सर्वमेव हि लोकेशो धाता गोप्ता न संशयः ॥ ४० ॥ पूर्ववद्गमनिकासंभवादार्षतयारक्षोविसन्धमान सइत्याद्यन्वयः ॥ अभ्यागतातिथ्यमिद मित्याह - युद्धातिथ्य मिति ॥ १७ ॥ बलिना राज्ञा । मया दौवारिकेण ॥ १८ ॥ अभिहितः तेनैवमुक्तः ॥ १९ ॥ संविभागी यथाशास्त्रंद्रव्यादिविभागकर्ता कालाकाङ्क्षी सत्कर्मयोग्यकालानतिक्रममाकाङ्क्षन् ॥ २४ ॥ एषः एतदन्तर्गतः । यद्वा भयोत्पादनार्थमेवमुक्तिः ॥ २५ ॥ यतः यत्र ॥ २८ ॥ विश्वरूपवान् ईश्वरानुग्रहेणव्यायतरूपः ॥ २९ ॥ उत्संङ्गे अङ्के ॥ ३० ॥ मुक्त्वा कृत्वा ॥ ३२ ॥ पूर्वे पूर्वतराः प्रपूर्वाः ॥ ३४ ॥ नचाहंसाकल्येनकलिः कलहसामर्थ्यप्रदः ॥ ३७ ॥ हर्तास्रष्टेतिहर्तृत्व पुरस्करणमेतत्समयानुसारात् ॥ ३८ ॥ [ पा०] १ ठ. कालाकाङ्क्षी २ झ ञ. उ. बलिर्मुक्त्वैनं. 1 !