पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः २१ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकतम् । एतस्मिन्नन्तरे दूरादंशुमन्तमिवोदितम् ।। ददर्श दीप्तमायान्तं विमानं तस्य रक्षसः ।। ८ ।। तं देशं प्रभया तस्य पुष्पकस्य महाबलः ।। कृत्वा वितिमिरं सर्वे समीपं सोभ्यवर्तत ॥ ९ ॥ सोपश्यत्सुमहाबाहुर्दशग्रीवस्ततस्ततः । प्राणिनः सुकृतं कर्म भुञ्जानांश्चैव दुष्कृतम् । १० ॥ अपश्यत्सैनिकांश्चास्य यमस्यानुचरैः सह ॥ यमस्य पुरुषैरुप्रैघोररूपैर्भयानकैः ॥ ११ ॥ ददर्श वध्यमानांश्च विश्यमानांश्च देहिनः ।। क्रोशतश्च महानादं तीव्रनिष्टनतत्परान् ।। कृमिभिर्भक्ष्यमाणांश्च सारमेयैश्च दारुणैः ॥ १२ ॥ श्रोत्रायासकरा वाचो वदतश्च भयावहाः ।। संतार्यमाणान्वैतरणीं बहुशः शोणितोदकाम् ॥ १३ ॥ वालुकासु च तप्तासु तप्यमानान्मुहुर्मुहुः ॥ असिपत्रवने चैव भिद्यमानानधार्मिकान् ॥ १४ ॥ रौरवे क्षारनद्यां च क्षुरधारासु चैव हि ॥ पानीयं याचमानांश्च तृषितान्क्षुधितानपि ॥ १५ ॥ शवभूतान्कृशान्दीनान्विवर्णान्मुक्तमूर्धजान् ॥ मलपङ्कधरान्दीनाचूक्षांश्च परिधावतः ।। ददर्श रावणो मार्गे शतशोथ सहस्रशः ।। १६ ।। कांश्चिच गृहमुख्येषु गीतवादित्रनिस्वनैः । प्रमोदमानानद्राक्षीद्रावणः सुकृतैः स्वकैः । । १७ ।। गोरसं गोप्रदातारो ह्यन्नं चैवान्नदायिनः । गृहांश्च गृहदातारः स्वकर्मफलमश्नतः ।। सुवर्णमणिमुक्ताभिः प्रमदाभिरलंकृतान् ।। १८ ।। धार्मिकानपरांस्तत्र दीप्यमानान्खतेजसा ।। ददर्श सुमहाबाहू रावणो राक्षसाधिपः ।। १९ ।। ततस्तान्भिद्यमानांश्च कर्मभिदुष्कृतैः खकैः ॥ रावणो मोचयामास विक्रमेण बलाद्धली ॥ २० ॥ प्राणिनो मोचितास्तेन दशग्रीवेण रक्षसा । सुखमापुर्मुहूर्त ते ह्यतर्कितमचिन्तितम् ॥ २१ ॥ प्रेतेषु मुच्यमानेषु राक्षसेन महीयसा । प्रेतगोपाः सुसंकुद्धा राक्षसेन्द्रमभिद्रवन् ॥ २२ ॥ ततो हलहलाशब्दः सर्वदिग्भ्यः समुत्थितः ॥ धर्मराजस्य योधानां शूराणां संप्रधावताम् ॥ २३ ॥ ते प्रासैः परिधैः शूलैर्मुसलैः शक्तितोमरैः । पुष्पकं समवर्षन्त शूराः शतसहस्रशः ।। २४ ॥ । तस्यासनानि प्रासादान्वेदिकास्तोरणानि च । पुष्पकस्य बभञ्जुस्ते शीघ्र मधुकरा इव ॥ २५ ॥ देवैनिष्ठानभूतं तद्विमानं पुष्पकं मृधे । भज्यमानं तथैवासीदक्षयं ब्रह्मतेजसा ॥ २६ ॥ असंख्या सुमहल्यासीत्तस्य सेना महात्मनः । शूराणामुग्रयातृणां सहस्राणि शतानि च ॥ २७ ॥ ततो वृझैश्च शैलैश्च प्रासादानां शतैस्तथा ।। ततस्ते सचिवास्तस्य यथाकामं यथाबलम्। अयुध्यन्त महावीराः स च राजा दशाननः ।। २८ ।। प्रहरणमायुधं यस्य तस्य तव किंनु भविष्यतीति । | निष्टनः क्रूरशब्दः ॥ १२ ॥ संतायेंमाणान्वैत जयोऽपजयो वेत्यर्थः ।। ७-११ ॥ तीव्रो | रणीमिति संज्ञापद्वशात्पादाक्षराधिक्यं ।। १३ मित्यादि । लोकेइतिशेषः ॥ ४ ॥ स० यद्यपिप्राणिनःसुकृतंदुष्कृतमितिनिर्देशक्रमानुगुण्यायपूर्वगृहमुख्येष्वित्यादितत्फलमभिल. पनीयं । तथापिव्युत्क्रमोदुष्कृतिनांबाहुल्यात्कृतः । तत्रमहाफलखेनाभ्यर्हितखात्पूर्वसुकृतंकृतग्रहणमितिविवेकः ॥ १७ ॥ ति० गृहृदातारः गृहदातृन् । अश्रतः उपभुञ्जानान् ॥ १८ ॥ ति० भिद्यमानान् पीड्यमानान् । वध्यमानानितिपाठान्तरं ॥ स० विक्रमेण यमाज्ञाद्यतिक्रमेण । तत्रहेतुर्बलीति । बलातू यमदूतसेनातः ।। २० । ति० चिन्तितमिति अतर्कितमित्यसैयैवविव रणं ॥ स० अचिन्तितमितिसुखविशेषणं । अतर्कितं खतर्कणाविषयत्वंविनायथाभवतितथा मुच्यमानेषुप्रेतेष्वित्यन्वयः ।। २१ ।। प्रेतगोपाःप्रेतरक्षकाः ॥ २२ ॥ ति० देवनिष्ठानभूतं देवाधिष्ठानभूतं । भज्यमानमपितथैवासीतू अभन्नमासीत् ॥ २६ ॥ शिा० शूराणांशतानिसहस्राणि अभवन्नितिशेषः । तस्य यमस्य । सेनासुमहती । अतएव असंख्या संख्यातुमशक्याऽऽसीत् ॥ २७ ॥ [ पा०] १ क. ग. घ. ज. समीपसमवंत. झ. ज. ट, समीपमभ्यवर्तत २ क. ख. घ. रावणोमल्यञ्शतशोथ ३ क.-छ. अ. देवाधिष्ठानभूतं. ज. देवतास्थानभूतं