पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

•सर्गः २२ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । वरः खलु मयैतमै दत्तस्त्रिदशपुङ्गव || स त्वया नानृतः कार्यो यन्मया व्याहृतं वचः ॥ ४१ ॥ यो हि मामनृतं कुर्याद्देवो वा मानुषोपि वा ॥ त्रैलोक्यमनृतं तेन कृतं स्यानात्र संशयः ॥ ४२ ॥ क्रुद्धेन विप्रमुक्तोयं निर्विशेषं प्रियाप्रिये || प्रजाः संहरते रौद्रो लोकत्रयभयावहः ॥ ४३ ॥ अमोघो ह्येष सर्वेषां प्राणिनाममितप्रभः || कालदण्डो मया सृष्टः पूर्वे मृत्युपुरस्कृतः ॥ ४४ ॥ तन्न खल्वेष ते सौम्य पात्यो रावणमूर्धनि || न ह्यस्मिन्पतिते कश्चिन्मुहूर्तमपि जीवति ॥ ४५ ॥ यदि ह्यस्मिन्निपतिते न म्रियेत राक्षसः || म्रियते वा दशग्रीवस्तदा ह्युभयतोनृतम् ॥ ४६ ॥ तन्निवर्तय लङ्केशं दण्डमेतं समुद्यतम् ॥ सत्यं च मां कुरुष्वाद्य लोकांस्त्वं यद्यवेक्षसे ॥ ४७ ॥ एवमुक्तस्तु धर्मात्मा प्रत्युवाच यमस्तदा || एप व्यावर्तितो दण्डः प्रभविष्णुर्हि नो भवान् ॥ ४८ ॥ किं न्विदानीं मया शक्यं कर्तुं रणगतेन हि ॥ न मया यद्ययं शक्यो हन्तुं वरपुरस्कृतः ॥ ४९ ॥ एप तस्मात्प्रणश्यामि दर्शनादस्य रक्षसः || इत्युक्त्वा सरथः साश्वस्तत्रैवान्तरधीयत ॥ ५० ॥ दशग्रीवस्तु तं जित्वा नाम विश्राव्य चात्मनः ॥ आरुह्य पुष्पकं भूयो निष्क्रान्तो यमसदनात् ॥५१॥ स तु वैवस्वतो देवैः सह ब्रह्मपुरोगमैः ॥ जगाम त्रिदिवं हृष्टो नारदश्च महामुनिः ॥ ५२ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे द्वाविंशः सर्गः ॥ २२ ॥ ५७ न्मि । अविलम्बेन हन्मीत्यर्थः ॥ ३३-४१ ॥ अनृतं | एष इति | प्रणश्यामि " णश अदर्शने " अन्तर्हितो असत्यवादिनं कुर्यात् । मृत्युपुरस्कृत: मृत्युना पुरस्कृतः । | भविष्यामीत्यर्थः । इत्युक्त्वेति । ब्रह्माणमिति शेषः बहुव्रीहिश्च ॥ ४२–४५ ॥ उभयतोनृतं मया काल- दण्डस्य मोघत्वसंपादने दण्डस्यानृतत्वं रक्षोमरणोपे क्षणे वरवचनस्यानृतत्वमिति ।। ४६-४७ ॥ प्रभवि- ष्णुः स्वामी ॥४८॥ यद्यस्मान्मया न हन्तव्यस्तस्मा- दिदानीं मया किंतु शक्यं कर्तुमिति । संचिन्त्येति शेषः ॥ ४९ ॥ अस्य रक्षसो दर्शनात् दर्शनपथात् । ॥ ५०-५१ ॥ वैवस्वतः ब्रह्मपुरोगमैर्देवैः हृष्टः अभूदिति शेषः ॥ ५२ ॥ इति श्रीगोबिन्दराजविर- चिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तर- काण्डव्याख्याने द्वाविंशः सर्गः ॥ २२ ॥ ति० वरः देवगणावध्यत्वरूपः ॥ ४१ | अनृतं अनृतवचनं । कुर्यात् । मदाज्ञामुल्लइयेतिशेषः | त्रैलोक्यमिति । सर्वसम- टित्वान्ममेतिभावः ॥ ४२ ॥ ति० ननुत्वद्दत्तवरतयात व प्रियोयदिरावणस्तर्हिमुक्तोपिकालदण्डः किं कुर्यात्तत्राह — क्रुद्धेनेति । प्रियाप्रिये समाहारद्वन्द्वः । मत्प्रियाप्रियप्राणिविषये कुद्धेनत्वयाऽयंविप्रमुक्तः स्वविषयभूताः ताः सर्वाः प्रजाः निर्विशेषंयथाभव- तितथा संहरतएव || शि० संहरते संहरिष्यति ॥ स० लोकान्तकरावणमारणंभवतुवामावा जगल्लयस्तुस्यादित्याह- क्रुद्धेनेति ॥ ४३ || स० सर्वमृत्युपुरस्कृतः सर्वेमृत्यवोमारकास्तेषु पुरस्कृतः अग्रेसरः | कालदण्डस्येवरावणस्यमयैवामोधीकरणानान्यत रंव्याहतिःसंपाद्येतिभावः ॥ ४४ ॥ ति० तंजित्वा भगवत्कृपयेतिशेषः ॥ स० जिल्ला जिलेव ॥ ५१ ॥ ति० ब्रह्मणः सत्यप- रिपालनंसंवृत्तमितियमादीनांहर्षः ॥ स० हृष्टः ब्रह्मपुरस्करणे नरणेक्षेमी राक्षसोनममाक्षमतयेतिहः ॥ ५२ ॥ इति द्वाविंशः सर्गः ॥ २२ ॥ [ पा० ] १ च. छ. सर्वमृत्युपुरस्सरः• २ क. ख. घ. किंलिदानीं. ३ छ. तस्मात्पलायिष्ये. वा. रा. २४८