पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वारमीकिरामायणम् । [ उत्तरकाण्डम् ७. महीतलगतास्ते तु रावणं दृश्य पुष्पके || आकाशमाशु विविशुः स्यन्दनैः शीघ्रगामिभिः ॥ ३३ ॥ महदासीत्ततस्तेषां तुल्यस्थानमवाप्य तत् || आकाशयुद्धं तुमुलं देवदानवयोरिव ॥ ३४ ॥ ततस्ते रावणं युद्धे शरैः पावकसन्निभैः ॥ विमुखीकृत्य संतुष्टा विनेदुर्विविधानवान् ॥ ३५ ॥ ततो महोदरः क्रुद्धो राजानं दृश्य धर्षितम् ॥ त्यक्त्वा मृत्युभयं वीरो युद्धकाङ्क्षी व्यलोकयत् ||३६|| तेनँ ते दारुणा युद्धे कामगाः पवनोपमाः || महोदरेण गदया हता वै प्रययुः क्षितिम् ॥ ३७ ॥ तेषां वरुणपुत्राणां हत्वा योधान्याञ्छतान् || मुमोचाशु महानादं विरथान्प्रेक्ष्य तान्स्थितान् ॥३८॥ ते तु तेषां स्था: सावाः सह सारथिभिर्हतैः ॥ महोदरेण निहताः पंतिताः पृथिवीतले ॥ ३९ ॥ ते तु त्यक्त्वा रथान्पुत्रा वरुणस्य महात्मनः || आकाशे विष्ठिताः शूराः स्वप्रभावान्न विव्यथुः ॥ ४० ॥ धनूंषि कृत्वा सज्जानि विनिर्भिद्य महोदरम् ॥ रावणं समरे क्रुद्धाः सहिताः समँभिद्रवन् ॥ ४१ ॥ सायकैश्चापविभ्रष्टैर्वजकल्पैः सुदारुणैः ॥ दारयन्ति स्म संक्रुद्धा मेघा इव महागिरिम् ॥ ४२ ॥ ततः क्रुद्धो दशग्रीवः कालाग्निरिव निर्गतः || शरवर्षैर्महाघोरैस्तेषां मर्मस्वताडयत् ॥ ४३ ॥ ततस्तेनैव सहसा सीदन्ति स पदातयः || मुसलानि विचित्राणि ततो भल्लशतानि च ॥ ४४ ॥ पट्टिशांश्चैव शक्तीच शतनीस्तोमरांस्तथा ॥ पातयामास दुर्धर्षस्तेषामुपरि विष्ठितः ॥ ४५ ॥ अपविद्धास्तु ते वीरा विनिष्पेतुः पदातयः ॥ महापकमिवासाद्य कुञ्जराष्पष्टिहायनाः ॥ ४६ ॥ सीदमानान्सुतान्दृष्ट्वा विह्वलॉन्सुमहौजसः ॥ ननाद रावणो हर्षान्महानम्बुधरो यथा ॥ ४७ ॥ ततो रक्षो महानादान्मुक्त्वा हन्ति स वारुणान् || नानाप्रहरणोपेतैर्धारापातैरिवाम्बुदः ॥ ४८ ॥ ततस्ते विमुखाः सर्वे पतिता धरणीतले || रणात्स्व पुरुषैः शीघ्रं गृहाण्येव प्रवेशिताः ॥ ४९ ॥ तानत्रवीत्ततो रक्षो वरुणाय निवेद्यताम् ॥ ५० ॥ रावणं त्वत्रवीन्मन्त्री ग्रहसो नाम वारुणः ॥ गतः खलु महाराजो ब्रह्मलोकं जलेश्वरः || गान्धर्व वरुणः श्रोतुं यं त्वमाह्वयसे युधि ॥ ५१ ॥ तरिक तव वृथा वीर परिश्रम्य गते नृपे || ये तु सन्निहिता वीराः कुमारास्ते पराजिता: ५२ ॥ राक्षसेन्द्रस्तु तच्छ्रुत्वा नाम विश्राव्य चात्मनः ॥ हर्षान्नादं विमुञ्चन्वै निष्क्रान्तो वरुणालयात् ॥ ५३॥ ध्यक्षौ ॥ २८~-३३ ॥ स्थानं आकाशरूपं | आकाशे | तात्वप्रभावात् ॥ ४०–४५ ॥ षष्टिहायनं परिमाणं युद्धं आकाशयुद्धं ॥ ३४-३९ || स्वप्रभावात् देव- | येषां ते षष्टिहायनाः ॥ ४६ – ४९ ॥ वरुणस्यायं सेनानायकावुभा वित्युभौना गोजिभतीथौं ॥ २८ ॥ ति० वरुणस्यसुताःप्रथमंमहीतलगताएवरावणेनयुद्धमकुर्वन् । तत्ररावणा- मात्यैराकाशस्थैर्निपातितंखवलंदृष्ट्वा तादृशयुद्धस्याननुरूपतांविचार्य युद्धान्निवृत्तामहीं त्यक्त्वा स्वयमप्याकाशमेवगताइत्यर्थः ॥ ३३ ॥ स० पदैरतितुंशीलमेषा मस्तीतितथा । णिनिः । अतोतनमेषामस्तीतीनिर्वा । षष्टिहायनाः तत्संख्याकवर्षाः युवानइतियावत् ॥ ४६ ॥ ति० सुतान् वरुणस्य ॥ ४७ ॥ ति० वारुणान् वरुणपुत्रान् ॥ ४८ ॥ ति० वारुणः वरुणस्यायं ॥ ५१ ॥ स० गान्धर्वै गीतं । श्रोतुं स्वयंविखराअपिसुस्वरा कर्णन रुचयोजनाभवन्ति । वरुणवैस्वर्येच 'अपध्मातंवरुणस्य वरुणस्य तु विस्वरः इतिच्छान्दोग्योपनिषद्भाष्याभ्यांप्रतिपादितं । यदाकदाचिदधिकोदकग्रहणे उपद्रवोलोकस्यगलघुघुरताप्रापकोभवति । सदा तदासीनस्यका कथावैवर्ये इतियुक्तियुक्तत्वाचज्ञेयं ॥ ५२ ॥ ६० [ पा० ] १ च. छ. घोरंयुद्धमवाप्य. २ च. छ. झ. ट. क्रुद्धोयुद्धकाङ्क्षी ३ च. झ ञ ट तेनतेवारुणाः क. घ. ज. तेनतेषांइयायेतेकामगाः ४ ख. घ. – ज. ट. पातिताः ५ च. छ. ञ. ट. समवारयन् ६ ख. च. – ट. मूच्छितः, घ, विष्ठितः क. दुस्सहः, ७ ङ. च. छ. झ ञ ट विह्वलान्समहाबलः ८ च. छ. ब्रह्मलोकंगतेनृपे, ख, रुद्रलोकंगतेनृपे.