पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५४ श्रीमद्वाल्मीकिरामायणम् । ते तु शोणितदिग्धाङ्गाः सर्वशस्रसमाहृताः ॥ अमात्या राक्षसेन्द्रस्य चकुरायोधनं महत् ॥ २९ ॥ अन्योन्यं ते महाभागा जघुः प्रहरणैभृशम् ॥ यमस्य च महाबाहो रावणस्य च मत्रिणः ॥ ३० ॥ अमात्यांस्तांस्तु संत्यज्य यमयोधा महाबलाः ॥ तमेव चाभ्यधावन्त शूलवषैर्देशाननम् ॥ ३१ ॥ ततः शोणितदिग्धाङ्गः प्रहारैर्जरीकृतः ॥ फुलाशोक इवाभाति पुष्पके राक्षसाधिपः ।। ३२ ॥ स तु शूलगदाप्रासाञ्छक्तितोमरसायकान् । मुसलानि शिला वृक्षान्मुमोचास्रबलाद्धली ॥ ३३ ॥ तरूणां च शिलानां च शस्राणां चातिदारुणम् । यमसैन्येषु तद्वर्ष पैपात धरणीतले ।। ३४ ।। तांस्तु सर्वान्विनिर्भिद्य तदस्रमपहत्य च ॥ जघुस्ते राक्षसं घोरमेकं शतसहस्रशः ॥ ३५ ॥ परिवार्य च तं सर्वे शैलं मेघोत्करा इव ॥ भिन्दिपालैश्च शूलैश्च निरुच्छूासमपोथयन् ॥ ३६ ॥ विमुक्तकवचः कुद्धः सिक्तः शोणितविस्रवैः । ततः स पुष्पकं त्यक्त्वा पृथिव्यामवतिष्ठत ॥३७॥ ततः स कार्मुकी बाणी समरे चैवाभिवर्तत ॥ लब्धसंज्ञो मुहूर्तेन कुद्धस्तस्थौ यथाऽन्तकः ॥ ३८ ॥ ततः पाशुपतं दिव्यमस्त्रं संधाय कार्मुके ॥ तिष्ठ तिष्ठति तानुक्त्वा तचापं विचकर्ष सः ॥ ३९ ॥ आकर्णात्स विकृष्याथ चापमिन्द्रारिराहवे । मुमोच तं शरं कुद्धत्रिपुरे शंकरो यथा ॥ ४० ॥ तस्य रूपं शरस्यासीद्विधूमज्वालमण्डलम् । वनं दहिष्यतो घर्मे दावाग्रेरिव मूच्र्छतः ॥ ४१ ॥ ज्वालामाली स तु शरः क्रव्यादानुगतो रणे ॥ मुक्तो गुल्मान्दुमांश्चापि भस्म कृत्वा प्रधावति ॥४२॥ ते तस्य तेजसा दग्धाः सैन्या वैवस्वतस्य तु ।। रैणे तस्मिन्निपतिता देंावदग्धा नगा इव ॥ ४३ ॥ ततस्तु सचिवैः सार्ध राक्षसो भीमविक्रमः । ननाद सुमहानादं कम्पयन्निव मेदिनीम् ।। ४४ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकविंशः सर्गः ॥ २१ ॥ [ उत्तरकाण्डम् ७ द्वाविंशः सर्गः ॥ २२ ॥ रावणकृतनिजसेनासंक्षयक्षुभितेनयमेन मृत्युप्रभृतिभिःसह साटोपंरावणेनसहमहारणप्रवर्तनम् ॥ १ ॥ मृत्युना प्रबलीभ स्वनियोजनमर्थितेनयमेन तत्प्रतिषेधपूर्वकंरावणसंजिहीर्षया निजचण्डदण्डोद्यमने सत्बरमाविर्भूतेनत्र ह्मणा तंप्रति दण्डरावणयोरुभयोरपिस्वदत्तवरतयाऽन्यतरपराभवे स्बस्यानृतवचनत्वोक्तया रावणेदण्डपातनप्रतिषेधनम् ॥२॥ यमे तद्वचनगौरवेणरथादिभिः सहान्तर्धानंगते रावणेन जयघोषणपूर्वकंपुष्पकारोहणेननिर्गमनम् ॥ ३ ॥ स तस्य तु महानादं श्रुत्वा वैखतः प्रभुः । शत्रु विजयिनं मेने खबलस्य च संक्षयम् ॥ १ ॥ ३४ ॥ तदस्त्रं रावणप्रयुक्तं प्रागुक्तशस्रवर्षसाधकं । | विरचिते श्रीमद्रामायणभूषणे . मणिमुकुटाख्याने अपहत्य निरस्य ॥ ३५-४१ ॥ क्रव्यादैः खस्टै- |उत्तरकाण्डव्याख्याने एकविंशः सर्गः ॥ २१ ॥ रनुगतस्तथा ॥ ४२-४४ ॥ इति श्रीगोविन्दराज ति० आयोधनं युद्धं ॥ २९ ॥ ति० सरावणोस्रबलात् अस्रसामथ्र्यात् । शूलादीन्मुमोच ॥ शि० स रावणः शलादीन्मुमोच शिलावृक्षांश्चमुमोच ॥ ३३ ॥ ति० तद्वर्ष रावणविसृष्टशस्रवर्ष । यमसैन्येषुपतिखा धरणीतलेपपात ॥ ३४ ॥ ति० तान् शल गदाप्रासादीन् । विनिर्भिद्य भङ्क्त्वा ॥ ३५ ॥ ति० निरुच्छासंयथाभवतितथा रावणेशरैरपोथयन् ॥ ३६ ॥ शि० अभिव धेत अभ्यवर्धत । उत्साहवानभवदित्यर्थः । अतएवतस्थौ ॥३८॥ स० मूच्र्छतः उच्छायंगतस्य ॥४१॥ स० नादस्यसुमहत्त्वं जयतः ॥ ४५ ॥ इत्येकविंशःसर्गः ।। २१ ।। [पा० ] १ ड. झ. ल. ट. मुमोचशिलावृक्षान्, २ क.-घ. ज. पपातातिभयंकरं. ३ ट चाभिवर्धत. ४ ड. च. छ झ. ट. बलेतस्मिन्नू. ५ ड. च. छ. झ. अ. ट. पतितामाहेन्द्राइवकेतवः. ६ क. ख. घ. ज. वैवखतोयमः