पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्ग: २३ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । ततोपधार्य मायानां शतमेकं समाप्तवान् || सलिलेन्द्रपुरान्वेपी भ्रमति स रसातलम् ॥ १६ ॥ ततोश्मनगरं नाम कालकेयैरधिष्ठितम् || गत्वा तु कालकेयांश्च हत्वा तत्र बलोत्कटान् ॥ १७ ॥ शूर्पणख्याश्च भर्तारमसिना प्राच्छिनत्तदा || श्यालं च बलवन्तं च विद्युज्जि बलोत्कटम् || जिह्वया संलिहन्तं च राक्षसं समरे तथा ॥ १८ ॥ ५१ तं विजित्य मुहूर्तेन जघ्ने दैत्यांचतुःशतम् ॥ १९ ॥ ततः पाण्डुरमेघाभं कैलासमिव भास्वरम् || वरुणस्यालयं दिव्यमपश्यद्राक्षसाधिपः ॥ २० ॥ क्षरन्तीं च पयस्तत्र सुरभिं गामवस्थिताम् ॥ यस्याः पयोभिनिष्यन्दात्क्षीरोदो नाम सागरः ॥ २१ ॥ ददर्श रावणस्तत्र गोवृपेन्द्रवरारणिम् || यस्माञ्चन्द्रः प्रभवति शीतरश्मिर्निशाकरः ॥ २२ ॥ यं समाश्रित्य जीवन्ति फेनपाः परमर्षयः ॥ अमृतं यत्र चोत्पन्नं स्वैधा च स्वधभोजिनाम् ॥ २३ ॥ यां ब्रुवन्ति नरा लोके सुरभिं नाम नामतः ॥ प्रदक्षिणं तु तां कृत्वा रावण: परमाद्भुताम् || प्रविवेश महाघोरं गुप्तं बहुविधैर्बलैः ॥ २४ ॥ ततोधाराशताकीर्ण शारदाअनिभं तदा ॥ नित्यग्रहृष्टं ददृशे वरुणस्य गृहोत्तमम् ॥ २५ ॥ ततो हत्वा बलाध्यक्षान्समरे तैश्च ताडितः ॥ अब्रवीच्च ततो योधात्राजा शीघ्रं निवेद्यताम् ॥ २६ ॥ युद्धार्थी रावणः प्राप्तस्तस्य युद्धं प्रदीयताम् ॥ वर्दै वा न भयं तेऽस्ति निर्जितोस्मीति साञ्जलिः ||२७|| एतस्मिन्नन्तरे क्रुद्धा वरुणस्य महात्मनः ॥ पुत्राः पौत्राथ निष्क्रामन्गौच पुष्कर एव च ॥ २८ ॥ ते तु वीर्यगुणोपेता बलैः परिवृताः स्वकैः ॥ युङ्क्त्वा रथान्कामगमानुद्यद्भास्वरवर्चसः ॥ २९ ॥ ततो युद्धं समभवद्दारुणं रोमहर्षणम् || सलिलेन्द्रस्य पुत्राणां रावणस्य च धीमतः ॥ ३० ॥ अमात्यैश्च महावीर्यैर्देशग्रीवस्य रक्षसः || वारुणं तद्वलं कृत्स्नं क्षणेन विनिपातितम् ॥ ३१ ॥ समीक्ष्य स्वबलं सङ्ख्ये वरुणस्य सुतास्तदा || अर्दिताः शरजालेन निवृत्ता रणकर्मणः ॥ ३२ ॥ उपधार्य अनुसृत्य । मायानां असुरमायायोगविद्यानां | इन्दुत्पादकः क्षीरसमुद्र इत्यर्थः । एवमुत्तरत्रापि ॥ १६ ॥ तत इत्यादि श्लोकचतुष्कमेकं वाक्यं ||१७|| |यच्छन्दा व्याख्येयाः ॥ २२ ॥ स्वधभोजिनामिति । श्यालस्य च्छेदे निमित्तमाह | राक्षसान् स्वकीयान् हस्व आर्ष: । स्वधाभोजिनां पितॄणां । स्वधा पितृभक्षं जिह्वया संलिहन्तं आस्वादयन्तं भक्षयन्तमिति यावत् कव्यं ॥ २३-२४ ॥ धाराशताकीर्ण जलधाराशतै- ॥ १८--२० ॥ सुरमिमित्यत्रापि अपश्यदित्यनुकर्षः । राकीर्ण ॥ २५-२६ ॥ निर्जितोस्मीति वद । एवं सागर इति । समभवदिति शेषः ॥ २१ ॥ गोवृषेन्द्रस्य चेत्ते भयं नास्तीत्यत्रवीदिति निवेद्यतामित्यन्वयः रुद्रवृषभस्य वरारणिं साक्षान्मातरं । यस्माञ्चन्द्र इति । ॥ २७ ॥ गौश्च पुष्करश्चेति पुत्राणां पौत्राणां च बला- भगत्रवचनानन्तरं ॥ १४ ॥ स० उपधार्य अन्यैरन्येभ्यःप्रवचनकालेस्वयंश्रुत्वा | समाप्तवान् प्राप्तवान् । सखित्वेनानुसृत्येति नागोजिभव्याख्यानंरावणमानिताननुगुणमित्युपेक्ष्यं ॥ १६ ॥ ति० इयालवादिगुणकमपिविद्युज्जिह्वमच्छिनत् । श्यालोत्रभगि- नीपतिः | नृशंसत्वाद्रावणीयात्राक्षसान्जह्वयासंलिहन्तं | आस्वादयन्तं भक्षयन्त मितियावत् । स० विद्युजिह्वं नाम्ना | प्रमादेने- तिशेषः ॥ १८ ॥ ति० प्रहृष्टं प्रहृष्टजनं ॥ २५ ॥ ति० हत्वा अभिताज्य ॥ २६ ॥ ति० गौचपुष्करश्च पुत्राणां पौत्राणां चबलाध्यक्षौ ॥ स० पुत्राः साधारणाः । गौर्बलनायकः । पुष्करोहिज्येष्ठापत्यं । यथोक्तमुद्योगपर्वणिमातलिवरान्वेषणे - 'एषो- स्यपुत्रोऽभिमतः पुष्करः पुष्करेक्षणः | रूपवान्दर्शनीयञ्चसोमपुत्र्यावृतः पतिः । ज्योत्स्नाकालीतियां प्राहुर्द्वितीयांरूपतः श्रियम्' इति ॥ [ पा० ] १ क. ख. च. छ. ज. तत्रसंधार्य. २ क. भर्तारं स्वयमेवासिनाऽच्छिनत्. ३ क. ख. ज. शीतरश्मिः प्रजाहितः ४ च. छ. सुधाचसुरजीवनं. ५ च छ ततोबलगुणाकीर्णे ६ छ. भवतोनभयंतस्यनिर्जितो. ७ च. छ. पैतृगुणोपेताः. ग. ङ. च. छ. झ. ट. तत्रगुणोपेताः ८ क. रावणस्यचमन्त्रिणां.