पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । नारदस्तु महातेजा मुहूर्त ध्यानमास्थितः । चिन्तयामास विप्रेन्द्रो विधूम इव पावकः ॥ २७ ॥ येन लोकास्त्रयः सेन्द्राः किश्यन्ते सचराचराः ॥ क्षीणे चायुषि धर्मेण स कालो जेष्यते कथम् ॥२८ खदत्तकृतसाक्षी यो द्वितीय इव पावकः ।। लब्धसंज्ञा विजेष्यन्ते लोका यस्य महात्मनः ॥ २९ ॥ यस्य नित्यं त्रयो लोका विद्रवन्ति भयार्दिताः । तं कथं राक्षसेन्द्रोसौ स्वयमेव गमिष्यति ॥३०॥ यो विधाता च धाता च सुकृतं दुष्कृतं तथा । त्रैलोक्यं विजितं येन तं कथं विजयिष्यते ॥३१॥ ॐपरं किंतु कृत्वाऽयं विधानं संविधास्यति । कौतूहलसमुत्पन्नो यास्यामि यमसादनम् ।। विमर्द द्रष्टुमनयोर्यमराक्षसयोः स्वयम् ॥ ३२ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे विंशः सर्गः ।। २० ।। एकविंशः सर्गः ॥ २१ ॥ [ उत्तरकाण्डम् ७ यमेन स्वभवनमागतंनारदंप्रत्यभिवादनपूर्वकमागमनप्रयोजनप्रश्नः ॥ १ ॥ नारदेन तंप्रति रणायरावणागमननिवेदनेन सञ्जीभवनचोदना ॥ २ ॥ अत्रान्तरेसंयमनींप्रविष्टेनरावणेन यमभटपीड्यमाननानानारकेिजन विमोचनम् ॥ ३ ॥ ततोरु धैर्यमभटैः सप्रतिरोधमायोधने रावणेन पाशुपतास्रप्रयोगेणयमसेनाविध्वंसनपूर्वकमुचैर्गर्जनम् ॥ ४ ॥ एवं संचिन्त्य विप्रेन्द्रो जगाम लघुविक्रमः । आख्यातुं तद्यथावृत्तं यमस्य सदनं प्रति ।। १ ।। अपश्यत्स यमं तत्र देवमन्निपुरस्कृतम् ॥ विधानमुपतिष्ठन्तं प्राणिनो यस्य यादृशम् ॥ २ ॥ स तु दृष्टा यमः प्राप्त महर्षि तत्र नारदम् ॥ अब्रवीत्सुखमासीनमध्येमावेद्य धर्मतः ॥ ३ ॥ कचित्क्षेमं तु देवर्षे कचिद्धर्मो न नश्यति ॥ किमागमनकृत्यं ते देवगन्धर्वसेवित ॥ ४ ॥ अब्रवीतु तदा वाक्यं नारदो भगवानृषिः । श्रूयतामभिधास्यामि विधानं च विधीयताम् ।। ५ ।। एष नाम्रा दशग्रीवः पितृराज निशाचरः । उपयाति वशं नेतुं विक्रमैस्त्वां सुदुर्जयम् ।। ६ ।। एतेन कारणेनाहं त्वरितो ह्यागतः प्रभो ।। दण्डग्रहरणस्याद्य तव किंनु भविष्यति ।। ७ ।। दित्यर्थः ।॥२३-२८॥ खदत्तं खकृतं च । स्वदत्तस्व- | विन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटा कृतशब्देन कायङ्केशरूपं तपः महात्मनः अनुप्रहादिति | ख्याने उत्तरकाण्डव्याख्याने विंशः सर्गः ।। २० ।। शेषः ॥२९-३०॥ धाता विधाता सामान्यतो विशे षतश्च कर्ता।॥३१॥ अपरमिति । काल एव सर्वसाधनं। | अन्नि: पुरस्कृतः साक्षितया येनासौ अन्निपुरस्कृत अयं तु कालातिरिक्तमपरं किं विधानं साधनसंपादनं | तं । प्राणिनो विधानं निग्रहानुग्रहकृत्यं । उपतिष्ठन्तं कृत्वा कालजयं संविधास्यतीत्येवं कौतूहलसमुत्पन्नोहं | अनुतिष्ठन्तं ।। २-४ । विधानं मत्तः श्रुतापद् यमस्य सदनं द्रष्टुं यास्यामि ॥ ३२ ॥ इति श्रीगो- | प्रतिक्रियामित्यर्थः ।। ५-६ । दण्डः कालदण्डः ति० आयुषिक्षीणेसति धर्मेण धर्ममार्गेण । त्रयोलोकायेनक्रुिश्यन्ते दण्ड्यन्ते । सकालः , कथमनेनजेष्यते ॥ २८ ॥ ति० यश्चकालः प्राणिनां खदत्तंचखकृतंचखदत्तकृते तयो:साक्षी । दत्तं ज्ञानं । इदंविहितयागादेरप्युपलक्षणं । कृतशब्देनकायझेशरूपं तपः । सकथंजेष्यतइतिसंबन्धः ॥ यस्यलब्धसंज्ञा यतोलब्धसंज्ञाविचेष्टन्ते व्यवहरन्तीत्यर्थः । यद्वा यस्यमहात्मनः । अनुप्र हादितिशेषः ॥ २९ ॥ ति० विजयिष्यते विजेष्यते ॥ ३१ ॥ स० कौतूहलसमुत्पन्नः उत्पन्नकौतूहलः ॥ यमसादनं यमलोकं ३२ ॥ इतिविंशःसर्गः ॥ २ स० लघुविक्रमः रावणतोपितीव्रगमनः ॥ १ ॥ ति० यस्यप्राणिनोयादृशंविधानं पुण्यपापरूपंकर्म । तादृशमनुतिष्ठन्तं । तत्तदनुगुणफलंप्रयच्छन्तं । यद्वा यस्ययादृशंकर्म तादृशंविधानं निग्रहानुग्रहरूपंकृत्यमनुतिष्ठन्तमित्यर्थः ॥ २ ॥ ति० कचित्क्षेम [ पा०1 १ ख.-छ. हिंस्यतेकथं . २ ख. ग. घ. च. ज. यश्चदत्तेकृतेसाक्षी. ३ क, ख. घ. ड. च. ज. ल. ट विचेष्टन्ते. ४ क. ख. घ. च. छ, ज. सुकृतेदुष्कृते. ५ घ, यमराजस्तुछैवविधानं