पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

111 11 श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ रांक्षसेन्द्रोपि विस्फार्य चापमिन्द्राशनिप्रभम् || निरन्तरमिवाकाशं कुर्वन्वाणांस्ततोसृजत् ॥ २२ ॥ मृत्युं चतुर्भिर्विशिखैः सृतं सप्तभिरर्दयत् ॥ यमं शतसहस्रेण शीघ्रं मर्मस्वताडयत् ॥ २३ ॥ ततः क्रुद्धस्य वदनाद्यमस्य समजायत || ज्वालामाली सनिश्वास सधूम: कोपपावकः ॥ २४ ॥ तदाश्चर्यमथो दृष्ट्वा देवदानवसन्निधौ || ग्रहर्षितौ सुसंरब्धौ मृत्युकालौ बभूवतुः ॥ २५ ॥ ततो मृत्युः क्रुद्धतरो वैवस्वतमभाषत || मुञ्च मां समरे यावद्धन्मीमं पापराक्षसम् || नैषा रक्षोभवेदद्य मर्यादा हि निसर्गतः ॥ २६ ॥ हिरण्यकशिपुः श्रीमान्नमुचिः शम्बरस्तथा ॥ विसंधिधूमकेतुश्च बलिर्वैरोचनोपि च ॥ दभुँदैत्यमहाराजो वृत्रो बाणस्तथैव च ॥ २७ ॥ राजर्षयः शास्त्रविदो गन्धर्वाः समहोरगाः ॥ ऋषयः पन्नगा दैत्या यक्षाश्चाप्यप्सरोगणाः ॥ २८ ॥ युगान्तपरिवर्ते च पृथिवी समहार्णवा ॥ क्षयं नीता महाराज सपर्वतसरिद्रुमा ॥ २९ ॥ एते चान्ये च बहवो बलवन्तो दुरासदाः || विनिपना मया दृष्टाः किमुतायं निशाचरः ॥ ३० ॥ सुश्च मां साधु धर्मज्ञ यावदेनं निहन्म्यहम् || न हि कश्चिन्मया दृष्टो बलवानपि जीवति ॥ ३१ ॥ बलं मम न खल्वेतन्मर्यादेपा निसर्गतः ॥ स दृष्टो न मया कालं मुहूर्तमपि जीवति ॥ ३२ ॥ तस्यैवं वचनं श्रुत्वा धर्मराजः प्रतापवान् || अब्रवीत्तत्र तं मृत्युं त्वं तिष्ठैनं निहन्म्यहम् ॥ ३३ ॥ ततः संरक्तनयनः क्रुद्धो वैवस्वतः प्रभुः ॥ कालदण्डममोधं तु तोलयामास पाणिना ॥ ३४ ॥ यस्य पार्श्वेषु निखिला: कालपाशाः प्रतिष्ठिताः ॥ पावकाशनिसंकाशो मुद्रो मूर्तिमास्थितः ||३५|| दर्शनादेव यः प्राणान्प्राणिनामकर्षति || पुनःस्पृश्यमानस्य पात्यमानस्य वा पुनः ॥३६॥ स ज्वालापरिवारस्तु निर्दहन्निव राक्षसम् || तेर्नं स्पृष्टो बलवता महाप्रहरणोऽस्फुरत् ॥ ३७ ॥ ततो विदुद्रुवुः सर्वे तस्मात्रस्ता रणाजिरे || सुराच क्षुभिताः सर्वे दृष्ट्वा दण्डोद्यतं यमम् ॥ ३८ ॥ तस्मिन्प्रहर्तुकामे तु यमे दण्डेन रावणम् || यमं पितामहः साक्षादर्शयित्वेदमत्रवीत् ॥ ३९ ॥ बैवस्वत महाबाहो न खल्वमितविक्रम || न हन्तव्यस्त्वया तेन दण्डेनैव निशाचरः ॥ ४० ॥ २६ || दम्भुर्नाम कश्चिदसुरः || २७ – २९|| विनिपन्नाः | मद्वचनं बलं न खलु बलप्रकाशनं न भवति । किंतु विनाशं प्राप्ताः । दृष्टाः दृष्टमात्राः ॥ ३० ॥ यावन्नि- निसर्गतः स्वभावतः सिद्धा मर्यादा एषा | अनादि- हन्मि निहनिष्यामीत्यर्थः । यावद्योगे भविष्यदर्थे सृष्टिरेवंविधेत्यर्थः । उक्तमर्थमुपसंहरति-स दृष्ट लटू || ३१ || मयां दृष्टो मुहूर्तमपि न जीवतीत्येतत् | इति ॥ ३२ ॥ अयमेनं निहन्म्यहं अहमेनमयं निह- ति० ततःक्रुद्धस्येत्यनेनैतावत्पर्यन्तंभगवान्यमः ब्रह्मवरदान॑स्मृत्वा मारणबुद्धिविहाय युद्धमात्रंकृतवानितिसूचितं ॥ २५ ॥ ति० प्रहर्षितौ युद्धायेतिशेषः || सुसंरब्धौ अतिक्रुद्धौ ॥ २५ ॥ मुञ्च आज्ञापयेत्यर्थः ॥ २६ ॥ ति० निसर्गतः स्वभावसिद्धाह्येषादृष्टा । मया एतद्रक्षोनभवेत् नजीवेत् । इत्येवंरूपामर्यादाम मेत्यर्थः । तदेवाह - हिरण्येति । शंभुः कुशध्वजब्रह्मर्षिहन्तादैत्यः ॥ २७ ॥ ति० विनिपन्नाः विनिपातं विनाशंप्राप्ताः | दृष्टाः दृष्टमात्राएव ॥ ३० ॥ ति० ममवचनं बलं बलप्रकाशनमात्र परंनखल । यतो निसर्गतः अनादिसृष्टिस्वभावेन । एषाममदृष्टिरेवप्राणिनांजीवितस्य मर्यादा | यदेवमतः सदृष्टइति संहारचक्षुषादृष्टइत्यर्थः ॥ ३२ ॥ ति० मूर्तिमान्स्थितः । यस्यपार्श्वइत्यनुषङ्गः ॥ ३५ ॥ ति० महाप्रहरणः महान्त्यवान्तराणिप्रहरणानियस्यसकालदण्डः | एवंचेत् ' आयुधंतुप्रहरणं' इत्यमरोनुकूलितोभवति ॥ ३७ || ति० दण्डोद्यतं उद्यतदण्ड ॥ ३८ ॥ स० दर्शयित्वा आत्मानं ॥ ३९ ॥ ति० नजदूये ननहन्तव्यो नहन्तव्यइत्यावृत्तिः ॥ ४० ॥ [ पा० १ क. ख. घ. ज. राक्षसेन्द्रस्ततःक्रुद्धश्चापमायम्यसंयुगे २ झ शंभुदैँय. ३ च. छ. न्मयास्पृष्टोबलवानपि. ४ ग. ङ. च, छ. झ. न. ट. निहिताः ५ क. ख. घ. ज. किंपुनस्ताडनात्स्पर्शात्पीडनाद्वापिदेहिनः ६ क. ख. घ. च. ज. करस्पृष्टोबलवतादण्डःक्रुद्धः सुदारुणः ७. क. घ. ज. सत्वास्तस्माद्रणाजिरातू. ८ क ख ध. ज. प्रहर्तव्यस्त्वया,