पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः २३ । प्र० १ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । आगतस्तु पथा येन तेनैव विनिवृत्य सः || लङ्कामभिमुखो रक्षो नभस्स्थलगतो ययौ ॥ ५४ ॥ इत्यार्पे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे त्रयोविंशस्सर्गः ॥ २३ ॥ ॥ अथात्राधिकपाठश्लोकप्रारम्भः ॥ प्रक्षिप्तेषु प्रथमः सर्गः ॥ १ ॥ रावणेन वरुणलोकान्निवृत्य पुनरश्मनगरप्रवेशः ॥ १ ॥ तत्रमणिमयं महाबलिभवनंदृष्टवतारावणेन तत्पति जिज्ञासयातत्र ग्रहस्तप्रेपणम् ॥ २ ॥ तद्वारेज्वालामालामध्यवर्तिपुरुष दर्शनाद्भीतपरावृत्तेनप्रहस्तेन रावणंप्रति तन्निवेदनम् ॥ ३ ॥ स्वयमेवतद्भवनंप्रविष्टेन ग्रहस्तदृष्टपुरुषदर्शनमात्रेणचकित कंपितेनरावणेन कथंचिद्वैर्यावलंबनेन पुरुपंप्रति तद्गृहपतिनामादि- प्रश्नपूर्वकं तेनसहस्त्रस्ययुयुत्सानिवेदनम् ॥ ४ ॥ तद्भवनपतेर्महाबलित्व निवेदन पूर्वक तदनुज्ञयाऽन्तःप्रविष्टेनरावणेन महा- बलिविलोकनम् ॥ ५ ॥ तेनस्वागमनकारणंपृष्टेनरावणेन तंप्रति तंबद्धवताविष्णुनासहस्वस्ययुयुत्सानिवेदने बलातप्रति विष्णुमहिमा नुवर्णनपूर्वकं स्वगृहद्वारस्थ पुरुषस्यैव विष्णुत्व निवेदनं ॥ ६ ॥ ततो रोषायुद्धाय समापत तिरावणेविष्णुनातःकाले तस्यहननानिच्छयातिरोधानं ॥ ७ ॥ हर्षान्नादांस्तु विसृजन्निष्क्रान्तो वरुणालयात् || महोदरेण संयुक्तो हर्षगद्गदभाषिणा ॥ १ ॥ ततोश्मनगरं भूयो विचेर्युद्धदुर्मदाः || यत्रापश्यद्दशग्रीवो गृहं परमभास्वरम् || वैडूर्य तोरणाकीर्ण मुक्ताजालविभूषितम् ॥ २ ॥ सुवर्णस्तम्भगहनं वेदिकाभिः समन्ततः ॥ वज्रस्फटिकसोपानं किङ्किणीजालसंयुतम् ॥ ३॥ बहासनयुतं रम्यं महेन्द्रभवनोपमम् ॥ दृष्ट्वा गृहवरं रम्यं दशग्रीवः प्रतापवान् ॥ ४ ॥ कस्येदं भवनं सौम्यं मेरुमन्दरसन्निभम् || गच्छ ग्रहस्त शीघ्रं त्वं जानीष्व भवनोत्तमम् ॥ ५ ॥ एवमुक्तः प्रहस्तस्तु प्रविवेश गृहोत्तमम् ॥ ६ ॥ से शून्यं प्रेक्ष्य तारं पुनः कक्ष्यान्तरं ययौ ॥ सप्तकक्ष्यान्तरं गत्वा ततो ज्वालामपश्यत ॥ ७ ॥ ततो दृष्टः पुमांस्तत्र हृष्टो ह्रासं मुमोच सः ॥ स तु श्रुत्वा महाहासमूर्ध्वरोमाऽभवत्तदा ॥ ८ ॥ ज्वालामध्ये स्थितस्तत्र हेममाली विमोहितः ॥ आदित्य इव दुष्प्रेक्ष्य: साक्षाद्यम इव स्थितः ॥९॥ तथा दृष्ट्वा तु वृत्तान्तं स्वरमाणो विनिर्गतः ॥ विनिर्गम्याब्रवीत्सर्व रावणाय निशाचरः ॥ १० ॥ अथ राम दशग्रीवः पुष्पकादवरुह्य सः ॥ प्रवेष्टुमिच्छन्वेश्माथ भिन्नाञ्जनचयोपमः ॥ ११ ॥ चन्द्रमौलिर्वपुष्मांश्च पुरुषोऽस्याग्रतः स्थितः ॥ द्वारमावृत्य सहसा ज्वालासक्तो भयानकः ॥ १२ ॥ रक्ताक्षः श्वेतवदनो बिम्बोष्ठयोर्ध्वरोमवान् || महाभीषणनासच कम्बुग्रीवो महाहनुः ॥ १३ ॥ वारुणः ॥ ५०–५४ ॥ इति श्रीगोविन्दराजविरचिते | सर्गः ॥ २३ ॥ श्रीमद्रामायणभूषणे उत्तरकाण्डव्याख्याने त्रयोविंशः स० येनपथागतस्तेनैवविनिवृत्य । अनेनाध्वनस्तोयप्रायत्वादध्वान्तरविरहोवागमनप्रयोजनाभावाद्वृथा गतिरितिवासूच्यते । रक्षो- नमस्स्थलगतइतिपदमखण्डं | रक्षोभिः सहितोनभस्स्थलगतञ्चतथा । आगतइत्यादीनांपुंलिङ्गान्तविशेषणानामेवमेव चेत्सामञ्जस्यं भविष्यति ॥ ५४ ॥ इतित्रयोविंशः सर्गः ॥ २३ ॥ अथप्रक्षिप्त सर्गपञ्चकव्याख्यानं सत्यधर्मतीथयमात्रं ॥ यत्रपरमभास्वरंगृहमपश्यत् तदश्मनगरंप्राप्यविचेरुः ॥ २ ॥ स० निश्शून्यं निश्शेषतोजनरहितं ॥ ७ ॥ स० ऊर्ध्वरोमा भयेन ॥ ८ ॥ विमोहितः विशेषेणमोहिताइत रेयेनसः ॥ ९ ॥ विनि- र्गतः प्रहस्तः ॥ १० ॥ चन्द्रमौलिवपुष्मान् रौद्राकारः ॥ १२ ॥ [ पा० ] १ ठ. निश्शून्यं.