पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकि रामायणम् । त्रयोविंशः सर्गः ॥ २३ ॥ रावणेन मारीचप्रभृतिभिः सहरसातले भोगवतीमेत्य वासुकिप्रमुख नागराजवशीकरणपूर्वकं निवातकवचानांपुरमेय तैःसहमहासमर॒मव॑र्तनम् ॥ १ ॥ तन्त्रान्यतरपराभवाभावेसत्वरमागतेनब्रह्मणा निवातकवचान्प्रत्युभयोः स्ववरमहिम्नाऽज- स्यत्वकथनेन तेषांरावणेनसहाग्निसाक्षिकंसख्यकरणम् ॥ २ ॥ ततोइमनगरंगतेनरावणेन कालकेयैःसहयुद्धे प्रमादाच्छूप- णखाभर्तुर्विद्युजिह्वस्य हननम् ॥ ३ ॥ ततोवरुणलोकंगतेनरावणेन रणसमाहूतेपुवरुणसुतेषु वरदप्तेनतेनरणधरण्यांपातितेषु सारथिभिस्तेषांगृहप्रापणम् ॥ ४ ॥ रावणेन रणायवरुणाह्वाने तन्मन्त्रिणाप्रहसेन वरुणब्रह्मलोके स्थिति निवेदने रावणेन जयघोषणपूर्वकं सहग्रहस्तादिभिर्लङ्कांप्रतिप्रस्थानम् ॥ ५ ॥ [ उत्तरकाण्डम् ७ ततो जित्वा दशग्रीवो यमं त्रिदशपुङ्गवम् || रावणस्तु रणश्लाघी स्वसहायान्ददर्श ह ॥ १॥ ततो रुधिरसिक्ताङ्गं प्रहारैर्जर्जरीकृतम् || रावणं राक्षसा दृष्ट्वा हृष्टवत्समुपागमन् ॥ २ ॥ जयेन वर्धयित्वा च मारीचप्रमुखास्ततः ॥ पुष्पकं भेजिरे सर्वे सान्त्विता रावणेन तु ॥ ३ ॥ ततो रसातलं गच्छन्प्रविष्टः पयसां निधिम् || दैत्योरगगणाध्युष्टं वरुणेन सुरक्षितम् ॥ ४ ॥ स तु भोगवतीं गत्वा पुरीं वासुकिपालिताम् || कृत्वा नागान्वशे हृष्टो ययौ मणिमयीं पुरीम् ॥५॥ निवातकवचास्तत्र दैत्या लब्धवरा वसन् || राक्षसांस्तान्समागम्य युद्धाय समुपाह्वयत् ॥ ६ ॥ ते तु सर्वे सुविक्रान्ता दैतेया बलशालिनः ॥ नानाप्रहरणास्तत्र ग्रहृष्टा युद्धदुर्मदाः ॥ ७ ॥ शूलैत्रिशूलै : कुलिशै: पट्टिशासिपरश्वधैः ॥ अन्योन्यं विभिदुः क्रुद्धा राक्षसा दानवास्तथा ॥ ८ ॥ तेषां तु युध्यमानानां साग्रः संवत्सरो गतः ॥ न चाँन्यतरयोस्तत्र विजयो वा क्षयोपि वा ॥ ९ ॥ ततः पितामहस्तत्र त्रैलोक्यगतिरव्ययः || आजगाम द्रुतं देवो विमानवरमास्थितः ॥ १० ॥ निवातकवचानां तु निवार्य रणकर्म तत् ॥ वृद्धः पितामहो वाक्यमुवाच विदितार्थवत् ॥ ११ ॥ न ह्ययं रावणो युद्धे शक्यो जेतुं सुरासुरैः ॥ न भवन्तः क्षयं नेतुमपि सामरदानवैः ॥ १२ ॥ राक्षसस्य सखित्वं च भवद्भिः सह रोचते || अविभक्ताश्च सर्वार्थाः सुहृदां नात्र संशयः ॥ १३ ॥ ततोग्निसाक्षिकं सख्यं कृतवांस्तत्र रावणः || निवातकवचैः सार्धं प्रीतिमानभवत्तदा ॥ १४ ॥ अर्थतस्तैर्यथान्यायं संवत्सरमथोषित: || स्वपुरानिर्विशेषं च प्रियं प्राप्तो दशाननः ॥ १५ ॥ हृष्टवत् यमादपि कथंचिन्मुक्ता इति हृष्टाः सन्तः | लव्धवराः । ब्रह्मणइतिशेषः ॥ ६-१० ॥ वृद्धः ॥ २–३ ॥ रसातलं गच्छन् पयसां निधिं प्रविष्टः । सर्वदेवासुरकूटस्थः । विदितार्थवत् वाक्यमित्यन्वयः मार्गवशादिति शेषः ॥ ४ ॥ भोगवती नाम समुद्राध: पाताललोकवर्तिनी नागपुरी । तत्र नागान् स्ववशे ॥ ११–१२ ॥ रोचते | कर्तव्यत्वेन ममेति शेषः । कृत्वा स्वीयत्वेन स्थापयित्वा ॥ ५ ॥ वसन् अवसन् | सख्यप्रयोजनं दर्शयति अविभक्ता इति ॥ १३-१५॥ । स० स्वसहायान् स्वेनसहागतान् ॥ १ ॥ ति० विस्मयमिति यमादपिमुक्तइति विस्मयः ॥ २ ॥ स० सान्विताः तेपितद्व- सहूतजर्झरीकृताः ॥ ३ ॥ ति० रसातलंजिगमिषुः पयसांनिधिप्रविष्टः । मार्गवशादितिशेषः | अध्युष्टं अध्युषितं ॥ ४ ॥ ति० लब्धवराः ब्रह्मणःसकाशादितिभावः । अतएवाग्रेभगवतातैः सहरावणस्य सख्यकरणं ॥ ६ ॥ स० शुलै: एकदलैः । त्रिशूलैः त्रिशिरस्कैः ॥ ८ ॥ स० अन्यतरतः राक्षसेभ्योदैत्यानां दैतेयेभ्योरक्षसां ॥ ९ ॥ स० विमानवरं हंसोढं ॥ १० ॥ ति० विदितार्थवत् सुस्पष्टावगताभिधेयं ॥ ११ ॥ स० रोचते कर्तव्यत्वेनमयमितिशेषः ॥ ति० सख्यफलमाह - अविभक्ताश्चेति । सर्वार्थाः धनधान्यादिसमस्तभोगोपकरणपदार्थाः जयाजयाद्यभिमानाश्च सुहृदाम विभक्ताः साधारणभूताः ॥ १३ ॥ ति० ततः [ पा० ] १ झ विस्मयंसमुपागमन्. २ क ख स्तन्त्रप्रययुर्युद्धदुर्मदाः ३ झ. चान्यतरतस्तत्र. सर्वार्थाः ५ क. ख. घ. ज. पूजांप्राप्तो. ४ च. छ. अविभागेन