पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५० श्रीमद्वाल्मीकिरामायणम् । यदि गुप्ता: प्रजाः सम्यक्तदा सत्यं वचोस्तु मे ॥ २८ ॥ उत्पत्स्यते कुले ह्यसिन्निक्ष्वाकूणां महात्मनाम् ॥ रामो दाशरथिर्नाम यस्ते प्राणान्हरिष्यति ॥२९॥ ततो जलधरोदग्रस्ताडितो देवदुन्दुभिः || तस्मिन्नुदाहृते शापे पुष्पवृष्टिश्च खाच्युता ॥ ३० ॥ ततः स राजा राजेन्द्र गतः स्थानं त्रिविष्टपम् || स्वर्गते च नृपे तमित्राक्षसः सोपसर्पत ॥ ३१ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकोनविंशः सर्गः ॥ १९ ॥ [ उत्तरकाण्डम् ७ विंशः सर्गः ॥ २० ॥ पृथिवीस्थपृथ्वीपतिपराजयपूर्वकं निर्गतेनरावणेन गगने मे घमण्डलवर्तिनोनारदस्यावलोकनेन तंप्रति साभिवादनमागमन- प्रयोजनप्रश्नः ॥ १ ॥ नारदेनाद्भुतयुद्धदर्शनस्य स्वागमनप्रयोजनस्वोत्तया मर्त्यानांदुर्बलतयातजयस्य कीर्त्यप्रयोजकत्वोत्तयाच यमस्य सर्वसंहर्तृत्वेन बलिष्ठवरिष्ठत्वोक्त्याच तज्जयचोदना ॥ २ ॥ तथा यमजयाय तल्लोकंप्रस्थितेरावणे अद्भुतर स्वेनापितत्रगमनम् ॥ ३॥ ततो वित्रासयन्मर्त्यान्पृथिव्यां राक्षसाधिपः || आससाद घने तसिन्नारदं मुनिपुङ्गवम् ॥ १ ॥ तस्याभिवादनं कृत्वा दशग्रीवो निशाचरः ॥ अब्रवीत्कुशलं दृष्ट्वा हेतुमागमनस्य च ॥ २ ॥ नारदस्तु महातेजा देवर्षिरमितप्रभः || अब्रवीन्मेघपृष्ठस्थो रावणं पुष्पके स्थितम् ॥ ३॥ राक्षसाधिपते सौम्य तिष्ठ विश्रवसः सुत || प्रीतोस्म्यभिजनोपेतविक्र मैरूर्जितैस्तव ॥ ४ ॥ विष्णुना दैत्यघातैश्च गन्धर्वोरगधर्षणैः || त्वया समं विमर्दैश्च भृशं हि परितोषितः ॥ ५ ॥ किंचिद्वक्ष्यामि तावत्ते श्रोतव्यं श्रोष्यसे यदि || श्रुत्वा चानन्तरं कार्य त्वया राक्षससत्तम || तन्मे निगदतस्तात समाधिं श्रवणे कुरु ॥ ६ ॥ किमयं वध्यते तात त्वयाऽवध्येन दैवतैः ॥ हत एव ह्ययं लोको यदा मृत्युवशं गतः ॥ ७ ॥ देवदानवदैत्यानां यक्षगन्धर्वरक्षसाम् || अवध्येन त्वया लोकः क्लेष्टुं युक्तो न मानुषः ॥ ८ ॥ नित्यं श्रेयसि संमूढं महद्भिर्व्यसनैर्वृतम् || हन्यात्कस्तादृशं लोकं जराव्याधिशतैर्युतम् ॥ ९॥ ॥ २८-३० ॥ अपसर्पत अपासर्पत् । अपगतवानि- त्यर्थः ॥ ३१ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रा- मायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने एकोनविंशः सर्गः ॥ १९ ॥ या आससाद घने तस्मिन्निति । तस्मिन्काले घने धन- पृष्ठे स्थितं नारदमित्यर्थः ॥ १॥ हेतुमागमनस्य चेत्यत्रापि | पृट्वेत्यन्वयः ॥ २ – ३ ॥ तिष्ठेति । मद्वचनं श्रोतुमिति शेषः । विष्णुदैत्यघातादिर्दृष्टान्तार्थः ॥४--५॥ समा धिं ऐकाग्र्यं ॥६॥ अयं लोकः । त्वया अवध्येनेति च्छे- ति० पुष्पवृष्टिरत्रापिप्राग्वत् ॥ शि० शापे रावणविघातबोधकवचने || स० जलधरोदग्रः अब्दशब्दतउत्कृष्टः । ताडितः सइव । “देववाद्यान्यवाद्यन्तस्वयमन्यैरनाहतौ” इतिहरिवंशेतत्स्वभावावेदनादत्रापितथैवार्थोज्ञेयः ॥ ३० ॥ इत्येकोनविंशःसर्गः ॥ १९ ॥ ति० कुशलंपृष्ट्वा आगमनस्यहेतुमब्रवीत् पप्रच्छेत्यर्थः ॥ २ ॥ ति० तिष्ठ मद्वचः श्रोतुमितिशेषः ॥ ४ ॥ ति० विष्णुनादै - त्यघातादिभिरहंतोषितः। त्वयासमंगन्धर्वोरगधर्षणैर्विमदैर्भाविभिः परितोभविष्यामीत्यर्थः ॥ स० विष्णुनाकर्त्रादैत्य घातैः परि - तोषितः । कलहप्रियत्वान्ममेतिभावः । त्वया असमंयथाभवतितथाकदापिकैरपिपूर्वमनाचरितत्वादनौपम्यं । गन्धर्वोरगधर्षणैः विमर्दैः एतद्रूपैःकरिष्यमाणैः परितोषितः अतिसंतुष्टोभविष्यामि । विनामहदंहोनहतिरेतस्यभवतीति तदर्थंभवन्नयंयत्नोदेवसेवा- रूपइतिनारदस्य न प्रत्यवायइत्यभिप्रायः ॥ ५ ॥ ति० अयंलोकोमर्त्यलोकः । दैवतैरवध्येनेत्यनेन मर्त्येभ्योभयराहित्यमुक्तं ॥ स० हतएव किंवध्यते । स्वतएवमरिष्यन्मारणंरावण तवनयुक्तमितिभावः ॥ ७ ॥ ति० श्रेयसिसमूढं श्रेयआचरणेबुद्धिही [ पा० ] १ क. ख. ग. जं. तार्क्ष्यस्योरगधर्षणैः.