पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः २२ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । ५५ स हि योधान्हतान्मत्वा क्रोधसंरक्तलोचनः ॥ अब्रवीत्वरितं सूतं रथोऽयमुपनीयताम् ।। २ ।। तस्य सूतस्तदा दिव्यमुपस्थाप्य महारथम् । स्थितः स च महातेजा हँध्यारोहत तं रथम् ।। पाशमुद्भरहस्तश्च मृत्युस्तस्याग्रतः स्थितः ।। ३ ।। येन संक्षिप्यते सर्वं त्रैलोक्यमिदमव्ययम् । कालदण्डस्तु पार्श्वस्थो मूर्तिमानस्य चाभवत् ॥ यमप्रहरणं दिव्यं तेजसा ज्वलदग्मित् ॥ ४ ॥ तस्य पाश्धेषु निश्छिद्राः कालपाशाः प्रतिष्ठिताः । पावकस्पर्शसंकाशः स्थितो मूर्तश्च मुद्भरः ॥५॥ ततो लोकत्रयं क्षुब्धमकम्पन्त दिवौकसः । कालं दृष्टा तथा कुद्धं सर्वलोकभयावहम् ।। ६ ।। ततः प्रचोदयन्सूतस्तानश्चात्रुधिरप्रभान् । प्रययौ भीमसन्नादो यत्र रक्ष:पतिः स्थितः ॥ ७ ॥ मुहूर्तेन यमं ते तु हृया हरिहयोपमाः ॥ प्रापयन्मनसस्तुल्या यत्र तत्प्रस्तुतं रणम् ॥ ८ ॥ दृष्टा तथैव विकृतं रथं मृत्युसमन्वितम् । सचिवा रौक्षसेन्द्रस्य सहसा विप्रदुद्रुवु ।। ९ ।। [ भ्यधावन्त संक्रुद्धा बलिनोतिभयंकराः ॥] लघुसत्त्वतया ते हि नष्टसंज्ञा भयार्दिताः । नेहैं योढुं समर्थाः स्म इत्युक्त्वा प्रययुर्देिशः ॥ १० ॥ स तु तं तादृशं दृष्टा रथं लोकभयावहम् ॥ नाक्षुभ्यत दशग्रीवो न चापि भयमाविशत् ।। स तु रावणमासाद्य व्यसृजच्छक्तितोमरान् । यमो मुर्माणि संक्रुद्धो रावणस्योपकृन्तत ॥ १२ ॥ [मैर्मसु च्छिद्यमानेषु रावणो राक्षसेश्वरः ।। सहंस्तस्थौ रुजं घोरां भिद्यमान इवाचलः ॥ १३ ॥] रावणस्तु ततः स्वस्थः शरवर्षे मुमोच ह । तस्मिन्वैवस्खतरथे तोयवर्षमिवाम्बुदः ।। १४ ।। [शैरास्ते वज्रसंकाशाश्छादयन्ति रणे यमम् ॥ यथाऽचलं महाघोरा नानावर्णा वलाहकाः ॥१५॥ तान्निहत्य शूरांस्तूर्ण रावणस्य यमः खयम् । ततः प्रहरणं घोरं मुमोचारिनिघूदनः ॥ १६ ।।] ततो महाशक्तिशरैः पाल्यमानो महोरसि ॥ नाशक्रोत्प्रतिकर्तु स राक्षसः शैल्यपीडितः ॥ १७ ।। एवं नानाप्रहरणैर्यमेनामित्रकर्शिना ।। सप्तरात्रं कृतः सङ्खये विसंज्ञो विमुखो रिपुः ॥ १८ ॥ तदासीतुमुलं युद्धं यमराक्षसयोर्द्धयोः ॥ जयमाकाङ्कतोर्वीर समरेष्वनिवर्तिनोः ॥ १९ ॥ ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः । प्रजापतिं पुरस्कृत्य समेतास्तद्रणाजिरम् ॥ २० ॥ संवर्त इव लोकौनां कुध्यतोरभवत्तदा ।। राक्षसानां च मुख्यस्य प्रेतानामीश्वरस्य च ॥ २१ ॥ उपनीयतामित्यब्रवीदित्यन्वय ।। २-३ । येन | नित्यत्र चो इति गायत्री ।। ७ ॥ मनस्तुल्याः मनस्तु मृत्युना । युगान्ते सर्व सकृदेव संह्रियत इत्यर्थ अव्ययं प्रवाहनित्यं ।। ४ । निश्छिद्राः निरन्तराः | इत्यर्थः ।। ल्यवेगा ८ । विकृतं घोरसन्नाहरूपविका ॥ ५-६ । ततः प्रचोदयन्सूतस्तान्हयान्रुधिरप्रभा - | रवन्तं ॥ ९ ॥ लघुसत्वतया अल्पवीर्यतया ॥१० ति० उपनीयतामित्यब्रवीदित्यन्वयः ॥ २ ॥ स० यमंविनाऽव्ययमितिवा ॥ ४ ॥ ति० प्रस्तुतं प्रारब्धं ॥ ७ ॥ ति० सप्तरात्रं युद्धंकृखेतिशेषः । शि० सप्तरात्रंविसंज्ञोविमुखश्चाभवत् ।। १८ । ति० समेताः प्राप्ताः । शि० समेताः बभूवुरिति शेषः ॥ २० ॥ स० संवर्तः प्रलय ॥ २१ ॥ [पा०] १ क. ख. ज. क्रोधयाकुलेक्षणः. २ ड. झ. अ. ट. खरितःसूतंरथोमेउपनीयतां. च. छ. खरितःसूर्तरथोमेयु यतामिति. क. ख. ज. त्वरितःसृतं रथःसमुपनीयतां ३ क. ख. घ. ज. सूतोरथंदिव्यं . ४ क. ख. घ. महाखनं ५ क. ख. घ. आरुरोहमहारथं.६ क. ख.घ.ज. मूर्तिमान्स्यन्दनोत्तमे.७ क. दिव्यंप्रहसन्निवतेजसा.ख. दिव्यंप्रतपन्स्वेनतेजसा घ. दिव्यंप्रदहन्निवतेजसा.८ क. तेदृष्ट्रापाशसंयुक्तंरथं. ९ क. घ. राक्षसेन्द्रस्यसर्वलोकभयावहं. १० इदमधैं. घ. पाठेदृश्यते ११ क. ध. नात्र. १२ अयंश्लोकः क. ख. घ. ज. पाठेषुदृश्यते. १३ इदंश्लोकद्वयं क. ख. घ. ज. पाठेषुदृश्यते. १४ च. शरपीडितः, १५ च ट, लोकानांयुध्यतोरभवत्तदा. क. ख. घ. लोकानामभवद्युध्यतोस्तयो