पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः २० ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । तैस्तैरनिष्टोपग मैरजस्रं यत्रकुत्र कः || मतिमान्मानुपे लोके युद्धेन प्रणयी भवेत् ।। १० ।। क्षीयमाणं दैवहतं क्षुत्पिपासाजरादिभिः | विषादशोकसंमूढं लोकं त्वं क्षपयस्त्र मा ॥ ११ ॥ पश्य तावन्महाबाहो राक्षसेश्वर मानुषम् || मूढमेवं विचित्रार्थं यस्य न ज्ञायते गतिः ॥ १२ ॥ क्वचिद्वादित्रनृत्यादि सेव्यते मुदितैर्जनैः ॥ रुद्यते चापरैरार्तेर्धाराश्रुनयनाननैः ॥ १३ ॥ माता पितृसु त स्नेहैर्भार्या बन्धुमनोरमैः ॥ मोहितोऽयं जनो ध्वस्त क्लेशं स्वं नावबुध्यते ॥ १४ ॥ अलमेनं परिक्लिश्य लोकं मोहनिराकृतम् ॥ जित एव त्वया सौम्य मर्त्यलोको न संशयः ॥ १५ ॥ अवश्यमेभिः सर्वैश्च गन्तव्यं यमसादनम् || तन्निगृह्णीष्व पौलस्त्य यमं परपुरंजय ॥ १६ ॥ तमिञ्जिते जितं सर्वे भवत्येव न संशयः ॥ एवमुक्तस्तु लङ्केशो दीप्यमानं स्वतेजसा ॥ अब्रवीनारदं तत्र संग्रहस्याभिवाद्य च ॥ १७ ॥ महर्षे देवगन्धर्वविहार समरप्रिय | अहं समुद्यतो गन्तुं विजयार्थ रसातलम् ॥ १८ ततो लोकत्रयं जित्वा स्थाप्य नागान्सुरान्वशे || समुद्रममृतार्थ च मथिष्यामि रसालयम् ॥ १९ ॥ अथाब्रवीद्दशग्रीवं नारदो भगवानृषिः ॥ क खल्विदानीं मार्गेण त्वया ह्यन्येन गम्यते ॥ २० ॥ अयं खलु सुदुर्गम्य: प्रेतराजपुरं प्रति ॥ मार्गो गच्छति दुर्धर्षो यमस्यामित्रकर्शन ॥ २१ ॥ स तु शारदमेघाभं हासं मुक्त्वा दशाननः || उवाच कृतमित्येव वचनं चेदमब्रवीत् ॥ २२ ॥ तस्मादेवमहं ब्रह्मन्वैवस्वतवधोद्यतः ॥ गच्छामि दक्षिणामाशां यत्र सूर्यात्मजो नृपः ॥ २३ ॥ मया हि भगवन्क्रोधात्प्रतिज्ञातं रणार्थिना || अवजेष्यामि चतुरो लोकपालानिति प्रभो ॥ २४ ॥ तदिह प्रस्थितोऽहं वै प्रेतराजपुरं प्रति || प्राणिसंक्लेशकर्तारं योजयिष्यामि मृत्युना ॥ २५ ॥ एवमुक्त्वा दशग्रीवो मुनिं तमभिवाद्य च ॥ प्रययौ दक्षिणामाशां प्रहृष्टः सह मन्त्रिभिः ॥ २६ ॥ दः ॥७–९॥ युद्धेनेति । मतिमान् कदा तस्मिन्मर्त्य - | प्रिय ॥ १८ ॥ रसालयं अमृतरसालयं ॥ १९ ॥ लोके युद्धेन वधप्रणयी भवेत् न कोपीत्यर्थः ॥१०॥ किं इदानीं रसातलजिगमिषुणा त्वया अन्येन मार्गेण च मृतमारणवद्युद्धेन तेषां वधो व्यर्थ इत्याह -क्षीयमा- रसातलमार्गव्यतिरिक्तमार्गेण व गम्यते ॥ २० ॥ णमिति ।। ११–१२ । धाराश्रुनयनाननैः धाराभूता- | कस्य तर्ह्ययंमार्ग इत्यपेक्षायामाह - अयं खल्वित्यादि || श्रुनयनयुक्तमुखैः ||१३|| भार्याबन्धुमनोरमैः भार्या - सुदुर्गभ्य: सुदुर्गमः । यदार्षः || २१ || हासमुक्त्वेति । बन्धुषु मनोरमो मनोरमणं प्रीतिर्येषां तैः । क्लेशं पार- कृत्वेति यावत् । शारदमेघाभं नारदंप्रति कृतमित्येवा- लौकिकदुःखं ॥ १४ ॥ मोहनिराकृतः अज्ञानेन वोचत् । तन्मार्गेणैव गमनं तज्जयश्च मम सिद्ध एवे- प्रच्यावितार्थः ॥ १५–१७ ॥ देवगन्धर्वविहार त्युवाचेत्यर्थः ॥ २२ ॥ तस्मादिति || यस्मान्मार्ग उप- देवगन्धर्वैर्गानपरैर्विहारपर | समरप्रिय समरदर्शन - | दिष्टः यतश्च मया चतुर्दिक्पालजय: प्रतिज्ञातस्तस्मा- ॥ ९ ॥ ति० विषादोव्याध्यादिजंदुःखं | शोकोबन्धुवियोगादिजंदुःखं || स० विषादशोकसंमूढं विषादवत् विषभक्षकवत्शोक- संमूढं | तस्ययथाशोकस्तथाशोकयुतमितिभावः ॥ मा माऽयं । माक्षपयस्व नसंहर ॥ ११ ॥ ति० यस्य मनुष्यलोकस्य गतिः दुःखादिभोगकालः । नज्ञायते । तेनलोकेनेतिशेषः ॥ एवंज्ञानराहियेनमूढमपिविचित्रार्थे नानाविधक्षुद्रपुरुषार्थसक्तंमानुषंलोक पश्य ॥ स० यस्यमानुषस्य दुःखादिसमवायसमयः नज्ञायते तेनैवनविदिताभवति तंपश्य ॥ शि० विचित्रार्थ अनेकविधाधि व्याधिविशिष्टं। पश्य जानीहि ॥ १२ ॥ स० मोहनिराकृतं मोहेनस्वजनसंगरूपेण निराकृतंक्लेशितं | मर्त्यलोकं एवंहननादिरू- पेणपरिक्लिश्य क्लेशयित्वा । किं किं प्रयोजनं । पिष्टपेषणरूपत्वादितिभावः ॥ जितः जितप्रायः ॥ १५ ॥ ति० ततः रसातलजया . नन्तरं ॥ १९ ॥ ति० यमस्य यमपुरस्य ॥ २१ ॥ ति० हेमहाब्रह्म ' कुमहद्भ्यामन्यतरस्यां' इत्यच् ॥ २३ ॥ ति० प्रययौ नारदसमीपदेशात् ॥ २६ ॥ [ पा० ] १ क. ख. ग. ज. लोकमेनं विचित्रार्थं. २ ख. च. छ. ट. रुद्धः, ३ ख. घ. - ट. तरिकमेवं परिक्लिश्य. ४ झ. तस्मादेवमहाब्रह्मवैवस्वत ५ ङ. च. झ ञ ट प्रविष्टःसह. 3