पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः २३ । प्र० १ ] नैवंविधं महद्भूतं विद्यते भुवनत्रये ॥ ४१ ॥ अहं त्वं चैव पौलस्त्य ये चान्ये पूर्ववत्तराः ॥ नेता तेषां महात्मैष पशुं रशनया यथा ॥ ४२ ॥ वृत्रो दनुः शुकः शुम्भो निशुम्भो दम्भुरेव च || कालनेमिच प्रह्लादस्तथा वैरोचनो बलिः ॥४३॥ कालकेयास्तारकाख्यो मुचुकुन्दो विवर्धनः || हिरण्याक्षो मधुश्चैव कैटभो धूमशम्बरौ ॥ ४४ ॥ यमलार्जुनौ च कंसथ कैटभो मधुना सह ॥ एते तपन्ति द्योतन्ति वान्ति वर्षन्ति चैव हि ॥४५॥ सर्वैः क्रतुशतैरिष्टं सर्वैस्तप्तं महत्तपः ॥ सर्वे ते सुमहात्मानः सर्वे वै योगधर्मिणः ॥ ४६ ॥ सर्वैश्वर्यमासाद्य भुक्तभोगैर्महत्तरैः ॥ दत्तमिष्टमधीतं च प्रजाच परिपालिताः ॥ ४७ ॥ स्वपक्षेष्वनुगोप्तारः ग्रहर्तारः परेष्वपि || समरेष्वपि लोकेषु नैतेषां विद्यते समः ।। ४८ ।। शूरास्त्वभिजनोपेताः सर्वशस्त्रास्त्रपारगाः || सर्वविद्याप्रवेत्तारः संग्रामेष्वनिवर्तकाः ॥ ४९ ॥ सवैत्रिदशराज्यानि काङ्क्षितानि महात्मभिः ॥ युद्धे सुरगणाः सर्वे निर्जिताश्च सहस्रशः ॥ ५० ॥ देवानामपि ये शक्ताः स्वपक्षपरिपालकाः ॥ प्रमत्ता भोगरक्काच बालार्कसमतेजसः ॥ ५१ ।। यँत्स देवान्प्रथर्पेत तदेषो विष्णुरीश्वरः || उपायपूर्वकं नाशं संवेत्ता भगवान्हरिः ॥ ५२ ॥ प्रादुर्भावं विकुरुते येनैतन्निधनं नयेत् || पुनरेवात्मनात्मानमधिष्ठाय स तिष्ठति ॥ ५३ || एवमेतेन देवेन दानवेन्द्रा महात्मना || ते हि सर्वे क्षयं नीता बलिना कामरूपिणा ॥ ५४ ॥ समरे च दुराधर्षा नृपास्ते च पराजिताः ॥ तेन नीताः क्षयं सर्वे कृतान्तवलचोदिताः ॥ ५५ ॥ एवमुक्त्वाऽथ प्रोवाच राक्षसं दानवेश्वरः || यदेतद्दृश्यते वीर चक्रं दीप्तानलोपमम् ।। ५६ ।। एतद्गृहीत्वाऽऽगच्छ त्वं मम पार्श्व महाबल ॥ ततोऽहं तव चाख्यास्ये मुक्तिकारणमव्ययम् ||५७|| तत्कुरुष्व महाबाहो मा विलम्बस्व रावण ॥ एतच्छ्रुत्वा गतो रक्षः ग्रहसंच महाबलः ॥ ५८ ॥ यत्र स्थितं महद्दिव्यं कुण्डलं रघुनन्दन || लीलयोत्पाटनं चक्रे रावणो बलदर्पितः ॥ ५९ ॥ न च चालयितुं शक्तो रावणोऽभूत्कथंचन || लज्जया स पुनर्भूयो यत्वं चक्रे महाबलः ॥ ६० ॥ उत्क्षितमात्रे दिव्ये च पपात भुवि राक्षसः || छिन्नमूलो यथाँ शाखी रुधिरौघपरितः ॥ ६१ ॥ एतस्मिन्नन्तरे जज्ञे शब्द: पुष्करसंभवः ॥ राक्षसेन्द्रस्य सचिवैर्मुक्तो हाहाकृतो महान् ॥ ६२ ॥ ततो रक्षो मुहूर्तेन चेतनां लभ्य चोत्थितम् || लज्जयावनतीभूतं बलिर्वाक्यमुवाच ह || ६३ ॥ आगच्छ राक्षसश्रेष्ठ वाक्यं शृणु मयोदितम् || यत्त्वया चौद्धृतं वीर कुण्डलं मणिभूषितम् ॥ ६४ ॥ एतद्धि पूर्वजस्यासीत्कर्णाभरणमीक्ष्यताम् ॥ एतत्पतितमत्रैवमन्यद्भूयो महाबल || ६५ ॥ श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । ६३ 6 एषां पूर्वोदीरितानां । नेता ॥ ४२ ॥ प्रयायुक्तेः ‘ कालनेमिश्चप्राह्लादि' रित्यत्रप्रकारलघुपाठः कर्तव्यः ॥ एवमुत्तरत्रापि । वैरोचनः अमृदुरितिच्छेदः | नानामृदुर्वा ॥ ४३ ॥ तपन्ति तत्प्रतिबन्धसामर्थ्यादेवमुक्तिः ॥ ४५ ॥ समं वस्तु ॥ ४८ ॥ बेत्तारः वेदितारः लाभवन्तोवा ॥ ४९ ॥ योदैत्यः । एषां देवानां ॥५१॥ येन प्रादुर्भावेन । एतन्निधनं विरोधिनिधनं । नयेत् । तंप्रादुर्भावं विकुरुते करोति । अधिष्ठाय 'पूर्णमदः पूर्णमिदं' इत्यादेः ॥ ५३ ॥ ये अपराजिताइतिच्छेदः । भूतं भूतिः ऐश्वर्यं । महतांभूतंयेषांतेतथा ॥ ५५ ॥ चक्रं वर्तुलं ॥ ५६ ॥ मुक्तिकारणं मन्मोक्षहेतुं ॥ ५७ ॥ चालयितुं विद्यमानस्थलतोन्यथयितुं ॥ ६० ॥ उत्क्षिप्तमात्रे एकदेश उन्नतेतदेकदेशताडितोराक्षसोभुविपपात | सालोवृक्षः ॥ ६१ || हाहेतिकृतोहाहाकृतः । कृतंभावेक्तः । हाहेतिकृतंयस्येतिसवा ॥ ६२ ॥ चेतनां संज्ञां | लभ्य प्रलभ्य | अवनतीभूतं नम्रीभूतं ॥ ६३ ॥ उद्यतं उद्धतं ॥ ६४ ॥ पतितवत् पतितंपतन मस्यास्तीतिपतितवत् । उत्तरपद्यस्थपतितपद खारस्यात् ।। ६५ ।। [ पा० ] १ झ ञ ठ. नेताह्येषां. २ झ ञ. ठ वैरोचनोमृदुः ३ झ ञ. ठ. समं. ४ झ ततदेषां. ५ झ. ज. ठ. दुराधर्षाः श्रूयन्तेयेपराजिताः । तेननीतामहद्भूताः कृतान्त ६झ. अ. ठ ट. चोयतं. ८ झ. ज. ठ. एतत्पतितवचैवमत्रभूमौ. ञ ठ. यस्तुदेवान्प्रधर्षे. यथासालो. ७ झ. ज.